अथातोऽतीसारचिकित्सितं व्याख्यास्यामः॥ १ ॥
अध्याय १९
अतिसारचिकित्सितम्
अतिसार की चिकित्सा
इस अध्याय में (अध्याय का अपना सार, श्लोक १२३)
तत्र श्लोकः-प्रागुत्पत्तिनिमित्तानि लक्षणं साध्यता न च।क्रिया चावस्थिकी सिद्धा निर्दिष्टा ह्यतिसारिणाम्॥
श्लोक १२३ →मूल पाठ के किसी शब्द पर टैप करें - उसका अर्थ दिखेगा।
इति ह स्माह भगवानात्रेयः॥ २ ॥
भगवन्तं खल्वात्रेयं कृताह्निकं हुताग्निहोत्रमासीनमृषिगणपरिवृतमुत्तरे हिमवतः पार्श्वे विनयादुपेत्याभिवाद्य चाग्निवेश उवाच - भगवन्! अतीसारस्य प्रागुत्पत्तिनिमित्तलक्षणोपशमनानि प्रजानुग्रहार्थमाख्यातुमर्हसीति॥ ३ ॥
अथ भगवान् पुनर्वसुरात्रेयस्तदग्निवेशवचनमनुनिशम्योवाच - श्रूयतामग्निवेश! सर्वमेतदखिलेन वाख्यायमानम्।आदिकाले खलु यज्ञेषु पशवः समालभनीया बभूवुर्नालम्भाय प्रक्रियन्ते स्म।ततो दक्षयज्ञं प्रत्यवरकालं मनोः पुत्राणां नरिष्यन्नाभागेक्ष्वाकुनृगशर्यात्यादीनां क्रतुषु पशूनामेवाभ्यनुज्ञानात् पशवः प्रोक्षणमवापुः।अतश्च प्रत्यवरकालं पृषध्रेण दीर्घसत्रेण यजता पशूनामलाभाद्गवामालम्भः प्रवर्तितः।तं दृष्ट्वा प्रव्यथिता भूतगणाः, तेषां चोपयोगादुपाकृतानां गवां गौरवादौष्ण्यादसात्म्यत्वादशस्तोपयोगाच्चोपहताग्नीनामुपहतमनसां चातीसारः पूर्वमुत्पन्नः पृषध्रयज्ञे॥ ४ ॥
अथावरकालं वातलस्य वातातपव्यायामातिमात्रिनिषेविणो रूक्षाल्पप्रमिताशिनस्तीक्ष्णमद्यव्यवायनित्यस्योदावर्तयतश्च वेगान् वायुः; प्रकोपमापद्यते, पक्ता चोपहन्यते; स वायुः कुपितोऽग्नावुपहते मूत्रस्वेदौ पुरीषाशयमुपहृत्य, ताभ्यां पुरीषं द्रवीकृत्य, अतीसाराय प्रकल्पते।तस्य रूपाणि-विज्जलमामं विप्लुतमवसादि रूक्षं द्रवं सशूलमामगन्धमीषच्छब्दमशब्दं वा विबद्धमूत्रवातमतिसार्यते पुरीषं, वायुश्चान्तःकोष्ठे सशब्दशूलस्तिर्यक् चरति विबद्ध इत्यामातिसारो वातात्।पक्वं वा विबद्धमल्पाल्पं सशब्दं सशूलफेनपिच्छापरिकर्तिकं हृष्टरोमा विनिःश्वसञ् शुष्कमुखः कट्यूरुत्रिकजानुपृष्ठपार्श्वशूली भ्रष्टगुदो मुहुर्मुहुर्विग्रथितमुपवेश्यते पुरीषं वातात्; तमाहुरनुग्रथितमित्येके, वातानुग्रथितवर्चस्त्वात्॥ ५ ॥
