भारत संहिता

अध्याय १५

ग्रहणीचिकित्सितम्

ग्रहणी रोग की चिकित्सा

इस अध्याय में (अध्याय का अपना सार, श्लोक २४४-२४९)

तत्र श्लोकाः-अन्तरग्निगुणा देहं यथा धारयते च सः।यथाऽन्नं पच्यते यांश्च यथाऽऽहरः करोत्यपि॥

श्लोक २४४ →

येऽग्नयो यांश्च पुष्यन्ति यावन्तो ये पचन्ति यान्।रसादीनां क्रमोत्पत्तिर्मलानां तेभ्य एव च॥

श्लोक २४५ →

वृष्याणामाशुकृद्धेतुर्धातुकालोद्भवक्रमः।रोगैकदेशकृद्धेतुरन्तरग्निर्यथाऽधिकः॥

श्लोक २४६ →

प्रदुष्यति यथा दुष्टो यान् रोगाञ्जनयत्यपि।ग्रहणी या यथा यच्च ग्रहणीदोषलक्षणम्॥

श्लोक २४७ →

पूर्वरूपं पृथक् चैव व्यञ्जनं सचिकित्सितम्।चतुर्विधस्य निर्दिष्टं तथा चावस्थिकी क्रिया॥

श्लोक २४८ →

जायते च यथाऽत्यग्निर्यच्च तस्य चिकित्सितम्।उक्तवानिह तत् सर्वं ग्रहणीदोषके मुनिः॥

श्लोक २४९ →

मूल पाठ के किसी शब्द पर टैप करें - उसका अर्थ दिखेगा।

च. चि. १५/१

अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः॥ १ ॥

च. चि. १५/२

इति ह स्माह भगवानात्रेयः॥ २ ॥

च. चि. १५/३

आयुर्वर्णो बलं स्वास्थ्यमुत्साहोपचयौ प्रभा।ओजस्तेजोऽग्न्यः प्राणाश्चोक्ता देहाग्निहेतुकाः॥ ३ ॥

च. चि. १५/४

शान्तेऽग्नौ म्रियते, युक्ते चिरं जीवत्यनामयः।रोगी स्याद्विकृते, मूलमग्निस्तस्मान्निरुच्यते॥ ४ ॥

च. चि. १५/५

यदन्नं देहधात्वोजोबलवर्णादिपोषकम्।तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादयः॥ ५ ॥

च. चि. १५/६

अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति।तद्द्रवैर्भिन्नसंघातं स्नेहेन मृदुतां गतम्॥ ६ ॥

च. चि. १५/७

समानेनावधूतोऽग्निरुदर्यः पवनोद्वहः।काले भुक्तं समं सम्यक् पचत्यायुर्विवृद्धये॥ ७ ॥

च. चि. १५/८

एवं रसमलायान्नमाशयस्थमधःस्थितः।पचत्यग्निर्यथा स्थाल्यामोदनायाम्बुतण्डुलम्॥ ८ ॥

च. चि. १५/९

अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः।मधुराद्यात् कफो भावात् फेनभूत उदीर्यते॥ ९ ॥

च. चि. १५/१०

परं तु पच्यमानस्य विदग्धस्याम्लभावतः।आशयाच्च्यवमानस्य पित्तमच्छमुदीर्यते॥ १० ॥

च. चि. १५/११

पक्वाशयं तु प्राप्तस्य शोष्यमाणस्य वह्निना।परिपिण्डितपक्वस्य वायुः स्यात् कटुभावतः॥ ११ ॥

च. चि. १५/१२

अन्नमिष्टं ह्युपहितमिष्टैर्गन्धादिभिः पृथक्।देहे प्रीणाति गन्धादीन् घ्राणादीनीन्द्रियाणि च॥ १२ ॥

च. चि. १५/१३

भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः।पञ्चाहारगुणान्स्वान्स्वान्पार्थिवादीन्पचन्ति हि॥ १३ ॥

च. चि. १५/१४

यथास्वं स्वं च पुष्णन्ति देहे द्रव्यगुणाः पृथक्।पार्थिवाः पार्थिवानेव शेषाः शेषांश्च कृत्स्नशः॥ १४ ॥

च. चि. १५/१५

सप्तभिर्देहधातारो धातवो द्विविधं पुनः।यथास्वमग्निभिः पाकं यान्ति किट्टप्रसादवत्॥ १५ ॥

च. चि. १५/१६

रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च।अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः॥ १६ ॥

च. चि. १५/१७

रसात् स्तन्यं ततो रक्तमसृजः कण्डराः सिराः।मांसाद्वसा त्वचः षट् च मेदसः स्नायुसंभवः॥ १७ ॥

च. चि. १५/१८

किट्टमन्नस्य विण्मूत्रं, रसस्य तु कफोऽसृजः।पित्तं, मांसस्य खमला, मलः स्वेदस्तु मेदसः॥ १८ ॥

च. चि. १५/१९

स्यात्किट्टं केशलोमास्थ्नो, मज्ज्ञः स्नेहोऽक्षिविट्त्वचां।प्रसादकिट्टे धातूनां पाकादेवंविधर्च्छतः॥ १९ ॥

च. चि. १५/२०

परस्परोपसंस्तम्ब्धा धातुस्नेहपरम्परा।वृष्यादीनां प्रभावस्तु पुष्णाति बलमाशु हि॥ २० ॥

च. चि. १५/२१

षड्भिः केचिदहोरात्रैरिच्छन्ति परिवर्तनम्।संतत्या भोज्यधातूनां परिवृत्तिस्तु चक्रवत्॥ २१ ॥

च. चि. १५/२२

(इत्युक्तवन्तमाचार्यं शिष्यस्त्विदमचोदयत्।रसाद्रक्तं विसदृशात् कथं देहेऽभिजायते॥ २२ ॥

च. चि. १५/२३

रसस्य च न रागोऽस्ति स कथं याति रक्तताम्।द्रवाद्रक्तात्स्थिरं मांसं कथं तज्जायते नृणाम्॥ २३ ॥

च. चि. १५/२४

द्रवधातोः स्थिरान्मांसान्मेदसः संभवः कथम्।श्लक्ष्णाभ्यां मांसमेदोभ्यां खरत्वं कथमस्थिषु॥ २४ ॥

च. चि. १५/२५

खरेष्वस्थिषु मज्जा च केन स्निग्धो मृदुस्तथा।मज्ज्ञश्च परिणामेन यदि शुक्रं प्रवर्तते॥ २५ ॥

च. चि. १५/२६

सर्वदेहगतं शुक्रं प्रवदन्ति मनीषिणः।तथाऽस्थिमध्यमज्ज्ञश्च शुक्रं भवति देहिनाम्॥ २६ ॥

च. चि. १५/२७

छिद्रं न दृश्यतेऽस्थ्नां च तन्निःसरति वा कथम्।एवमुक्तस्तु शिष्येण गुरुः प्राहेदमुत्तरम्॥ २७ ॥

