भारत संहिता

अध्याय २४

मदात्ययचिकित्सितम्

मदात्यय (मद्य-विकार) की चिकित्सा

इस अध्याय में (अध्याय का अपना सार, श्लोक २०७-२११)

तत्र श्लोकाः-यत्प्रभावा भगवती सुरा पेया यथा च सा।यद्द्रव्या यस्य या चेष्टा योगं चापेक्षते यथा॥

श्लोक २०७ →

यथा मदयते यैश्च गुणैर्युक्ता महागुणा।यो मदो मदभेदाश्च ये त्रयः स्वस्वलक्षणाः॥

श्लोक २०८ →

ये च मद्यकृता दोषा गुणा ये च मदात्मकाः।यच्च त्रिविधमापानं यथासत्त्वं च लक्षणम्॥

श्लोक २०९ →

ये सहायाः सुखाः पाने चिरक्षिप्रमदा नराः।मदात्ययस्य यो हेतुर्लक्षणं यद् यथा च यत्॥

श्लोक २१० →

मद्यं मद्योत्थितान् रोगान् हन्ति यश्च क्रियाक्रमः।सर्वं तदुक्तमखिलं मदात्ययचिकित्सिते॥

श्लोक २११ →

मूल पाठ के किसी शब्द पर टैप करें - उसका अर्थ दिखेगा।

च. चि. २४/१

अथातो मदात्ययचिकित्सितं व्याख्यास्यामः॥ १ ॥

च. चि. २४/२

इति ह स्माह भगवानात्रेयः॥ २ ॥

च. चि. २४/३

सुरैः सुरेशसहितैर्या पुरा परिपूजिता।सौत्रामण्यां हूयते या कर्मिभिर्या प्रतिष्ठिता॥ ३ ॥

च. चि. २४/४

यज्ञौही या यया शक्रः सोमातिपतितो भृशम्।निरोजस्तमसाऽऽविष्टस्तस्माद्दुर्गात् समुद्धृतः॥ ४ ॥

च. चि. २४/५

विधिभिर्वेदविहितैर्वा यजद्भिर्महात्मभिः।दृश्या स्पृश्या प्रकल्प्या च यज्ञीया यज्ञसिद्धये॥ ५ ॥

च. चि. २४/६

योनिसंस्कारनामाद्यैर्विशेषैर्बहुधा च या।भूत्वा भवत्येकविधा सामान्यान्मदलक्षणात्॥ ६ ॥

च. चि. २४/७

या देवानमृतं भूत्वा स्वधा भूत्वा पितॄंश्च या।सोमो भूत्वा द्विजातीन् या युङ्क्ते श्रेयोभिरुत्तमैः॥ ७ ॥

च. चि. २४/८

आश्विनं या महत्तेजो बलं सारस्वतं च या।वीर्यमैन्द्रं च या सिद्धा सोमः सौत्रामणौ च या॥ ८ ॥

च. चि. २४/९

शोकारतिभयोद्वेगनाशिनी या महाबला।या प्रीतिर्या रतिर्या वाग्या पुष्टिर्या च निर्वृतिः॥ ९ ॥

च. चि. २४/१०

या सुरा सुरगन्धर्वयक्षराक्षसमानुषैः।रतिः सुरेत्यभिहिता तां सुरां विधिना पिबेत्॥ १० ॥

च. चि. २४/११

शरीरकृतसंस्कारः शुचिरुत्तमगन्धवान्।प्रावृतो निर्मलैर्वस्त्रैर्यथर्तूद्दामगन्धिभिः॥ ११ ॥

च. चि. २४/१२

विचित्रविविधस्रग्वी रत्नाभ्रणभूषितः।देवद्विजातीन् संपूज्य स्पृष्ट्वा मङ्गलमुत्तमम्॥ १२ ॥

च. चि. २४/१३

देशे यथर्तुके शस्ते कुसुमप्रकरीकृते।सरसासंमते मुख्ये धूपसंमोदबोधिते॥ १३ ॥

च. चि. २४/१४

सोपधाने सुसंस्तीर्णे विहिते शयनासने।उपविष्टोऽथवा तिर्यक् स्वशरीरसुखे स्थितः॥ १४ ॥

च. चि. २४/१५

सौवर्णौ राजतैश्चापि तथा मणिमयैरपि।भाजनैर्विमलैश्चान्यैः सुकृतैश्च पिबेत् सदा॥ १५ ॥