पित्तलस्य पुनरम्ललवणकटुकक्षारोष्णतीक्ष्णातिमात्रनिषेविणः प्रतताग्निसूर्यसंतापोष्णमारुतोपहतगात्रस्य क्रोधेर्ष्याबहुलस्य पित्तं प्रकोपमापद्यते।तत् प्रकुपितं द्रवत्वादूष्माणमुपहत्य पुरीषाशयविसृतमौष्ण्याद् द्रवत्वात् सरत्वाच्च भित्त्वा पुरीषमतिसाराय प्रकल्पते।तस्य रूपाणि-हारिद्रं हरितं नीलं कृष्णं रक्तपित्तोपहितमतिदुर्गन्धमतिसार्यते पुरीषं, तृष्णादाहस्वेदमूर्च्छाशूलब्रध्नसंतापपाकपरीत इति पित्तातिसारः॥ ६ ॥
श्लेष्मलस्य तु गुरुमधुरशीतस्निग्धोपसेविनः संपूरकस्याचिन्तयतो दिवास्वप्नपरस्यालसस्य श्लेष्माप्रकोपमापद्यते।स स्वभावाद् गुरुमधुरशीतस्निग्धः स्रस्तोऽग्निमुपहत्य सौम्यस्वभावात् पुरीषाशयमुपहत्योपप्लेद्य पुरीषमतिसाराय कल्पते।तस्य रूपाणि-स्निग्धं श्वेतं पिच्छिलं तन्तुमदामं गुरु दुर्गन्धं श्लेष्मोपहितमनुबद्धशूलमल्पाल्पमभीक्ष्णमतिसार्यते सप्रवाहिकं, गुरूदरगुदबस्तिवंक्षणदेशः कृतेऽप्यकृतसंज्ञः सलोमहर्षः सोत्क्लेशो निद्रालस्यपरीतः सदनोऽन्नद्वेषी चेति श्लेष्मातिसारः॥ ७ ॥
अतिशीतस्निग्धरूक्षोष्णगुरुखरकठिनविषमविरुद्धासात्म्यभोजनादभोजनात् कालातीतभोजनाद् यत्किंचिदभ्यवहरणात् प्रदुष्टमद्यपानीयपानादतिमद्यपानादसंशोधनात् प्रतिकर्मणां विषमगमनादनुपचाराज्ज्वलनादित्यपवनसलिलातिसेवनादस्वप्नादतिस्वप्नाद्वेगविधाराणादृतुविपर्ययादयथाबलमारम्भाद्भयशोकचित्तोद्वेगातियोगात् कृमिशोषज्वरार्शोविकारातिकर्षणाद्वा व्यापन्नाग्नेस्त्रयो दोषाः प्रकुपिता भूय एवाग्निमुपहत्य पक्वाशयमनुप्रविश्यातीसारं सर्वदोषलिङ्गं जनयन्ति॥ ८ ॥
अपि च शोणितादीन् धातूनतिप्रकृष्टं दूषयन्तो धातुदोषस्वभावकृतानतीसारवर्णानुपदर्शयन्ति।तत्र शोणितादिषु धातुष्वतिप्रदुष्टेषु हारिद्रहरितनीलमाञ्जिष्ठमांसधावनसन्निकाशं रक्तं कृष्णं श्वेतं वराहभेदःसदृशमनुबद्धवेदनमवेदनं वा समासव्यत्यासादुपवेश्यते शकृद् ग्रथितमामं सकृत्, सकृदपि पक्वमनतिक्षीणमांसशोणितबलो मन्दाग्निर्विहतमुखरसश्च; तादृशमातुरं कृच्छ्रसाध्यं विद्यात्।