च. चि. १५/२८

तेजो रसानां सर्वेषां मनुजानां यदुच्यते।पित्तोष्मणः स रागेण रसो रक्तत्वमृच्छति॥ २८ ॥

च. चि. १५/२९

वाय्वम्बुतेजसा रक्तमूष्मणा चाभिसंयुतम्।स्थिरतां प्राप्य मांसं स्यात् स्वोष्मणा पक्वमेव तत्॥ २९ ॥

च. चि. १५/३०

स्वतेजोऽम्बुगुणस्निग्धोद्रिक्तं मेदोऽभिजायते।पृथिव्यग्न्यनिलादीनां संघातः स्वोष्मणा कृतः॥ ३० ॥

च. चि. १५/३१

खरत्वं प्रकरोत्यस्य जायतेऽस्थि ततो नृणाम्।करोति तत्र सौषिर्यमस्थ्नां मध्ये समीरणः॥ ३१ ॥

च. चि. १५/३२

मेदसस्तानि पूर्यन्ते स्नेहो मज्जा ततः स्मृतः।तस्मान्मज्ज्ञस्तु यः स्नेहः शुक्रं संजायते ततः॥ ३२ ॥

च. चि. १५/३३

वाय्वाकाशादिभिर्भावैः सौषिर्यं जायतेऽस्थिषु।तेन स्रवति तच्छुक्रं नवात् कुम्भादिवोदकम्॥ ३३ ॥

च. चि. १५/३४

स्रोतोभिः स्यन्दते देहात् समन्ताच्छुक्रवाहिभिः।हर्षेणोदीरितं वेगात् संकल्पाच्च मनोभवात्॥ ३४ ॥

च. चि. १५/३५

विलीनं घृतवद्व्यायामोष्मणा स्थानविच्युतम्।बस्तौ संभृत्य निर्याति स्थलान्निम्नादिवोदकम्॥)

च. चि. १५/३६

व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा।युगपत् सर्वतोऽजस्रं देहे विक्षिप्यते सदा॥ ३६ ॥

च. चि. १५/३७

क्षिप्यमाणः खवैगुण्याद्रसः सज्जति यत्र सः।करोति विकृतिं तत्र खे वर्षमिव तोयदः॥ ३७ ॥

च. चि. १५/३८

दोषाणामपि चैवं स्यादेकदेशप्रकोपणम्।इति भौतिकधात्वन्नपक्तॄणां कर्म भाषितम्॥ ३८ ॥

च. चि. १५/३९

अन्नस्य पक्ता सर्वेषां पक्तॄणामधिपो मतः।तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः॥ ३९ ॥

च. चि. १५/४०

तस्मात्तं विधिवद्युक्तैरन्नपानेन्धनैर्हितैः।पालयेत् प्रयतस्तस्य स्थितौ ह्यायुर्बलस्थितिः॥ ४० ॥

च. चि. १५/४१

यो हि भुङ्क्ते विधिं त्यक्त्वा ग्रहणीदोषजान् गदान्।स लौल्याल्लभते शीघ्रं, वक्ष्यन्तेऽतः परं तु ते॥ ४१ ॥

च. चि. १५/४२

अभोजनादजीर्णातिभोजनाद्विषमाशनात्।असात्म्यगुरुशीतातिरूक्षसंदुष्टभोजनात्॥ ४२ ॥

च. चि. १५/४३

विरेकवमनस्नेहविभ्रमाद्व्याधिकर्षणात्।देशकालर्तुवैषम्याद्वेगानां च विधारणात्॥ ४३ ॥

च. चि. १५/४४

दुष्यत्यग्निः, स दुष्टोऽन्नं न तत् पचति लघ्वपि।अपच्यमानं शुक्तत्वं यात्यन्नं विषरूपताम्॥ ४४ ॥

च. चि. १५/४५

तस्य लिङ्गमजीर्णस्य विष्टम्भः सदनं तथा।शिरसो रुक् च मूर्च्छा च भ्रमः पृष्ठकटिग्रहः॥ ४५ ॥

च. चि. १५/४६

जृम्भाऽङ्गमर्दस्तृष्णा च ज्वरश्छर्दिः प्रवाहणम्।अरोचकोऽविपाकश्च, घोरमन्नविषं च तत्॥ ४६ ॥

च. चि. १५/४७

संसृज्यमानं पित्तेन दाहं तृष्णां मुखामयान्।जनयत्यम्लपित्तं च पित्तजांश्चापरान् गदान्॥ ४७ ॥

च. चि. १५/४८

यक्ष्मपीनसमेहादीन् कफजान् कफसङ्गतम्।करोति वातसंसृष्टं वातजांश्च गदान् बहून्॥ ४८ ॥

च. चि. १५/४९

मूत्ररोगांश्च मूत्रस्थं कुक्षिरोगान् शकृद्गतम्।रसादिभिश्च संसृष्टं कुर्याद्रोगान् रसादिजान्॥ ४९ ॥

च. चि. १५/५०

विषमो धातुवैषम्यं करोति विषमं पचन्।तीक्ष्णो मन्देन्धनो धातून् विशोषयति पावकः॥ ५० ॥

च. चि. १५/५१

युक्तं भुक्तवतो युक्तो धातुसाम्यं समं पचन्।दुर्बलो विदहत्यन्नं तद्यात्यूर्ध्वमधोऽपि वा॥ ५१ ॥

च. चि. १५/५२

अधस्तु पक्वमामं वा प्रवृत्तं ग्रहणीगदः।उच्यते सर्वमेवान्नं प्रायो ह्यस्य विदह्यते॥ ५२ ॥

च. चि. १५/५३

अतिसृष्टं विबद्धं वा द्रवं तदुपदिश्यते।तृष्णारोचकवैरस्यप्रसेकतमकान्वितः॥ ५३ ॥

च. चि. १५/५४

शूनपादकरः सास्थिपर्वरुक् छर्दनं ज्वरः।लोहामगन्धिस्तिक्ताम्ल उद्गारश्चास्य जायते॥ ५४ ॥

च. चि. १५/५५

पूर्वरूपं तु तस्येदं तृष्णाऽऽलस्यं बलक्षयः।विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम्॥ ५५ ॥

च. चि. १५/५६

अग्न्यधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता।नाभेरुपर्यह्यग्निबलेनोपष्टब्धोपबृंहिता॥ ५६ ॥

च. चि. १५/५७

अपक्वं धारयत्यन्नं पक्वं सृजति पार्श्वतः।दुर्बलाग्निबला दुष्टा त्वाममेव विमुञ्चति॥ ५७ ॥

च. चि. १५/५८

वातात् पित्तात् कफाच्च स्यात्तद्रोगस्त्रिभ्य एव च।हेतुं लिङ्गं रूपभेदाञ् शृणु तस्य पृथक् पृथक्॥ ५८ ॥