च. चि. २४/१६

रूपयौवनमत्ताभिः शिक्षिताभिर्विशेषतः।वस्त्राभरणमाल्यैश्च भूषिताभिर्यथर्तुकैः॥ १६ ॥

च. चि. २४/१७

शौचानुरागयुक्ताभिः प्रमदाभिरितस्ततः।संवाह्यमान इष्टाभिः पिबेन्मद्यमनुत्तमम्॥ १७ ॥

च. चि. २४/१८

मद्यानुकूलैर्विविधैः फलैर्हरितकैः शुभैः।लवणैर्गन्धपिशुनैरवदंशैर्यथर्तुकैः॥ १८ ॥

च. चि. २४/१९

भृष्टैर्मांसैर्बहुविधैर्भूजलाम्बरचारिणाम्।पौरोगवर्गविहितैर्भक्ष्यैश्च विविधात्मकैः॥ १९ ॥

च. चि. २४/२०

पूजयित्वा सुरान् पूर्माशिषः प्राक् प्रयुज्य च।प्रदाय सजलं मद्यमर्थिभ्यो वसुधातले॥ २० ॥

च. चि. २४/२१

अभ्यङ्गोत्सादनस्नानवासोधूपानुलेपनैः।स्निग्धोष्णैर्भावितश्चान्नैर्वातिको मद्यमाचरेत्॥ २१ ॥

च. चि. २४/२२

शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः।पैत्तिको भावितश्चान्नैः पिबन्मद्यं न सीदति॥ २२ ॥

च. चि. २४/२३

उपचारैरशिशिरैर्यवगोधूमभुक् पिबेत्।श्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचकैः सह॥ २३ ॥

च. चि. २४/२४

विधिर्वसुमतामेष भविष्यद्विभवाश्च ये।यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितम्॥ २४ ॥

च. चि. २४/२५

वातिकेभ्यो हितं मद्यं प्रायो गौडिकपैष्टिकम्।कफपित्ताधिकेभ्यस्तु मार्द्वीकं माधवं च यत्॥ २५ ॥

च. चि. २४/२६

बहुद्रव्यं बहुगुणं बहुकर्म मदात्मकम्।गुणैर्दोषैश्च तन्मद्यमुभयं चोपलक्ष्यते॥ २६ ॥

च. चि. २४/२७

विधिना मात्रया काले हितैरन्नैर्यथाबलम्।प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा॥ २७ ॥

च. चि. २४/२८

यथोपेतं पुनर्मद्यं प्रसङ्गाद्येन पीयते।रूक्षव्यायामनित्येन विषवद्याति तस्य तत्॥ २८ ॥

च. चि. २४/२९

मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान्।दशभिर्दश संक्षोभ्य चेतो नयति विक्रियाम्॥ २९ ॥

च. चि. २४/३०

लघूष्णतीक्ष्णसूक्ष्माम्लव्यवाय्याशुगमेव च।रूक्षं विकाशि विशदं मद्यं दशगुणं स्मृतम्॥ ३० ॥

च. चि. २४/३१

गुरु शीतं मृदु श्लक्ष्णं बहलं मधुरं स्थिरम्।प्रसन्नं पिच्छिलं स्निग्धमोजो दशगुणं स्मृतम्॥ ३१ ॥

च. चि. २४/३२

गुरुत्वं लाघवाच्छैत्यमौष्णादम्लस्वभावतः।माधुर्यं मार्दवं तैक्ष्ण्यात्प्रसादं चाशुभावनात्॥ ३२ ॥

च. चि. २४/३३

रौक्ष्यात् स्नेहं व्यवायित्वात् स्थिरत्वं श्लक्ष्णतामपि।विकासिभावात्पैच्छिल्यं वैशद्यात्सान्द्रतां तथा॥ ३३ ॥

च. चि. २४/३४

सौक्ष्म्यान्मद्यं विहन्त्येवमोजसः स्वगुणैर्गुणान्।सत्त्वं तदाश्रयं चाशु संक्षोभ्य जनयेन्मदम्॥ ३४ ॥

च. चि. २४/३५

रसवातादिमार्गाणां सत्त्वबुद्धीन्द्रियात्मनाम्।प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते॥ ३५ ॥

च. चि. २४/३६

अतिपीतेन मद्येन विहतेनौजसा च तत्।हृदयं याति विकृतिं तत्रस्था ये च धातवः॥ ३६ ॥

च. चि. २४/३७

औजस्यविहते पूर्वो हृदि च प्रतिबोधिते।मध्यमो विहतेऽल्पे च विहते तूत्तमो मधः॥ ३७ ॥

च. चि. २४/३८

नैवं विघातं जनयेन्मद्यं पैष्टिकमोजसः।विकाशिरूक्षविशदा गुणास्तत्र हि नोल्बणाः॥ ३८ ॥