एभिर्वर्णैरतिसार्यमाणं सोपद्रवमातुरमसाध्योऽयमिति प्रत्याचक्षीत; तद्यथा-पक्वंशोणिताभं यकृत्खण्डोपमं मेदोमांसोदकसन्निकाशं दधिघृतमज्जतैलवसाक्षीरवेसवाराभमतिनीलमतिरक्तमतिकृष्णमुदकमिवाच्छं पुनर्मेचकाभमतिस्निग्धं हरितनीलकषायवर्णं कर्बुरमाविलं पिच्छिलं तन्तुमदामं चन्द्रकोपगतमतिकुणपपूतिपूयगन्ध्यामाममत्स्यगन्धि मक्षिकाकान्तं कुथितबहुधातुस्रावमल्पपुरीषमपुरीषं वाऽतिसार्यमाणं तृष्णादाहज्वरभ्रमतमकहिक्काश्वासानुबन्धमतिवेदनमवेदनं वव स्रस्तपक्वगुदं परितगुदवलिं मुक्तनालमतिक्षीणबलमांसशोणितं सर्वपर्वास्थिशूलिनमरोचकारतिप्रलापसंमोहपरीतं सहसोपरतविकारमतिसारिणमचिकित्स्यं विद्यात्; इति सन्निपातातिसारः॥ ९ ॥
तमसाध्यतामसंप्राप्तं चिकित्सेद् यथाप्रधानोपक्रमेण हेतूपशयदोषविशेषपरीक्षया चेति॥ १० ॥
आगन्तू द्वावतीसारौ मानसौ भयशोकजौ।तत्तयोर्लक्षणं वायोर्यदतीसारलक्षणम्॥ ११ ॥
मारुतो भयशोकाभ्यां शीघ्रं हि परिकुप्यति।तयोः क्रिया वातहरी हर्षणाश्वासनानि च॥ १२ ॥
इत्युक्ताः षडतीसाराः, साध्यानां साधनं त्वतः।प्रवक्ष्याम्यनुपूर्वेण यथावत्तन्निबोधत॥ १३ ॥
दोषाः सन्निचिता यस्य विदग्धाहारमूर्च्छिताः।अतीसाराय कल्पन्ते भूयस्तान् संप्रवर्तयेत्॥ १४ ॥
न तु संग्रहणं देयं पूर्वमामातिसारिणे।विबध्यमानाः प्राग्दोषा जनयन्त्यामयान् बहून्॥ १५ ॥
दण्डकालसकाध्मानग्रहण्यर्शोगदांस्तथा।शोथपाण्ड्वामयप्लीहकुष्ठगुल्मोदरज्वरान्॥ १६ ॥
तस्मादुपेक्षेतोत्क्लिष्टान् वर्तमानान् स्वयं मलान्।कृछ्रं वा वहतां दद्यादभयां संप्रवर्तिनीम्॥ १७ ॥
तया प्रवाहिते दोषे प्रशाम्यत्युदरामयः।जायते देहलघुता जठराग्निश्च वर्धते॥ १८ ॥
प्रमथ्यां मध्यदोषाणां दद्याद्दीपनपाचनीम्।लङ्घनं चाल्पदोषाणां प्रशस्तमतिसारिणाम्॥ १९ ॥
पिप्पली नागरं धान्यं भूतीकमभया वचा।ह्रीवेरं भद्रमुस्तानि बिल्वं नागरधान्यकम्॥ २० ॥
पृश्निपर्णी श्वदंष्ट्रा च समङ्गा कण्टकारिका।तिस्रः प्रमथ्या विहिताः श्लोकार्धैरतिसारिणाम्॥ २१ ॥
वचाप्रतिविषाभ्यां वा मुस्तपर्पटकेन वा।ह्रीवेरशृङ्गवेराभ्यं पक्वं वा पाययेज्जलम्॥ २२ ॥
युक्तेऽन्नकाले क्षुत्क्षामं लघून्यन्नानि भोजयेत्।तथा स शीघ्रमाप्नोति रुचिमग्निबलं बलम्॥ २३ ॥
तक्रेणावन्तिसोमेन यवाग्वा तर्पणेन वा।सुरया मधुना चादौ यथासात्म्यमुपाचरेत्॥ २४ ॥
यवागूभिर्विलेपीभिः खडैर्यूषै रसौदनैः।दीपनग्राहिसंयुक्तैः क्रमश्च स्यादतः परम्॥ २५ ॥
शालपर्णीं पृश्निपर्णीं बृहतीं कण्टकारिकाम्।बलां श्वदंष्ट्रां बिल्वानि पाठां नागरधान्यकम्॥ २६ ॥