च. चि. १५/५९

कटुतिक्तकषायातिरूक्षशीतलभोजनैः।प्रमितानशनात्यध्ववेगनिग्रहमैथुनैः॥ ५९ ॥

च. चि. १५/६०

करोति कुपितो मन्दमग्निं संछाद्य मारुतः।तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता॥ ६० ॥

च. चि. १५/६१

कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः।पार्श्वोरुवङ्क्षणग्रीवारुजोऽभीक्ष्णं विसूचिका॥ ६१ ॥

च. चि. १५/६२

हृत्पीडा कार्श्यदौर्बल्यं वैरस्यं परिकर्तिका।गृद्धिः सर्वरसानां च मनसः सदनं तथा॥ ६२ ॥

च. चि. १५/६३

जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च।स वातगुल्महृद्रोगप्लीहाशङ्की च मानवः॥ ६३ ॥

च. चि. १५/६४

चिराद्दुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत्।पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात्॥ ६४ ॥

च. चि. १५/६५

कट्वजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्बणम्।अग्निमाप्लावयद्धन्ति जलं तप्तमिवानलम्॥ ६५ ॥

च. चि. १५/६६

सोऽजीर्णं नीलपीताभं पीताभः सार्यते द्रवम्।पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः॥ ६६ ॥

च. चि. १५/६७

गुर्वतिस्निग्धशीतादिभोजनादतिभोजनात्।भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः॥ ६७ ॥

च. चि. १५/६८

तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः।आस्योपदेहमाधुर्यकासष्ठीवनपीनसाः॥ ६८ ॥

च. चि. १५/६९

हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु।दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम्॥ ६९ ॥

च. चि. १५/७०

भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्।अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके॥ ७० ॥

च. चि. १५/७१

यश्चाग्निः पूर्वमुद्दिष्टो रोगानीके चतुर्विधः।तं चापि ग्रहणीदोषं समवर्जं प्रचक्ष्महे॥ ७१ ॥

च. चि. १५/७२

पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे।त्रिदोषं निर्दिशेत्तेषां भेषजं शृण्वतः परम्॥ ७२ ॥

च. चि. १५/७३

ग्रहणीमाश्रितं दोषं विदग्धाहारमूर्च्छितम्।सविष्टम्भप्रसेकार्तिविदाहारुचिगौरवैः॥ ७३ ॥

च. चि. १५/७४

आमलिङ्गान्वितं दृष्ट्वा सुखोष्णेनाम्बुनोद्धरेत्।फलानां वा कषायेण पिप्पलीसर्षपैस्तथा॥ ७४ ॥

च. चि. १५/७५

लीनं पक्वाशयस्थं वाऽऽप्यामं स्राव्यं सदीपनैः।शरीरानुगते सामे रसे लङ्घनपाचनम्॥ ७५ ॥

च. चि. १५/७६

विशुद्धामाशयायास्मै पञ्चकोलादिभिः शृतम्।दद्यात् पेयादि लघ्वन्नं पुनर्योगांश्च दीपनान्॥ ७६ ॥

च. चि. १५/७७

ज्ञात्वा तु परिपक्वामं मारुतग्रहणीगदम्।दीपनीययुतं सर्पिः पाययेताल्पशो भिषक्॥ ७७ ॥

च. चि. १५/७८

किंचित्सन्धुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम्।द्व्यहं त्र्यहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत्॥ ७८ ॥

च. चि. १५/७९

तत एरण्डतैलेन सर्पिषा तैल्वकेन वा।सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत्॥ ७९ ॥

च. चि. १५/८०

शुद्धं रूक्षाशयं बद्धवर्चसं चानुवासयेत्।दीपनीयाम्लवातघ्नसिद्धतैलेन मात्रया॥ ८० ॥

च. चि. १५/८१

नीरूढं च विरिक्तं च सम्यक् चैवानुवासितम्।लघ्वन्नं प्रतिसंभुक्तं सर्पिरभ्यासयेत् पुनः॥ ८१ ॥

च. चि. १५/८२

द्वे पञ्चमूले सरलं देवदारु सनागरम्।पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्॥ ८२ ॥

च. चि. १५/८३

शणबीजं यवान् कोलान् कुलत्थान् सुषवीं तथा।पाचयेदारनालेन दध्ना सौवीरकेण वा॥ ८३ ॥

च. चि. १५/८४

चतुर्भागावशेषेण पचेत्तेन घृताढकम्।स्वर्जिकायावशूकाख्यौ क्षारौ दत्त्वा च युक्तितः॥ ८४ ॥

च. चि. १५/८५

सैन्धवौद्भिदसामुद्रबिडानां रोमकस्य च।ससौवर्चलपाक्यानां भागान्द्विपलिकान् पृथक्॥ ८५ ॥

च. चि. १५/८६

विनीय चूर्णितान् तस्मात् पाययेत् प्रसृतं बुधः।करोत्यग्निं बलं वर्णं वातघ्नं भुक्तपाचनम्॥इति दशमूलाद्यं घृतम्।

च. चि. १५/८७

त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात् पले।सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत्॥इति त्र्यूषणाद्यं घृतम्।

च. चि. १५/८८

पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवैः।रास्नाक्षारद्वयाजाजीविडङ्गशटिभिर्घृतम्॥ ८८ ॥

च. चि. १५/८९

शुक्तेन मातुलुङ्गस्य स्वरसेनार्द्रकस्य च।शुष्कमूलककोलाम्बुचुक्रिकादाडिमस्य च॥ ८९ ॥

च. चि. १५/९०

तक्रमस्तुसुरामण्डसौवीरकतुषोदकैः।काञ्जिकेन च तत् पक्वमग्निदीप्तिकरं परम्॥ ९० ॥

च. चि. १५/९१

शूलगुल्मोदरश्वासकासानिलकफापहम्।सबीजपूरकरसं सिद्धं वा पाययेद्घृतम्॥ ९१ ॥

च. चि. १५/९२

सिद्धमभ्यञ्जनार्थं च तैलमेतैः प्रयोजयेत्।एतेषामौषधानां वा पिबेच्चूर्णं सुखाम्बुना॥ ९२ ॥

च. चि. १५/९३

वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते।दद्याच्चूर्णं पाचनार्थमग्निसन्दीपनं परम्॥इति पञ्चमूलाद्यं घृतं चूर्णं च।

च. चि. १५/९४

मज्जत्यामा गुरुत्वाद्विट् पक्वा तूत्प्लवते जले।विनाऽतिद्रवसङ्घातशैत्यश्लेष्मप्रदूषणात्॥ ९४ ॥

च. चि. १५/९५

परीक्ष्यैवं पुरा सामं निरामं चामदोषिणम्।विधिनोपाचरेत् सम्यक् पाचनेनेतरेण वा॥ ९५ ॥

च. चि. १५/९६

चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च।व्योषं हिङ्ग्वजमोदां च चव्यं चैकत्र चूर्णयेत्॥ ९६ ॥

च. चि. १५/९७

गुटिका मातुलुङ्गस्य दाडिमस्य रसेन वा।कृता विपाचयत्यामं दीपयत्याशु चानलम्॥इति चित्रकाद्या गुटिका।

