भारत संहिता

अध्याय २०

छर्दिचिकित्सितम्

छर्दि (उल्टी) की चिकित्सा

इस अध्याय में (अध्याय का अपना सार, श्लोक ४८)

तत्र श्लोकः-हेतुं संख्यां लक्षणमुपद्रवान् साध्यतां न योगांश्च।छर्दीनां प्रशमार्थं प्राह चिकित्सितं मुनिवर्यः॥

श्लोक ४८ →

मूल पाठ के किसी शब्द पर टैप करें - उसका अर्थ दिखेगा।

च. चि. २०/१

अथातश्छर्दिचिकित्सितं व्याख्यास्यामः॥ १ ॥

च. चि. २०/२

इति ह स्माह भगवानात्रेयः॥ २ ॥

च. चि. २०/३

यशस्विनं ब्रह्मतपोद्युतिभ्यां ज्वलन्तमग्न्यर्कसमप्रभावम्।पुनर्वसुं भूतहिते निविष्टं पप्रच्छ शिष्योऽत्रिजमग्निवेशः॥ ३ ॥

च. चि. २०/४

याश्छर्दयः पञ्च पुरा त्वयोक्ता रोगाधिकारे भिषजां वरिष्ठ!।तासां चिकित्सां सनिदानलिङ्गां यथावदाचक्ष्व नृणां हितार्थम्॥ ४ ॥

च. चि. २०/५

तदग्निवेशस्य वचो निशम्य प्रीतो भिषक्श्रेष्ठ इदं जगाद।याश्छर्दयः पञ्च पुरा मयोक्तास्ता विस्तरेण ब्रुवतो निबध॥ ५ ॥

च. चि. २०/६

दोषैः पृथक्त्रिप्रभवाश्चतस्रो द्विष्टार्थयोगादपि पञ्चमी स्यात्।तासां हृदुत्क्लेशकफप्रसेकौ द्वेषोऽशने चैव हि पूर्वरूपम्॥ ६ ॥

च. चि. २०/७

व्यायामतीक्ष्णौषधशोकरोगभयोपवासाद्यतिकर्शितस्य।वायुर्महास्रोतसि संप्रवृद्ध उत्क्लेश्य दोषांस्तत ऊर्ध्वमस्यन्॥ ७ ॥

च. चि. २०/८

आमाशयोत्क्लेशकृतां च मर्म प्रपीडयंश्छर्दिमुदीरयेत्तु।हृत्पार्श्वपीडामुखशोषमूर्धनाभ्यर्तिकासस्वरभेदतोदैः॥ ८ ॥

च. चि. २०/९

उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम्।कृच्छ्रेण चाल्पं महता च वेगेनार्तोऽनिलाच्छर्दयतीह दुःखम्॥ ९ ॥

च. चि. २०/१०

अजीर्णकट्वम्लविदाह्यशीतैरामाशये पित्तमुदीर्णवेगम्।रसायनीभिर्विसृतं प्रपीड्य मर्मोर्ध्वमागम्य वमिं करोति॥ १० ॥

च. चि. २०/११

मूर्च्छापिपासामुखशोषमूर्धताल्वक्षिसंतापतमोभ्रमार्तः।पीतं भृशोष्णं हरितं सतिक्तं धूम्रं च पित्तेन वमेत् सदाहम्॥ ११ ॥

च. चि. २०/१२

स्निग्धातिगुर्वामविदाहिभोज्यैः स्वप्नादिभिश्चैव कफोऽतिवृद्धः।उरः शिरो मर्म रसायनीश्च सर्वाः समावृत्य वमिं करोति॥ १२ ॥

च. चि. २०/१३

तन्द्रास्यमाधुर्यकफप्रसेकसंतोषनिद्रारुचिगौरवार्तः।स्निग्धं घनं स्वादु कफाद्विशुद्धं सलोमहर्षोऽल्परुजं वमेत्तु॥ १३ ॥

च. चि. २०/१४

समश्नतः सर्वरसान् प्रसक्तमामप्रदोषर्तुविपर्ययैश्च।सर्वे प्रकोपं युगपत् प्रपन्नाश्छर्दिं त्रिदोषां जनयन्ति दोषाः॥ १४ ॥

च. चि. २०/१५

शूलाविपाकारुचिदाहतृष्णाश्वासप्रमोहप्रबला प्रसक्तम्।छर्दिस्त्रिदोषाल्लवणाम्लनीलसान्द्रोष्णरक्तं वमतां नृणां स्यात्॥ १५ ॥

च. चि. २०/१६

विट्स्वेदमूत्राम्बुवहानि वायुः स्रोतांसि संरुध्य यदोर्ध्वमेति।उत्सन्नदोषस्य समाचितं तं दोषं समुद्धूय नरस्य कोष्ठात्॥ १६ ॥