च. चि. २४/३९

हृदि मद्यगुणाविष्टे हर्षस्तर्षो रतिः सुखम्।विकाराश्च यथासत्त्वं चित्रा राजसतामसाः॥ ३९ ॥

च. चि. २४/४०

जायन्ते मोहनिद्रान्ता मद्यस्यातिनिषेवणात्।स मद्यविभ्रमो नाम्ना ऽमदऽ इत्यभिधीयते॥ ४० ॥

च. चि. २४/४१

पीयमानस्य मद्यस्य विज्ञातव्यास्त्रयो मदाः।प्रथमो मध्यमोऽन्त्यश्च लक्षणैस्तान् प्रचक्ष्महे॥ ४१ ॥

च. चि. २४/४२

प्रहर्षणः प्रीतिकरः पानान्नगुणदर्शकः।वाद्यगीतप्रहासानां कथानां च प्रवर्तकः॥ ४२ ॥

च. चि. २४/४३

न च बुद्धिस्मृतिहरो विषयेषु न चाक्षमः।सुखनिद्राप्रबोधश्च प्रथमः सुखदो मदः॥ ४३ ॥

च. चि. २४/४४

मुहुः स्मृतिर्मुहुर्मोहो( ऽअ)व्यक्ता सज्जति वाङ्मुहुः।युक्तायुक्तप्रलापश्च प्रचलायनमेव च॥ ४४ ॥

च. चि. २४/४५

स्थानपानान्नसांकथ्ययोजना सविपर्यया।लिङ्गान्येतानि जानीयादाविष्टे मध्यमे मदे॥ ४५ ॥

च. चि. २४/४६

मध्यमं ददमुत्क्रम्य मदमाप्राप्य चोत्तमम्।न किंचिन्नाशुभं कुर्युर्नरा राजसतामसाः॥ ४६ ॥

च. चि. २४/४७

को मदं तादृशं विद्वानुन्मादमिव दारुणम्।गच्छेदध्वानमस्वन्तं बहुदोषमिवाध्वगः॥ ४७ ॥

च. चि. २४/४८

तृतीयं तु मदं प्राप्य भग्न्दार्विव निष्क्रियः।मदमोहावृतमना जीवन्नपि मृतैः समः॥ ४८ ॥

च. चि. २४/४९

रमणीयान् स विषयान्न वेत्ति न सुहृज्जनम्।यदर्थं पीयते मद्यं रतिं तां च न विन्दति॥ ४९ ॥

च. चि. २४/५०

कार्याकार्यं सुखं दुःखं लोके यच्च हिताहितम्।यदवस्थो न जानाति कोऽवस्थां तां व्रजेद्बुधः॥ ५० ॥

च. चि. २४/५१

स दूष्यः सर्वभूतानां निन्द्यश्चाग्राह्य एव च।व्यसनित्वादुदर्के च स दुःखं व्याधिमश्नुते॥ ५१ ॥

च. चि. २४/५२

प्रेत्य चेह च यच्छ्रेयः श्रेयो मोक्षे च यत् परम्।मनःसमाधौ तत् सर्वमायत्तं सर्वदेहिनाम्॥ ५२ ॥

च. चि. २४/५३

मद्येन मनसश्चास्य संक्षोभः क्रियते महान्।महामारुतवेगेन तटस्थस्येव शाखिनः॥ ५३ ॥

च. चि. २४/५४

मद्यप्रसङ्गं तं चाज्ञा महादोषं महागदम्।सुखमित्यधिगच्छन्ति रजोमोहपराजिताः॥ ५४ ॥

च. चि. २४/५५

मद्योपहतविज्ञाना वियुक्ताः सात्त्विकैर्गुणैः।श्रेयोभिर्विप्रयुज्यन्ते मदान्धा मदलालसाः॥ ५५ ॥

च. चि. २४/५६

मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रितः।सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः॥ ५६ ॥

च. चि. २४/५७

यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधुवत्।इत्येवं मद्यदोषज्ञा मद्यं गर्हन्ति यत्नतः॥ ५७ ॥

च. चि. २४/५८

सत्यमेते महादोषा मद्यस्योक्ता न संशयः।अहितस्यातिमात्रस्य पीतस्य विधिवर्जितम्॥ ५८ ॥