च. चि. १५/९८

नागरातिविषामुस्तक्वाथः स्यादामपाचनः।मुस्तान्तकल्कः पथ्या वा नागरं चोष्णवारिणा॥ ९८ ॥

च. चि. १५/९९

देवदारुवचामुस्तनागरातिविषाभयाः।वारुण्यामासुतास्तोये कोष्णे वाऽलवणाः पिबेत्॥ ९९ ॥

च. चि. १५/१००

वर्चस्यामे सशूले च पिबेद्वा दाडिमाम्बुना।विडेन लवणं पिष्टं बिल्वं चित्रकनागरम्॥ १०० ॥

च. चि. १५/१०१

सामे वा सकफे वाते कोष्ठशूलकरे पिबेत्।कलिङ्गहिङ्ग्वतिविषावचासौवर्चलाभयाः॥ १०१ ॥

च. चि. १५/१०२

छर्द्यर्शोग्रन्थिशूलेषु पिबेदुष्णेन वारिणा।पथ्यासौवर्चलाजाजीचूर्णं मरिचसंयुतम्॥ १०२ ॥

च. चि. १५/१०३

अभयां पिप्पलीमूलं वचां कटुकरोहिणीम्।पाठां वत्सकबीजानि चित्रकं विश्वभेषजम्॥ १०३ ॥

च. चि. १५/१०४

पिबेन्निष्क्वाथ्य चूर्णं वा कृत्वा कोष्णेन वारिणा।पित्तश्लेष्माभिभूतायां ग्रहण्यां शूलनुद्धितम्॥ १०४ ॥

च. चि. १५/१०५

सामे सातिविषं व्योषं लवणक्षारहिङ्गु च।निःक्वाथ्य पाययेच्चूर्णं कृत्वा वा कोष्णवारिणा॥ १०५ ॥

च. चि. १५/१०६

पिप्पलीं नागरं पाठां सारिवां बृहतीद्वयम्।चित्रकं कौटजं बीजं लवणान्यथ पञ्च च॥ १०६ ॥

च. चि. १५/१०७

तच्चूर्णं सयवक्षारं दध्युष्णाम्बुसुरादिभिः।पिबेदग्निविवृद्ध्यर्थं कोष्ठवातहरं नरः॥ १०७ ॥

च. चि. १५/१०८

मरिचं कुञ्चिकाम्बष्ठावृक्षाम्लाः कुडवाः पृथक्।पलानि दश चाम्लस्य वेतसस्य पलार्धिकम्॥ १०८ ॥

च. चि. १५/१०९

सौवर्चलं बिडं पाक्यं यवक्षारः ससैन्धवः।शटीपुष्करमूलानि हिङ्गु हिङ्गुशिवाटिका॥ १०९ ॥

च. चि. १५/११०

तत् सर्वमेकतः सूक्ष्मं चूर्णं कृत्वा प्रयोजयेत्।हितं वाताभिभूतायां ग्रहण्यामरुचौ तथा॥इति मरिचाद्यं चूर्णं।

च. चि. १५/१११

चतुर्णां प्रस्थमम्लानां त्र्यूषणस्य पलत्रयम्।लवणानां च चत्वारि शर्करायाः पलाष्टकम्।संचूर्ण्य शाकसूपान्नरागादिष्ववचारयेत्॥ १११ ॥

च. चि. १५/११२

कासाजीर्णारुचिश्वासहृत्पाण्ड्वामयशूलनुत्।चव्यत्वक्पिप्पलीमूलधातकीव्योषचित्रकान्॥ ११२ ॥

च. चि. १५/११३

कपित्थं बिल्वमम्बष्ठां शाल्मलं हस्तिपिप्पलीम्।शिलोद्भेदं तथाऽजाजीं पिष्ट्वा बदरसंमितम्॥ ११३ ॥

च. चि. १५/११४

परिभर्ज्य घृते दध्ना यवागूं साधयेद्भिषक्।रसैः कपित्थचुक्रीकावृक्षाम्लैर्दाडिमस्य च॥ ११४ ॥

च. चि. १५/११५

सर्वातिसारग्रहणीगुल्मार्शःप्लीहनाशिनी।पञ्चकोलकयूषश्च मूलकानां च सोषणः॥ ११५ ॥

च. चि. १५/११६

स्निग्धो दाडिमतक्राम्लो जाङ्गलः संस्कृतो रसः।क्रव्यादस्वरसः शस्तो भोजनार्थे सदीपनः॥ ११६ ॥

च. चि. १५/११७

तक्रारनालमद्यानि पानायारिष्ट एव च।तक्रं तु ग्रहणीदोषे दीपनग्राहिलाघवात्॥ ११७ ॥

च. चि. १५/११८

श्रेष्ठं मधुरपाकित्वान्न च पित्तं प्रकोपयेत्।कषायोष्णविकाशित्वाद्रौक्ष्याच्चैव कफे हितम्॥ ११८ ॥

च. चि. १५/११९

वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत्।तस्मात् तक्रप्रयोगा ये जठराणां तथाऽर्शसाम्॥ ११९ ॥

च. चि. १५/१२०

विहिता ग्रहणीदोषे सर्वशस्तान् प्रयोजयेत्।यवान्यामलके पथ्या मरिचं त्रिपलांशिकम्॥ १२० ॥

च. चि. १५/१२१

लवणानि पलांशानि पञ्च चैकत्र चूर्णयेत्।तक्रे तदासुतं जातं तक्रारिष्टं पिबेन्नरः।दीपनं शोथगुल्मार्शःक्रिमिमेहोदरापहम्॥इति तक्रारिष्टः।

च. चि. १५/१२२

स्वस्थानगतमुत्क्लिष्टमग्निनिर्वापकं भिषक्।पित्तं ज्ञात्वा विरेकेण निर्हरेद्वमनेन वा॥ १२२ ॥

च. चि. १५/१२३

अविदाहिभिरन्नैश्च लघुभिस्तिक्तसंयुतैः।जाङ्गलानां रसैर्यूषैर्मुद्गादीनां खडैरपि॥ १२३ ॥

च. चि. १५/१२४

दाडिमाम्लैः ससर्पिष्कैर्दीपनग्राहिसंयुतैः।तस्याग्निं दीपयेच्चूर्णैः सर्पिर्भिश्चापि तिक्तकैः॥ १२४ ॥

च. चि. १५/१२५

चन्दनं पद्मकोशीरं पाठां मूर्वां कुटन्नटम्।षड्ग्रन्थासारिवास्फोतासप्तपर्णाटरूषकान्॥ १२५ ॥

च. चि. १५/१२६

पटोलोदुम्बराश्वत्थवटप्लक्षकपीतनान्।कटुकां रोहिणीं मुस्तं निम्बं च द्विपलांशिकम्॥ १२६ ॥