शटीं पलाशं हपुषां वचां जीरकपिप्पलीम्।यवानीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्॥ २७ ॥
वृक्षाम्लं दाडिमाम्लं च सहिङ्गु बिडसैन्धवम्।प्रयोजयेदन्नपाने विधिना सूपकल्पितम्॥ २८ ॥
वातश्लेष्महरो ह्येष गणो दीपनपाचनः।ग्राही बल्यो रोचनश्च तस्माच्छस्तोऽतिसारिणाम्॥ २९ ॥
आमे परिणते यस्तु विबद्धमतिसार्यते।सशूलपिच्छमल्पाल्पं बहुशः सप्रवाहिकम्॥ ३० ॥
यूषेण मूलकानां तं बदराणामथापि वा।उपोदिकायाः क्षीरिण्या यवान्या वास्तुकस्य वा॥ ३१ ॥
सुवर्चलायाश्चञ्चोर्वा शाकेनावल्गुजस्य वा।शट्याः कर्कारुकाणां वा जीवन्त्याश्चिर्भटस्य वा॥ ३२ ॥
लोणिकायाः सपाठायाः शुष्कशाकेन वा पुनः।दधिदाडिमसिद्धेन बहुस्नेहेन भोजयेत्॥ ३३ ॥
कल्कः स्याद्बालबिल्वानां तिलकल्कश्च तत्समः।दध्नः सरोऽम्लस्नेहाद्यः खडो हन्यात् प्रवाहिकाम्॥ ३४ ॥
यवानां मुद्गमाषाणां शालीनां च तिलस्य च।कोलानां बालबिल्वानां धान्ययूषं प्रकल्पयेत्॥ ३५ ॥
ऐकध्यं यमके भृष्टं दधिदाडिमसारिकम्।वर्चःक्षये शुष्कमुखं शाल्यन्नं तेन भोजयेत्॥ ३६ ॥
दध्नः सरं वा यमके भृष्टं सगुडनागरम्।सुरां वा यमके भृष्टां व्यञ्जनार्थे प्रदापयेत्॥ ३७ ॥
फलाम्लं यमके भृष्टं यूषं गृञ्जनकस्य वा।लोपाकरसमम्लं वा स्निग्धाम्लं कच्छपस्य वा॥ ३८ ॥
बर्हितित्तिरिदक्षाणां वर्तकानां तथा रसाः।स्निग्धाम्लाः शालयश्चाग्र्या वर्चःक्षयरुजापहाः॥ ३९ ॥
अन्तराधिरसं पूत्वा रक्तं मेषस्य चोभयम्।पचेद्दाडिमसाराम्लं सधान्यस्नेहनागरम्॥ ४० ॥
औदनं रक्तशालीनां तेनाद्यात् प्रपिबेच्च तत्।तथा वर्चःक्षयकृतैर्व्याधिभिर्विप्रमुच्यते॥ ४१ ॥
गुदनिःसरणे शूले पानमम्लस्य सर्पिषः।प्रशस्यते निरामाणामथवाऽप्यनुवासनम्॥ ४२ ॥
चाङ्गेरीकोलदध्यम्लनागरक्षारसंयुतम्।घृतमुत्क्वथितं पेयं गुदभ्रंशरुजापहम्॥इति चाङ्गेरीघृतम्।
सचव्यपिप्पलीमूलं सव्योषविडदाडिमम्।पेयमम्लं घृतं युक्त्या सधान्याजाजिचित्रकम्॥इति गुदभ्रंशे चव्यादिघृतम्।
दशमूलोपसिद्धं वा सबिल्वमनुवासनम्।शटीशताह्वाबिल्वैर्वा वचया चित्रकेण वा॥इति गुदभ्रंशेऽनुवासनम्।
स्तब्धभ्रष्टगुदे पूर्वं स्नेहस्वेदौ प्रयोजयेत्।सुस्विन्नं तं भृदूभूतं पिचुना संप्रवेशयेत्॥ ४६ ॥