च. चि. २०/१७

विण्मूत्रयोस्तत् समवर्णगन्धं तृट्श्वासहिक्कार्तियुतं प्रसक्तम्।प्रच्छर्दयेद्दुष्टमिहातिवेगात्तयाऽर्दितश्चाशु विनाशमेति॥ १७ ॥

च. चि. २०/१८

द्विष्टप्रतीपाशुचिपूत्यमेध्यबीभत्सगन्धाशनदर्शनैश्च।यच्छर्दयेत्तप्तमना मनोघ्नैर्द्विष्टार्थसंयोगभवा मता सा॥ १८ ॥

च. चि. २०/१९

क्षीणस्य या छर्दिरतिप्रवृद्धा सोपद्रवा शोणितपूययुक्ता।सचन्द्रिदां तां प्रवदन्त्यसाध्यां साध्यां चिकित्सेदनुपद्रवां च॥ १९ ॥

च. चि. २०/२०

आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात्।प्राक्कारयेन्मारुतजां विमुच्य संशोधनं वा कफपित्तहारि॥ २० ॥

च. चि. २०/२१

चूर्णानि लिग्यान्मधुनाऽभयानां हृद्यानि वा यानि विरेचनानि।मद्यैः पयोभिश्च युतानि युक्त्या नयन्त्यधो दोषमुदीर्णमूर्ध्वम्॥ २१ ॥

च. चि. २०/२२

वल्लीफलाद्यैर्वमनं पिबेद्वा यो दुर्बलस्तं शमनैश्चिकित्सेत्।रसैर्मनोज्ञैर्लघुभिर्विशुष्कैर्भक्ष्यैः सभोज्यैर्विविधैश्च पानैः॥ २२ ॥

च. चि. २०/२३

सुसंस्कृतास्तित्तिरिबर्हिलावरसा व्यपोहन्त्यनिलप्रवृत्ताम्।छर्दिं तथा कोलकुलत्थधान्यबिल्वादिमूलाम्लयवैश्च यूषः॥ २३ ॥

च. चि. २०/२४

वातात्मिकायां हृदयद्रवार्तो नरः पिबेत् सैन्धववद्घृतं तु।सिद्धं तथा धान्यकनागराभ्यां दध्ना च तोयेन च दाडिमस्य॥ २४ ॥

च. चि. २०/२५

व्योषेण युक्तां लवणैस्त्रिभिश्च घृतस्य मात्रामथवा विदध्यात्।स्निग्धानि गृद्यानि च भोजनानि रसैः सयूषैर्दधिदाडिमाम्लैः॥ २५ ॥

च. चि. २०/२६

पित्तात्मिकायामनुलोमनार्थं द्राक्षाविदारीक्षुरसैस्त्रिवृत् स्यात्।कफाशयस्थं त्वतिमात्रवृद्धं पित्तं हरेत् स्वादुभिरूर्ध्वमेव॥ २६ ॥

च. चि. २०/२७

शुद्धाय काले मधुशर्कराभ्यां लाजैश्च मन्थं यदि वाऽपि पेयाम्।प्रदापयेन्मुद्गरसेन वाऽपि शाल्योदनं जाङ्गलजै रसैर्वा॥ २७ ॥

च. चि. २०/२८

सितोपलामाक्षिकपिप्पलीभिः कुल्माषलाजायवसक्तुगृञ्जान्।खर्जूरमांसान्यथ नारिकेलं द्राक्षामथो वा बदराणि लिह्यात्॥ २८ ॥

च. चि. २०/२९

स्रोतोजलाजोत्पलकोलमज्जचूर्णानि लिह्यान्मधुमाऽभयां च।कोलास्थिमज्जाञ्जनमक्षिकाविड्लाजासितामागधिकाकणान् वा॥ २९ ॥

च. चि. २०/३०

द्राक्षारसं वाऽपि पिबेत् सुशीतं मृद्भृष्टलोष्टप्रभवं जलं वा।जम्ब्वाम्रयोः पल्लवजं कषायं पिबेत् सुशीतं मधुसंयुतं वा॥ ३० ॥

च. चि. २०/३१

निशि स्थितं वारि समुद्गकृष्णं सोशीरधान्यं चणकोदकं वा।गवेधुकामूलजलं गुडूच्या जलं पिबेदिक्षुरसं पयो वा॥ ३१ ॥

च. चि. २०/३२

सेवयं पिबेत् काञ्चनगैरिकं वा सबालकं तण्डुलधावनेन।धात्रीरसेनोत्तमचन्दनं वा तृष्णावमिघ्नानि समाक्षिकाणि॥ ३२ ॥