च. चि. १५/१२७

द्रोणेऽपां साधयेत् पादशेषे प्रस्थं घृतात् पचेत्।किराततिक्तेन्द्रयववीरामागधिकोत्पलैः॥ १२७ ॥

च. चि. १५/१२८

कल्कैरक्षसमैः पेयं तत् पित्तग्रहणीगदे।तिक्तकं यद्घृतं चोक्तं कौष्ठिके तच्च दापयेत्॥इति चन्दनाद्यं घृतम्।

च. चि. १५/१२९

नागरातिविषे मुस्तं धातकीं च रसाञ्जनम्।वत्सकत्वक्फलं बिल्वं पाठां कटुकरोहिणीम्॥ १२९ ॥

च. चि. १५/१३०

पिबेत् समांशं तच्चुर्णं सक्षौद्रं तण्डुलाम्बुना।पैत्तिके ग्रहणीदोषे रक्तं यच्चोपवेश्यते॥ १३० ॥

च. चि. १५/१३१

अर्शांसि च गुदे शूलं जयेच्चैव प्रवाहिकाम्।नागराद्यमिदं चूर्णं कृष्णात्रेयेण पूजितम्॥इति नागराद्यं चूर्णम्।

च. चि. १५/१३२

भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान् समान्।द्वौ चित्रकाद्वत्सकत्वग्भागान् षोडश चूर्णयेत्॥ १३२ ॥

च. चि. १५/१३३

गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत्।कामलाज्वरपाण्डुत्वमेहारुच्यतिसारनुत्॥इति भूनिम्बाद्यं चूर्णम्।

च. चि. १५/१३४

वचामतिविषां पाठां सप्तपर्णं रसाञ्जनम्।स्योनाकोदीच्यकट्वङ्गवत्सकत्वग्दुरालभाः॥ १३४ ॥

च. चि. १५/१३५

दार्वीं पर्पटकं पाठां यवानीं मधुशिग्रुकम्।पटोलपत्रं सिद्धार्थान् यूथिकां जातिपल्लवान्॥ १३५ ॥

च. चि. १५/१३६

जम्ब्वाम्रबिल्वमध्यानि निम्बशाकफलानि च।तद्रोगशममन्विच्छन् भूनिम्बाद्येन योजयेत्॥ १३६ ॥

च. चि. १५/१३७

किराततिक्तः षड्ग्रन्था त्रायमाणा कटुत्रिकम्।चन्दनं पद्मकोशीरं दार्वीत्वक् कटुरोहिणी॥ १३७ ॥

च. चि. १५/१३८

कुटजत्वक्फलं मुस्तं यवानी देवदारु च।पटोलनिम्बपत्रैलासौराष्ट्र्यतिविषात्वचः॥ १३८ ॥

च. चि. १५/१३९

मधुशिग्रोश्च बीजानि मूर्वा पर्पटकस्तथा।तच्चूर्णं मधुना लेह्यं पेयं मद्यैर्जलेन वा॥ १३९ ॥

च. चि. १५/१४०

हृत्पाण्डुग्रहणीरोगगुल्मशूलारुचिज्वरान्।कामलां सन्निपातं च मुखरोगांश्च नाशयेत्॥इति किराताद्यं चूर्णम्।

च. चि. १५/१४१

ग्रहण्यां श्लेष्मदुष्टायां वमितस्य यथाविधि।कट्वम्ललवणक्षारैस्तिक्तैश्चाग्निं विवर्धयेत्॥ १४१ ॥

च. चि. १५/१४२

पलाशं चित्रकं चव्यं मातुलुङ्गं हरीतकीम्।पिप्पलीं पिप्पलीमूलं पाठां नागरधान्यकम्॥ १४२ ॥

च. चि. १५/१४३

कार्षिकाण्युदकप्रस्थे पक्त्वा पादावशेषितम्।पानीयार्थं प्रयुञ्जीत यवागूं तैश्च साधयेत्॥ १४३ ॥

च. चि. १५/१४४

शुष्कमूलकयूषेण कौलत्थेनाथवा पुनः।कट्वम्लक्षारपटुना लघून्यन्नानि भोजयेत्॥ १४४ ॥

च. चि. १५/१४५

अम्लं चानु पिबेत्तक्रं तक्रारिष्टमथापि वा।मदिरां मध्वरिष्टं वा निगदं सीधुमेव वा॥ १४५ ॥

च. चि. १५/१४६

द्रोणं मधूकपुष्पाणां विडङ्गानां ततोऽर्धतः।चित्रकस्य ततोऽर्धं स्यात्तथा भल्लातकाढकम्॥ १४६ ॥

च. चि. १५/१४७

मञ्जिष्ठाष्टपलं चैव त्रिद्रोणेऽपां विपाचयेत्।द्रोणशेषं तु तच्छीतं मध्वर्धाढकसंयुतम्॥ १४७ ॥

च. चि. १५/१४८

एलामृणालागुरुभिश्चन्दनेन च रूषिते।कुम्भे मासस्थितं जातमासवं तं प्रयोजयेत्॥ १४८ ॥

च. चि. १५/१४९

ग्रहणीं दीपयत्येव बृंहणः कफपित्तजित्।शोथं कुष्ठं किलासं च प्रमेहांश्च प्रणाशयेत्॥इति मधूकासवः।

च. चि. १५/१५०

मधूकपुष्पस्वरसं शृतमर्धक्षयीकृतम्।क्षौद्रपादयुतं शीतं पूर्ववत् सन्निधापयेत्॥ १५० ॥

च. चि. १५/१५१

तं पिबन् ग्रहणीदोषाञ्जयेत् सर्वान् हिताशनः।तद्वद्द्राक्षेक्षुखर्जूरस्वरसानासुतान् पिबेत्॥ १५१ ॥

च. चि. १५/१५२

प्रस्थौ दुरालभाया द्वौ प्रस्थमामलकस्य च।दन्तीचित्रकमुष्टी द्वे प्रत्यग्रं चाभयाशतम्॥ १५२ ॥

च. चि. १५/१५३

चतुर्द्रोणेऽम्भसः पक्त्वा शीतं द्रोणावशेषितम्।सगुडद्विशतं पूतं मधुनः कुडवायुतम्॥ १५३ ॥

च. चि. १५/१५४

तद्वत् प्रियङ्गोः पिप्पल्या विडङ्गानां च चूर्णितैः।कुडवैर्घृतकुम्भस्थं पक्षाज्जातं ततः पिबेत्॥ १५४ ॥

च. चि. १५/१५५

ग्रहणीपाण्डुरोगार्शःकुष्ठवीसर्पमेहनुत्।स्वरवर्णकरश्चैष रक्तपित्तकफापहः॥इति दुरालभासवः।

च. चि. १५/१५६

हरिद्रा पञ्चमूले द्वे वीरर्षभकजीवकम्।एषां पञ्चपलान् भागांश्चतुर्द्रोणेऽम्भसः पचेत्॥ १५६ ॥