विबद्धवातवर्चास्तु बहुशूलप्रवाहिकः।सरक्तपिच्छस्तृष्णार्तः क्षीरसौहित्यमर्हति॥ ४७ ॥
यमकस्योपरि क्षीरं धारोष्णं वा पिबेन्नरः।शृतमेरण्डमूलेन बालबिल्वेन वा पयः॥ ४८ ॥
एवं क्षीरप्रयोगेण रक्तं पिच्छा च शाम्यति।शूलं प्रवाहिका चैव विबन्धश्चोपशाम्यति॥ ४९ ॥
पित्तातिसारं पुनर्निदानोपशयाकृतिभिरामान्वयमुपलभ्य यथाबलं लङ्घनपाचनाभ्यामुपाचरेत्।तृष्यतस्तु मुस्तपर्पटकोशीरसारिवाचन्दनकिराततिक्तकोदीच्यवारिभिरुपचारः।लङ्घितस्य चाहारकाले बलातिबलासूर्पपर्णीशालपर्णीपृश्निपर्णीबृहतीकण्टकारिकाशतावरीश्वदंष्ट्रानिर्यूहसंयुक्तेन यथासात्म्यं यवागूमण्डादिना तर्पणादिना वा क्रमेणोपचारः।मुद्गमसूरहरेणुमकुष्ठकाढकीयूषैर्वा लवकपिञ्जलशशहरिणैणकालपुच्छकरसैरीषदम्लैरनम्लैर्वा क्रमशोऽग्निं सन्धुक्षयेत्।अनुबन्धे त्वस्य दीपनीयपाचनीयोपशमनीयसंग्रहणीयान् योगान् संप्रयोजयेदिति॥ ५० ॥
सक्षौद्रातिविषं पिष्ट्वा वत्सकस्य फलत्वचम्।पिबेत् पित्तातिसारघ्नं तण्डुलोदकसंयुतम्॥ ५१ ॥
किराततिक्तको मुस्तं वत्सकः सरसाञ्जनः।बिल्वं दारुहरिद्रा त्वक् ह्रीबेरं सदुरालभम्॥ ५२ ॥
चन्दनं च भृणालं च नागरं लोध्रमुत्पलम्।तिला मोचरसो लोध्रं समङ्गा कमलोत्पलम्॥ ५३ ॥
उत्पलं धातकीपुष्पं दाडिमत्वङ्गहौषधम्।कट्फलं नागरं पाठा जम्ब्वाम्रास्थिदुरालभाः॥ ५४ ॥
योगाः षडेते सक्षौद्रास्तण्डुलोदकसंयुताः।पेयाः पित्तातिसारघ्नाः श्लोकार्धेन निदर्शिताः॥ ५५ ॥
जेणोषधानां शस्यन्ते यथायोगं प्रकल्पितैः।रसैः सांग्राहिकैर्युक्ताः पुराणा रक्तशालयः॥ ५६ ॥
पित्तातिसारो दीपाग्नेः क्षिप्रं समुपशाम्यति।अजाक्षीरप्रयोगेण बलं वर्णश्च वर्धते॥ ५७ ॥
बहुदोषस्य दीप्ताग्नेः सप्राणस्य न तिष्ठति।ऐत्तिको यद्यतीसारः पयसा तं विरेचयेत्॥ ५८ ॥
पलाशफलनिर्यूहं पयसा सह पाययेत्।ततोऽनुपाययेत् कोष्णं क्षीरमेव यथाबलम्॥ ५९ ॥
प्रवाहिते तेन मले प्रशाम्यत्युदरामयः।पलाशवत् प्रयोज्या वा त्रायमाणा विशोधिनी॥ ६० ॥
सांसर्ग्यां क्रियमाणायां शूलं यद्यनुवर्तते।स्रुतदोषस्य तं शीघ्रं यथावदनुवासयेत्॥ ६१ ॥
शतपुष्पावरीभ्यां च पयसा मधुकेन च।तैलपादं घृतं सिद्धं सबिल्वमनुवासनम्॥ ६२ ॥
कृतानुवासनस्यास्य कृतसंसर्जनस्य च।वर्तते यद्यतीसारः पिच्छाबस्तिरतः परम्॥ ६३ ॥