च. चि. २०/३३

कल्कं तथा चन्दनचव्यमांसीद्राक्षोत्तमाबालकगैरिकाणाम्।शीताम्बुना गैरिकशालिचूर्णं मूर्वां तथा तण्डुलधावनन॥ ३३ ॥

च. चि. २०/३४

कफात्मिकायां वमनं प्रशस्तं सपिप्पलीसर्षपनिम्बतोयैः।पिण्डीतकैः सैन्धवसंप्रयुक्तैर्वम्यां कफामाशयशोधनार्थम्॥ ३४ ॥

च. चि. २०/३५

गोधूमशालीन् सयवान् पुराणान् यूषैः पटोलामृतचित्रकाणाम्।व्योषस्य निम्बस्य च तक्रसिद्धैर्यूषैः फलाम्लैः कटुभिस्तथाऽद्यात्॥ ३५ ॥

च. चि. २०/३६

रसांश्च शूल्यानि च जाङ्गलानां मांसानि जीर्णान्मधुसीध्वरिष्टान्।रागांस्तथा षाडवपानकानि द्राक्षाकपित्थैः फलपूरकैश्च॥ ३६ ॥

च. चि. २०/३७

मुद्गान्मसूरांश्चणकान् कलायान् भृष्टान् युतान्नागरमाक्षिकाभ्याम्।लिह्यात्तथैव त्रिफलाविडङ्गचूर्णं विडङ्गप्लवयोरथो वा॥ ३७ ॥

च. चि. २०/३८

सजाम्बवं वा बदराम्लचूर्णं मुस्तायुतां कर्कटकस्य शृङ्गीम्।दुरालभां वा मधुसंप्रयुक्तां लिह्यात् कफच्छर्दिविनिग्रहार्थम्॥ ३८ ॥

च. चि. २०/३९

मनःशिलायाः फलपूरकस्य रसैः कपित्थस्य च पिप्पलीनाम्।क्षौद्रेण चूर्णं मरिचैश्च युक्तं लिहञ्जयेच्छर्दिमुदीर्णवेगाम्॥ ३९ ॥

च. चि. २०/४०

यैषा पृथक्त्वेन मया क्रियोक्ता तां सन्निपातेऽपि समस्य बुद्ध्या।दोषर्तुरोगाग्निबलान्यवेक्ष्य प्रयोजयेच्छास्त्रविदप्रमत्तः॥ ४० ॥

च. चि. २०/४१

मनोभिघाते तु मनोनुकूला वाचः समाश्वासनहर्षणानि।लोकप्रसिद्धाः श्रुतयो वयस्याः शृङ्गारिकाश्चैव हिता विहाराः॥ ४१ ॥

च. चि. २०/४२

गन्धा विचित्रा मनसोऽनुकूला मृत्पुष्पशुक्ताम्लफलादिकानाम्।शाकानि भोज्यान्यथ पानकानि सुसंस्कृताः षाडवरागलेहाः॥ ४२ ॥

च. चि. २०/४३

यूषा रसाः काम्बलिका खडाश्च मांसानि धाना विविधाश्च भक्ष्याः।फलानि मूलानि च गन्धवर्णरसैरुपेतानि वमिं जयन्ति॥ ४३ ॥

च. चि. २०/४४

गन्धं रसं स्पर्शमथापि शब्दं रूपं च यद्यत् प्रियमप्यसात्म्यम्।तदेव दद्यात् प्रशमाय तस्यास्तज्जो हि रोगः सुख एव जेतुम्॥ ४४ ॥

च. चि. २०/४५

छर्द्युत्थितानां च चिकित्सितात् स्वाच्चिकित्सितं कार्यमुपद्रवाणाम्।अतिप्रवृत्तासु विरेचनस्य कर्मातियोगे विहितं विधेयम्॥ ४५ ॥

च. चि. २०/४६

वमिप्रसङ्गात् पवनोऽप्यवश्यं धातुक्षयाद्वृद्धिमुपैति तस्मात्।चिरप्रवृत्तास्वनिलापहानि कार्याण्युपस्तम्भवबृंहणानि॥ ४६ ॥

च. चि. २०/४७

सर्पिर्गुडाः क्षीरविधिर्घृतानि कल्याणकत्र्यूषणजीवनानि।वृष्यास्तथा मांसरसाः सलेहाश्चिरप्रसक्तां च वमिं जयन्ति॥ ४७ ॥

च. चि. २०/४८

तत्र श्लोकः-हेतुं संख्यां लक्षणमुपद्रवान् साध्यतां न योगांश्च।छर्दीनां प्रशमार्थं प्राह चिकित्सितं मुनिवर्यः॥ ४८ ॥

च. चि. २०

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने छर्दिचिकित्सितं नाम विंशोऽध्यायः॥२०॥