च. चि. १५/१५७

द्रोणशेषे रसे पूते गुडस्य द्विशतं भिषक्।चूर्णितान् कुडवार्धांशान् प्रक्षिपेच्च समाक्षिकान्॥ १५७ ॥

च. चि. १५/१५८

प्रियङ्गुमुस्तमञ्जिष्ठाविडङ्गमधुकप्लवान्।लोध्रं शाबरकं चैव मासार्धस्थं पिबेत्तु तम्॥ १५८ ॥

च. चि. १५/१५९

एष मूलासवः सिद्धो दीपनो रक्तपित्तजित्।आनाहकफहृद्रोगपाण्डुरोगाङ्गसादनुत्॥इति मूलासवः।

च. चि. १५/१६०

प्रास्थिकं पिप्पलीं पिष्ट्वा गुडं मध्यं बिभीतकात्।उदकप्रस्थसंयुक्तं यवपल्ले निधापयेत्॥ १६० ॥

च. चि. १५/१६१

तस्मात् पलं सुजातात्तु सलिलाञ्जलिसंयुतम्।पिबेत्पिण्डासवो ह्येष रोगानीकविनाशनः॥ १६१ ॥

च. चि. १५/१६२

स्वस्थोऽप्येनं पिबेन्मासं नरः स्निग्धरसाशनः।इच्छंस्तेषामनुत्पत्तिं रोगाणां येऽत्र कीर्तिताः॥इति पिण्डासवः।

च. चि. १५/१६३

नवे पिप्पलिमध्वाक्ते कलसेऽगुरुधूपिते।मध्वाढकं जलसमं चूर्णानीमानि दापयेत्॥ १६३ ॥

च. चि. १५/१६४

कुडवार्धं विडङ्गानां पिप्पल्याः कुडवं तथा।चरुर्थिकांशां त्वक्क्षीरीं केशरं मरिचानि च॥ १६४ ॥

च. चि. १५/१६५

त्वगेलापत्रकशटीक्रमुकातिविषाघनान्।हरेण्वेल्वालुतेजोह्वापिप्पलीमूलचित्रकान्॥ १६५ ॥

च. चि. १५/१६६

कार्षिकांस्तत् स्थितं मासमत ऊर्ध्वं प्रयोजयेत्।मन्दं संदीपयत्यग्निं करोति विषमं समम्॥ १६६ ॥

च. चि. १५/१६७

हृत्पाण्डुग्रहणीरोगकुष्ठार्शःश्वयथुज्वरान्।वातश्लेष्मामयांश्चान्यान्मध्वरिष्टो व्यपोहति॥इति मध्वरिष्टः।

च. चि. १५/१६८

समूलां पिप्पलीं क्षारौ द्वौ पञ्च लवणानि च।मातुलुङ्गाभयारास्नाशटीमरिचनागरम्॥ १६८ ॥

च. चि. १५/१६९

कृत्वा समांशं तच्चूर्णं पिबेत् प्रातः सुखाम्बुना।श्लैष्मिके ग्रहणीदोषे बलवर्णाग्निवर्धनम्॥ १६९ ॥

च. चि. १५/१७०

एतैरेवौषधैः सिद्धं सर्पिः पेयं समारुते।गौल्मिके षट्पलं प्रोक्तं भल्लातकघृतं च यत्॥ १७० ॥

च. चि. १५/१७१

बिडं कालोत्थलवणं सर्जिकायवशूकजम्।सप्तलां कण्टकारीं च चित्रकं चेति दाहयेत्॥ १७१ ॥

च. चि. १५/१७२

सप्तकृत्वः स्रुतस्यास्य क्षारस्य द्व्याढकेन तु।आढकं सर्पिषः पक्त्वा पिबेदग्निविवर्धनम्॥इति क्षारघृतम्।

च. चि. १५/१७३

समूलां पिप्पलीं पाठां चव्येन्द्रयवनागरम्।चित्रकातिविषे हिङ्गु श्वदंष्ट्रां कटुरोहिणीम्॥ १७३ ॥

च. चि. १५/१७४

वचां च कार्षिकं पञ्चलवणानां पलानि च।दध्नः प्रस्थद्वये तैलसर्पिषोः कुडवद्वये॥ १७४ ॥

च. चि. १५/१७५

खण्डीकृतानि निष्क्वाथ्य शनैरन्तर्गते रसे।अन्तर्धूमं ततो दग्ध्वा चूर्णं कृत्वा घृताप्लुतम्॥ १७५ ॥

च. चि. १५/१७६

पिबेत् पाणितलं तस्मिञ्जीर्णे स्यान्मधुराशनः।वातश्लेष्मामयान्सर्वान्हन्याद्विषगरांश्च सः॥ १७६ ॥

च. चि. १५/१७७

भल्लातकं त्रिकटुकं त्रिफलां लवणत्रयम्।अन्तर्धूमं द्विपलिकं गोपुरीषाग्निना दहेत्॥ १७७ ॥

च. चि. १५/१७८

स क्षारः सर्पिषा पीतो भोज्ये वाऽप्यवचूर्णितः।हृत्पाण्डुग्रहणीदोषगुल्मोदावर्तशूलनुत्॥ १७८ ॥

च. चि. १५/१७९

दुरालभां करञ्जौ द्वौ सप्तपर्णं सवत्सकम्।षड्ग्रन्थां मदनं मूर्वां पाठामारग्वधं तथा॥ १७९ ॥

च. चि. १५/१८०

गोमूत्रेण समांशानि कृत्वा चूर्णानि दाहयेत्।दग्ध्वा च तं पिबेत् क्षारं ग्रहणीबलवर्धनम्॥ १८० ॥

च. चि. १५/१८१

भूनिम्बं रोहिणीं तिक्तां पटोलं निम्बपर्पटम्।दहेन्माहिषमूत्रेण क्षार एषोऽग्निवर्धनः॥ १८१ ॥

च. चि. १५/१८२

द्वे हरिद्रे वचा कुष्ठं चित्रकः कटुरोहिणी।मुस्तं च बस्तमूत्रेण दहेत् क्षारोऽग्निवर्धनः॥ १८२ ॥

च. चि. १५/१८३

चतुष्पलं सुधाकाण्डात्त्रिपलं लवणत्रयात्।वार्ताकीकुडवं चार्कादष्टौ द्वे चित्रकात् पले॥ १८३ ॥

च. चि. १५/१८४

दग्धानि वार्ताकुरसे गुटिका भोजनोत्तराः।भुक्तं भुक्तं पचन्त्याशु कासश्वासार्शसां हिताः॥ १८४ ॥

च. चि. १५/१८५

विसूचिकाप्रतिश्यायहृद्रोगशमनाश्च ताः।इत्येषा क्षारगुटिका कृष्णात्रेयेण कीर्तिता॥इति क्षारगुडिका।

च. चि. १५/१८६

वत्सकातिविषे पाठां दुःस्पर्शां हिङ्गु चित्रकम्।चूर्णीकृत्य पलाशाग्रक्षारे मूत्रस्रुते पचेत्॥ १८६ ॥