परिवेष्ट्य कुशैरार्द्रैरार्द्रवृन्तानि शाल्मलेः।कृष्णमृत्तिकयाऽऽलिप्य स्वेदयेद्गोमयाग्निना॥ ६४ ॥
सुशुष्कां मृत्तिकां ज्ञात्वा तानि वृन्तानि शाल्मलेः।शृते पयसि मृद्गीयादापोथ्योलूखले ततः॥ ६५ ॥
पिण्डं मुष्टिसमं प्रस्थे तत् पूतं तैलसर्पिषोः।स्नेहितं मात्रया युक्तं कल्केन मधुकस्य च॥ ६६ ॥
बस्तिमभ्यक्तगात्राय दद्यात् प्रत्यागते ततः।स्नात्वा भुञ्जीत पयसा जाङ्गलानां रसेन वा॥ ६७ ॥
पित्तापिसारज्वरशोथगुल्मजीर्णातिसारग्रहणीप्रदोषान्।जयत्ययं शीघ्रमतिप्रवृद्धान् विरेचनास्थापनयोश्च बस्तिः॥ ६८ ॥
पित्तातिसारी यस्त्वेतां क्रियां मुक्त्वा निषेवते।पित्तलान्यन्नपानानि तस्य पित्तं महाबलम्॥ ६९ ॥
कुर्याद्रक्तातिसारं तु रक्तमाशु प्रदूषयेत्।तृष्णां शूलं विदाहं च गुदपाकं च दारुणम्॥ ७० ॥
तत्र च्छागं पयः शस्तं शीतं समधुशर्करम्।पानार्थं भोजनार्थं च गुदप्रक्षालने तथा॥ ७१ ॥
औदनं रक्तशालीनां पयसा तेन भोजयेत्।रसैः पारावतादीनां घृतभृष्टैः सशर्करैः॥ ७२ ॥
शशपक्षिमृगाणां च शीतानां धन्वचारिणाम्।रसैरनम्लैः सघृतैर्भोजयेत्तं सशर्करैः॥ ७३ ॥
रुधिरं मार्गमाजं वा घृतभृष्टं प्रशस्यते।काश्मर्यफलयूषो वा किंचिदम्लः सशर्करः॥ ७४ ॥
नीलोत्पलं मोचरसं समङ्गा पद्मकेशरम्।अजाक्षीरयुतं दद्याज्जीर्णे च पयसौदनम्॥ ७५ ॥
दुर्बलं पाययित्वा वा तस्यैवोपरि भोजयेत्।प्राग्भक्तं नवनीतं वा दद्यात् समधुशर्करम्॥ ७६ ॥
प्राश्य क्षीरोत्थितं सर्पिः कपिञ्जलरसाशनः।त्र्यहादारोग्यमाप्नोति पयसा क्षीरभुक् तथा॥ ७७ ॥
पीत्वा शतावरीकल्कं पयसा क्षीरभुग्जयेत्।रक्तातिसारं पीत्वा वा तया सिद्धं घृतं नरः॥ ७८ ॥
घृतं यवागूमण्डेन कुटजस्य फलैः शृतम्।पेयं तस्यानु पातव्या पेया रक्तोपशान्तये॥ ७९ ॥
त्वक् च दारुहरिद्रायाः कुटजस्य फलानि च।पिप्पली शृङ्गवेरं च द्राक्षा कटुकरोहिणी॥ ८० ॥
षड्भिरेतैर्घृतं सिद्धं पेयामण्डावचारितम्।अतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम्॥ ८१ ॥
कृष्णमृन्मधुकं शङ्खं रुधिरं तण्डुलोदकम्।पीतमेकत्र सक्षौद्रं रक्तसंग्रहणं परम्॥ ८२ ॥
पीतः प्रियङ्गुकाकल्कः सक्षौद्रस्तण्डुलाम्भसा।रक्तस्रावं जयेच्छीघ्रं धन्वमांसरसाशिनः॥ ८३ ॥