च. चि. २४/५९

किंतु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम्।अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम्॥ ५९ ॥

च. चि. २४/६०

प्राणाः प्राणभृतामन्नं तदयुक्त्या निहन्त्यसून्।विषं प्राणहरं तच्च युक्तियुक्तं रसायनम्॥ ६० ॥

च. चि. २४/६१

हर्षमूर्जं मुदं पुष्टिमारोग्यं पौरुषं परम्।युक्त्या पीतं करोत्याशु मद्यं सुखमदप्रदम्॥ ६१ ॥

च. चि. २४/६२

रोचनं दीपनं हृद्यं स्वरवर्णप्रसादनम्।प्रीणनं बृंहनं बल्यं भयशोकश्रमापहम्॥ ६२ ॥

च. चि. २४/६३

स्वापनं नष्टनिद्राणां मूकानां वाग्विबोधनम्।बोधनं चातिनिद्राणां विबद्धानां विबन्धनुत्॥ ६३ ॥

च. चि. २४/६४

वधबन्धपरिक्लेशदुःखानां चाप्यबोधनम्।मद्योत्थानां च रोगाणां मद्यमेव प्रबाधकम्॥ ६४ ॥

च. चि. २४/६५

रतिर्विषयसंयोगे प्रीतिसंयोगवर्धनम्।अपि प्रवयसां मद्यमुत्सवामोदकारकम्॥ ६५ ॥

च. चि. २४/६६

पञ्चस्वर्थेषु कान्तेषु या रतिः प्रथमे मदे।यूनां वा स्थविराणां वा तस्य नास्त्युपमा भुवि॥ ६६ ॥

च. चि. २४/६७

बहुदुःखहतस्यास्य शोकेनोपहतस्य च।विश्रामो जीवलोकस्य मद्यं युक्त्या निषेवितम्॥ ६७ ॥

च. चि. २४/६८

अन्नपानवयोव्याधिबलकालत्रिकाणि षट्।त्रीन्दोषांस्त्रिविधं सत्त्वं ज्ञात्वा मद्यं पिबेत्सदा॥ ६८ ॥

च. चि. २४/६९

तेषां त्रिकाणामष्टानां योज्ना युक्तिरुच्यते।यया युक्त्या पिबन्मद्यं मद्यदोषैर्न युज्यते॥ ६९ ॥

च. चि. २४/७०

मद्यस्य च गुणान् सर्वान् यथोक्तान् स समश्नुते।धर्मार्थयोरपीडायै नरः सत्त्वगुणोच्छ्रितः॥ ७० ॥

च. चि. २४/७१

सत्त्वानि तु प्रबुध्यन्ते प्रायशः प्रथमे मदे।द्वितीयेऽव्यक्ततां यान्ति मध्ये चोत्तममध्ययोः।

च. चि. २४/७२

सस्यसंबोधकं वर्षं, हेमप्रकृतिदर्शकः।हुताशः, सर्वसत्त्वानां मद्यं तूभयकारकम्॥ ७२ ॥

च. चि. २४/७३

प्रधानावरमध्यानां रूपाणां व्यक्तिदर्शकः।यथाऽग्निरेवं सत्त्वानां मद्यं प्रकृतिदर्शकम्॥ ७३ ॥

च. चि. २४/७४

सुगन्धिमाल्यगन्धर्वं सुप्रणीतममाकुलम्।मिष्टान्नपानविशदं सदा मधुरसंकथम्॥ ७४ ॥

च. चि. २४/७५

सुखप्रपानं सुमदं हर्षप्रीतिविवर्धनम्।स्वन्तं सात्त्विकमापानं न चोत्तममदप्रदम्॥ ७५ ॥

च. चि. २४/७६

वैगुण्यं सहसा यान्ति मद्यदोषैर्न सात्त्विकाः।मद्यं हि बलवत्सत्त्वं गृह्णाति सहसा न तु॥ ७६ ॥

च. चि. २४/७७

सौम्यासौम्यकथाप्रायं विशदाविशदं क्षणात्।चित्रं राजसमापन्नं प्रायेणास्वन्तकाकुलम्॥ ७७ ॥

च. चि. २४/७८

हर्षप्रीतिकथापेतमतुष्टं पानभोजने।संमोहक्रोधनिद्रान्तमापानं तामसं स्मृतम्॥ ७८ ॥

च. चि. २४/७९

आपाने सात्त्विकान् बुद्ध्वा तथा राजसतामसान्।जह्यात्सहायान् यैः पीत्वा मद्यदोषानुपाश्नुते॥ ७९ ॥