च. चि. १५/१८७

आयसे भाजने सान्द्रात्तस्मात् कोलं सुखाम्बुना।मद्यैर्वा ग्रहणीदोषशोथार्शःपाण्डुमान् पिबेत्॥इति चतुर्थक्षारः।

च. चि. १५/१८८

त्रिफलां कटभीं चव्यं बिल्वमध्यमयोरजः।रोहिणीं कटुकां मुस्तं कुष्ठं पाठां च हिङ्गु च॥ १८८ ॥

च. चि. १५/१८९

मधुकं मुष्ककयवक्षारौ त्रिकटुकं वचाम्।विडङ्गं पिप्पलीमूलं स्वर्जिकां निम्बचित्रकौ॥ १८९ ॥

च. चि. १५/१९०

मूर्वाजमोदेन्द्रयवान् गुडूचीं देवदारु च।कार्षिकं लवणानां च पञ्चानां पलिकान्पृथक्॥ १९० ॥

च. चि. १५/१९१

भागान् दध्नि त्रिकुडवे घृततैलेन मूर्च्छितम्।अन्तर्धूमं शनैर्दग्ध्वा तस्मात् पाणितलं पिबेत्॥ १९१ ॥

च. चि. १५/१९२

सर्पिषा कफवातार्शोग्रहणीपाण्डुरोगवान्।प्लीहमूत्रग्रहश्वासहिक्काकासक्रिमिज्वरान्॥ १९२ ॥

च. चि. १५/१९३

शोषातिसारौ श्वयथुं प्रमेहानाहहृद्ग्रहान्।हन्यात् सर्वविषं चैव क्षारोऽग्निजननो वरः॥ १९३ ॥

च. चि. १५/१९४

जीर्णे रसैर्वा मधुरैरश्नीयात् पयसाऽपि वा।इति पञ्चमक्षारः।त्रिदोषे विधिविद्वैद्यः पञ्च कर्माणि कारयेत्॥ १९४ ॥

च. चि. १५/१९५

घृतक्षारासवारिष्टान् दद्याच्चाग्निविवर्धनान्।क्रिया या चानिलादीनां निर्दिष्टा ग्रहणीं प्रति॥ १९५ ॥

च. चि. १५/१९६

व्यत्यासात्तां समस्तां वा कुर्याद्दोषविशेषवित्।स्नेहनं स्वेदनं शुद्धिर्लङ्घनं दीपनं च यत्॥ १९६ ॥

च. चि. १५/१९७

चूर्णानि लवणक्षारमध्वरिष्टसुरासवाः।विविधास्तक्रयोगाश्च दीपनानां च सर्पिषाम्॥ १९७ ॥

च. चि. १५/१९८

ग्रहणीरोगिभिः सेव्याः, क्रियां चावस्थिकीं शृणु।ष्ठीवनं श्लैष्मिके रूक्षं दीपनं तिक्तसंयुतम्॥ १९८ ॥

च. चि. १५/१९९

सकृद्रूक्षं सकृत्स्निग्धं कृशे बहुकफे हितम्।परीक्ष्यामं शरीरस्य दीपनं स्नेहसंयुतम्॥ १९९ ॥

च. चि. १५/२००

दीपनं बहुपित्तस्य तिक्तं मधुरसंयुतम्।बहुवातस्य तु स्नेहलवणाम्लयुतं हितम्॥ २०० ॥

च. चि. १५/२०१

सन्धुक्षति तथा वह्निरेषां विधिवदिन्धनैः।स्नेहमेव परं विद्याद्दुर्बलानलदीपनम्॥ २०१ ॥

च. चि. १५/२०२

नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि।मन्दाग्निरविपक्वं तु पुरीषं योऽतिसार्यते॥ २०२ ॥

च. चि. १५/२०३

दीपनीयौषधैर्युक्तां घृतमात्रां पिबेत्तु सः।तया समानः पवनः प्रसन्नो मार्गमास्थितः॥ २०३ ॥

च. चि. १५/२०४

अग्नेः समीपचारित्वादाशु प्रकुरुते बलम्।काठिन्याद्यः पुरीषं तु कृच्छ्रान्मुञ्चति मानवः॥ २०४ ॥

च. चि. १५/२०५

सघृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत्।रौक्ष्यान्मन्दे पिबेत्सर्पिस्तैलं वा दीपनैर्युतम्॥ २०५ ॥

च. चि. १५/२०६

अतिस्नेहात्तु मन्देऽग्नौ चूर्णारिष्टासवा हिताः।भिन्ने गुदोपलेपात्तु मले तैलसुरासवाः॥ २०६ ॥

च. चि. १५/२०७

उदावर्तात्तु मन्देऽग्नौ निरूहाः स्नेहबस्तयः।दोषवृद्ध्या तु मन्देऽग्नौ शुद्धो दोषविधिं चरेत्॥ २०७ ॥

च. चि. १५/२०८

व्याधियुक्तस्य मन्दे तु सर्पिरेवाग्निदीपनम्।उपवासाच्च मन्देऽग्नौ यवागूभिः पिबेद्घृतम्॥ २०८ ॥

च. चि. १५/२०९

अन्नावपीडितं बल्यं दीपनं बृंहणं च तत्।दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान्नरान्॥ २०९ ॥

च. चि. १५/२१०

प्रसहानां रसैः साम्लैर्भोजयेत् पिशिताशिनाम्।लघु, तीक्ष्णोष्णशोधित्वाद्दीपयन्त्याशु तेऽनलम्॥ २१० ॥

च. चि. १५/२११

मांसोपचितमांसत्वात्तथाऽऽशुतरबृंहणाः।नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्॥ २११ ॥

च. चि. १५/२१२

यथा निरिन्धनो वह्निरल्पो वाऽतीन्धनावृतः।स्नेहान्नविधिभिश्चित्रैश्चूर्णारिष्टसुरासवैः॥ २१२ ॥

च. चि. १५/२१३

सम्यक्प्रयुक्तैर्भिषजा बलमग्नेः प्रवर्धते।यथा हि सारदार्वग्निः स्थिरः संतिष्ठते चिरम्॥ २१३ ॥

च. चि. १५/२१४

स्नेहान्नविधिभिस्तद्वदन्तरग्निर्भवेत् स्थिरः।हितं जीर्णे मितं चाश्नंश्चिरमारोग्यमश्नुते॥ २१४ ॥

च. चि. १५/२१५

अवैषम्येण धातूनामग्निवृद्धौ यतेत ना।समैर्दोषैः समो मध्ये देहस्योष्माऽग्निसंस्थितः॥ २१५ ॥

च. चि. १५/२१६

पचत्यन्नं तदारोग्यपुष्ट्यायुर्बलवृद्धये।दोषैर्मन्दोऽतिवृद्धो वा विषमैर्जनयेद्गदान्॥ २१६ ॥

च. चि. १५/२१७

वाच्यं मन्दस्य तत्रोक्तमतिवृद्धस्य वक्ष्यते।नरे क्षीणकफे पित्तं कुपितं मारुतानुगम्॥ २१७ ॥