कल्कस्तिलानां कृष्णानां शर्करापञ्चभागिकः।आजेन पयसा पीतः सद्यो रक्तं नियच्छति॥ ८४ ॥
पलं वत्सकबीजस्य श्रपयित्वा रसं पिबेत्।यो रसाशी जयेच्छीघ्रं स पैत्तं जठरामयम्॥ ८५ ॥
पीत्वा सशर्कराक्षौद्रं चन्दनं तण्डुलाम्भसा।दाहतृष्णाप्रमेहेभ्यो रक्तस्रावाच्च मुच्यते॥ ८६ ॥
गोदो बहुभिरुत्थानैर्यस्य पित्तेन पच्यते।सेचयेत्तं सुशीतेन पटोलमधुकाम्बुना॥ ८७ ॥
पञ्चवल्कमधूकानां रसैरिक्षुरसैर्घृतैः।छागैर्गव्यैः पयोभिर्वा शर्कराक्षौद्रसंयुतैः॥ ८८ ॥
प्रक्षालनानां कल्कैर्वा ससर्पिष्कैः प्रलेपयेत्।एषां वा सुकृतैश्चूर्णैस्तं गुदं प्रतिसारयेत्॥ ८९ ॥
धातकीलोध्रचूर्णैर्वा समांशैः प्रतिसारयेत्।तथा स्रवति नो रक्तं गुदं तैः प्रतिसारितम्॥ ९० ॥
पक्वता प्रशमं याति वेदना चोपशाम्यति।यथोक्तैः सेचनैः शीतैः शोणितेऽतिस्रवत्यपि॥ ९१ ॥
गुदवङ्क्षणकट्यूरु सेचयेद्घृतभावितम्।चन्दनाद्येन तैलेन शतधौतेन सर्पिषा॥ ९२ ॥
कार्पाससंगृहीतेन सेचयेद्गुदवङ्क्षणम्।अल्पाल्पं बहुशो रक्तं सशूलमुपवेश्यते॥ ९३ ॥
यदा वायुर्विबद्धश्च कृच्छ्रं चरति वा न वा।पिच्छाबस्तिं तदा तस्य यथोक्तमुपकल्पयेत्॥ ९४ ॥
प्रपैण्डरीकसिद्धेन सर्पिषा चानुवासयेत्।प्रायशो दुर्बलगुदाश्चिरकालातिसारिणः॥ ९५ ॥
तस्मादभीक्ष्णशस्तेषां गुदे स्नेहं प्रयोजयेत्।पवनोऽतिप्रवृत्तो हि स्वे स्थाने लभतेऽधिकम्॥ ९६ ॥
बलं तस्य सपित्तस्य जयार्थे बस्तिरुत्तमः।रक्तं विटसहितं पूर्वं पश्चाद्वा योऽतिसार्यते॥ ९७ ॥
शतावरीघृतं तस्य लेहार्थमुपकल्पयेत्।शर्करार्धांशिकं लीढं नवनीतं नवोद्धृतम्॥ ९८ ॥
क्षौद्रपादं जयेच्छीग्रं तं विकारं हिताशिनः।न्यग्रोधोदुम्बराश्वत्थशुङ्गानापोथ्य वासयेत्॥ ९९ ॥
अहोरात्रं जले तप्ते घृतं तेनाम्भसा पचेत्।तदर्धशर्करायुक्तं लिह्यात् सक्षौद्रपादिकम्॥ १०० ॥
अधो वा यदि वाऽप्यूर्ध्वं यस्य रक्तं प्रवर्तते।यस्त्वेवं दुर्बलो मोहात् पित्तलान्येव सेवते॥ १०१ ॥
दारुणं स वलीपाकं प्राप्य शीघ्रं विपद्यते।श्लेष्मातिसारे प्रथमं हितं लङ्घनपाचनम्॥ १०२ ॥
योज्यश्चामातिसारघ्नो यथोक्तो दीपनो गणः।लङ्घितस्यानुपूर्व्यां च कृतायां न निवर्तते॥ १०३ ॥
कफजो यद्यतीसारः कफघ्नैस्तमुपाचरेत्।बिल्वं कर्कटिका मुस्तमभया विश्वभेषजम्॥ १०४ ॥
वचा विडङ्गं भूतीकं धान्यकं देवदारु च।कुष्ठं सातिविषा पाठा चव्यं कटुकरोहिणी॥ १०५ ॥
पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पली।योगाञ्छ्लोकार्धविहितांश्चतुरस्तान् प्रयोजयेत्॥ १०६ ॥
शृताञ्छ्लेष्मातिसारेषु कायाग्निबलवर्धनान्।अजाजीमसितां पाठां नागरं मरिचानि च॥ १०७ ॥
धातकीद्विगुणं दद्यान्मातुलुङ्गरसाप्लुतम्।रसाञ्जनं सातिविषं कुटजस्य फलानि च॥ १०८ ॥
धातकीद्विगुणं दद्यात् पातुं सक्षौद्रनागरम्।धातकी नागरं बिल्वं लोध्रं पद्मस्य केशरम्॥ १०९ ॥
जम्बूत्वङ्नागरं धान्यं पाठा मोचरसो बला।समङ्गा धातकी बिल्वमध्यं जम्ब्वाम्रयोस्त्वचः॥ ११० ॥
कपित्थानि विडङ्गानि नागरं मरिचानि च।चाङ्गेरीकोलतक्राम्लांश्चतुरस्तान् कफोत्तरे॥ १११ ॥
श्लोकार्धविहितान् दद्यात् सस्नेहलवणात् खडान्।कपित्थमध्यं लीढ्वा तु सव्योषक्षौद्रशर्करम्॥ ११२ ॥
कट्फलं मधुयुक्तं वा मुच्यते जठरामयात्।कणां मधुयुतां पीत्वा तक्रं पीत्वा सचित्रकम्॥ ११३ ॥
जग्ध्वा वा बालबिल्वानि मुच्यते जठरामयात्।बालबिल्वं गुडं तैलं पिप्पलीं विश्वभेषजम्।लिह्याद्वाते प्रतिहते सशूलः सप्रवाहिकः॥ ११४ ॥
भोज्यं मूलकषायेण वातघ्नैश्चोपसेवनैः।वातातिसारविहितैर्यूषैर्मांसरसैः खडैः॥ ११५ ॥
पूर्वोक्तमम्लसर्पिर्वा षट्पलं वा यथाबलम्।पुराणं वा घृतं दद्याद्यवागूमण्डमिश्रितम्॥ ११६ ॥
वातश्लेष्मविबन्धे वा कफे वाऽतिस्रवत्यपि।शूले प्रवाहिकायां वा पिच्छाबस्तिं प्रयोजयेत्॥ ११७ ॥
पिप्पलीबिल्वकुष्ठानां शताग्वावचयोरपि।कल्कैः सलवणैर्युक्तं पूर्वोक्तं सन्निधापयेत्॥ ११८ ॥
प्रत्यागते सुखं स्नातं कृताहारं दिनात्यये।बिल्वतैलेन मतिमान्सुखोष्णेनानुवासयेत्॥ ११९ ॥
वचान्तैरथवा कल्कैस्तैलं पक्त्वाऽनुवासयेत्।बहुशः कफवातार्तस्तथा स लभते सुखम्॥ १२० ॥
स्वे स्थाने मारुतोऽवश्यं वर्धते कफसंक्षये।स वृद्धः सहसा हन्यात्तस्मात्तं त्वरया जयेत्॥ १२१ ॥
वातस्यानु जयेत् पित्तं, पित्तस्यानु जयेत् कफम्।त्रयाणां वा जयेत् पूर्वं यो भवेद्बलवत्तमः॥ १२२ ॥
तत्र श्लोकः-प्रागुत्पत्तिनिमित्तानि लक्षणं साध्यता न च।क्रिया चावस्थिकी सिद्धा निर्दिष्टा ह्यतिसारिणाम्॥ १२३ ॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थानेऽतिसारचिकित्सितं नामैकोनविंशोऽध्यायः॥१९॥