च. चि. १५/२१८

स्वोष्मणा पावकस्थाने बलमग्नेः प्रयच्छति।तदा लब्धबलो देहे विरूक्षे सानिलोऽनलः॥ २१८ ॥

च. चि. १५/२१९

परिभूय पचत्यन्नं तैक्ष्ण्यादाशु मुहुर्मुहुः।पक्त्वाऽन्नं स ततो धातूञ्छोणितादीन् पचत्यपि॥ २१९ ॥

च. चि. १५/२२०

ततो दौर्बल्यमातङ्कान्मृत्युं चोपनयेन्नरम्।भुक्तेऽन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति॥ २२० ॥

च. चि. १५/२२१

तृट्श्वासदाहमूर्च्छाद्या व्याधयोऽत्यग्निसंभवाः।तमत्यग्निं गुरुस्निग्धशीतैर्मधुरविज्जलैः॥ २२१ ॥

च. चि. १५/२२२

अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः।मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत्॥ २२२ ॥

च. चि. १५/२२३

निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत्।पायसं कृशरां स्निग्धं पैष्टिकं गुडवैकृतम्॥ २२३ ॥

च. चि. १५/२२४

अद्यात्तथौदकानूपपिशितानि भृतानि च।मत्स्यान्विशेषतः श्लक्ष्णान्स्थिरतोयचरांस्तथा॥ २२४ ॥

च. चि. १५/२२५

आविकं च भृतं मांसमद्यादत्यग्निनाशनम्।यवागूं समधूच्छिष्टां घृतं वा क्षुधितः पिबेत्॥ २२५ ॥

च. चि. १५/२२६

गोधूमचूर्णमन्थं वा व्यधयित्वा सिरां पिबेत्।पयो वा शर्करासर्पिर्जीवनीयौषधैः शृतम्॥ २२६ ॥

च. चि. १५/२२७

फलानां तैलयोनीनामुत्क्रुञ्चाश्च सशर्कराः।मार्दवं जनयन्त्यग्नेः स्निग्धा मांसरसास्तथा॥ २२७ ॥

च. चि. १५/२२८

पिबेच्छीताम्बुना सर्पिर्मधूच्छिष्टेन संयुतम्।गोधूमचूर्णं पयसा ससर्पिष्कं पिबेन्नरः॥ २२८ ॥

च. चि. १५/२२९

आनूपरससिद्धान् वा त्रीन् स्नेहांस्तैलवर्जितान्।पयसा संमितं चापि घनं त्रिस्नेहसंयुतम्॥ २२९ ॥

च. चि. १५/२३०

नरीस्तन्येन संयुक्तां पिबेदौदुम्बरीं त्वचम्।ताभ्यां वा पायसं सिद्धमद्यादत्यग्निशान्तये॥ २३० ॥

च. चि. १५/२३१

श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम्।असकृत् पित्तशान्त्यर्थं पायसप्रतिभोजनम्॥ २३१ ॥

च. चि. १५/२३२

प्रसमीक्ष्य भिषक् प्राज्ञस्तस्मै दद्याद्विधानवित्।यत्किञ्चिन्मधुरं मेद्यं श्लेष्मलं गुरुभोजनम्॥ २३२ ॥

च. चि. १५/२३३

सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा।मेद्यान्यन्नानि योऽत्यग्नावप्रतान्तः समश्नुते॥ २३३ ॥

च. चि. १५/२३४

न तन्निमित्तं व्यसनं लभते पुष्टिमेव च।कफे वृद्धे जिते पित्ते मारुते चानलः समः॥ २३४ ॥

च. चि. १५/२३५

समधातोः पचत्यन्नं पुष्ट्यायुर्बलवृद्धये।भवन्ति चात्र- पथ्यापथ्यमिहैकत्र भुक्तं समशनं मतम्॥ २३५ ॥

च. चि. १५/२३६

विषमं बहु वाऽल्पं वाऽप्यप्राप्तातीतकालयोः।भुक्तं पूर्वान्नशेषे तु पुनरध्यशनं मतम्॥ २३६ ॥

च. चि. १५/२३७

त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन्सृजन्ति वा।प्रातराशे त्वजीर्णेऽपि सायमाशो न दुष्यति॥ २३७ ॥

च. चि. १५/२३८

दिवा प्रबुध्यतेऽर्केण हृदयं पुण्डरीकवत्।तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः॥ २३८ ॥

च. चि. १५/२३९

व्यायामाच्च विहाराच्च विक्षिप्तत्वाच्च चेतसः।न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः॥ २३९ ॥

च. चि. १५/२४०

अक्लिन्नेष्वन्नमासिक्तमन्यत्तेषु न दुष्य्ति।अविदग्ध इव क्षीरे क्षीरमन्यद्विमिश्रितम्॥ २४० ॥

च. चि. १५/२४१

नैव दूष्यति तेनैव समं संपद्यते यथा।रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च।यान्ति कोष्ठे परिक्लेदं संवृते देहधातवः॥ २४१ ॥

च. चि. १५/२४२

क्लेन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति।विदग्धेषु पयःस्वन्यत् पयस्तप्तमिवार्पितम्॥ २४२ ॥

च. चि. १५/२४३

नैशेष्वाहारजातेषु नाविपक्वेषु बुद्धिमान्।तस्मादन्यत्समश्नीयात्पालयिष्यन्बलायुषी॥ २४३ ॥

च. चि. १५/२४४

तत्र श्लोकाः-अन्तरग्निगुणा देहं यथा धारयते च सः।यथाऽन्नं पच्यते यांश्च यथाऽऽहरः करोत्यपि॥ २४४ ॥

च. चि. १५/२४५

येऽग्नयो यांश्च पुष्यन्ति यावन्तो ये पचन्ति यान्।रसादीनां क्रमोत्पत्तिर्मलानां तेभ्य एव च॥ २४५ ॥

च. चि. १५/२४६

वृष्याणामाशुकृद्धेतुर्धातुकालोद्भवक्रमः।रोगैकदेशकृद्धेतुरन्तरग्निर्यथाऽधिकः॥ २४६ ॥

च. चि. १५/२४७

प्रदुष्यति यथा दुष्टो यान् रोगाञ्जनयत्यपि।ग्रहणी या यथा यच्च ग्रहणीदोषलक्षणम्॥ २४७ ॥

च. चि. १५/२४८

पूर्वरूपं पृथक् चैव व्यञ्जनं सचिकित्सितम्।चतुर्विधस्य निर्दिष्टं तथा चावस्थिकी क्रिया॥ २४८ ॥

च. चि. १५/२४९

जायते च यथाऽत्यग्निर्यच्च तस्य चिकित्सितम्।उक्तवानिह तत् सर्वं ग्रहणीदोषके मुनिः॥ २४९ ॥

च. चि. १५

इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने ग्रहणीचिकित्सितं नाम पञ्चदशोऽध्यायः॥१५॥