च. चि. २४/८०

सुखशीलाः सुसंभाषाः सुमुखाः संमताः सताम्।कलास्वबाह्या विशदा विषयप्रवणाश्च ये॥ ८० ॥

च. चि. २४/८१

परस्परविधेया ये येषामैक्यं सुहृत्तया।प्रहर्षप्रीतिमाधुर्यैरापानं वर्धयन्ति ये॥ ८१ ॥

च. चि. २४/८२

उत्सवादुत्सवतरं येषामन्योन्यदर्शनम्।ते सहायाः सुखाः पाने तैः पिबन्सह मोदते॥ ८२ ॥

च. चि. २४/८३

रूपगन्धरसस्पर्शैः शब्दैश्चापि मनोरमैः।पिबन्ति सुसहाया ये ते वै सुकृतिभिः समाः॥ ८३ ॥

च. चि. २४/८४

पञ्चभिर्विषयैरिष्टैरुपेतैर्मनसः प्रियैः।देशे काले पिबेन्मद्यं प्रहृष्टेनान्तरात्मना॥ ८४ ॥

च. चि. २४/८५

स्थिरसत्त्वशरीरा ये पूर्वान्ना मद्यपान्वयाः।बहुमद्योचिता ये च माद्यन्ति सहसा न ते॥ ८५ ॥

च. चि. २४/८६

क्षुत्पिपासापरीताश्च दुर्बला वातपैत्तिकाः।रूक्षाल्पप्रमिताहारा विष्टब्धाः सत्त्वदुर्बलाः॥ ८६ ॥

च. चि. २४/८७

क्रोधिनोऽनुचिताः क्षीणाः परिश्रान्ता मदक्षताः।स्वल्पेनापि मदं शीघ्रं यान्ति मद्येन मानवाः॥ ८७ ॥

च. चि. २४/८८

ऊर्ध्वं मदात्ययस्यातः संभवं स्वस्वलक्षणम्।अग्निवेश! चिकित्सां च प्रवक्ष्यामि यथाक्रमम्॥ ८८ ॥

च. चि. २४/८९

स्त्रीशोकभयभाराध्वकर्मभिर्योऽतिकर्शितः।रूक्षाल्पप्रमिताशी च यः पिबत्यतिमात्रया॥ ८९ ॥

च. चि. २४/९०

रूक्षं परिणतं मद्यं निशि निद्रां विहत्य च।करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम्॥ ९० ॥

च. चि. २४/९१

हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः।विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम्॥ ९१ ॥

च. चि. २४/९२

तीक्ष्णोष्णं मद्यमम्लं च योऽतिमात्रं निषेवते।अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽग्न्यातपप्रियः॥ ९२ ॥

च. चि. २४/९३

तस्योपजायते पित्ताद्विशेषेण मदात्ययः।स तु वातोल्बणस्याशु प्रशमं याति हन्ति वा॥ ९३ ॥

च. चि. २४/९४

तृष्णादाहज्वरस्वेदमूर्च्छातीसारविभ्रमैः।विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम्॥ ९४ ॥

च. चि. २४/९५

तरुणं मधुरप्रायं गौडं पैष्टिकमेव वा।मधुरस्निग्धगुर्वाशी यः पिबत्यतिमात्रया॥ ९५ ॥

च. चि. २४/९६

अव्यायामदिवास्वप्नशय्यासनसुखे रतः।मदात्ययं कफप्रायं स शीघ्रमधिगच्छति॥ ९६ ॥

च. चि. २४/९७

छर्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवैः।विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम्॥ ९७ ॥

च. चि. २४/९८

विषस्य ये गुणा दृष्टाः सन्निपातप्रकोपणाः।त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः॥ ९८ ॥

च. चि. २४/९९

हन्त्याशु हि विषं किंचित् किंचिद्रोगाय कल्पते।यथा विषं तथैवान्त्यो ज्ञेयो मद्यकृतो मदः॥ ९९ ॥

च. चि. २४/१००

तस्मात् त्रिदोषजं लिङ्गं सर्वत्रापि मदात्यये।दृश्यते रूपवैशेष्यात् पृथक्त्वं चास्य लक्ष्यते॥ १०० ॥

च. चि. २४/१०१

शरीरदुःखं बलवत् संमोहो हृदयव्यथा।अरुचिः प्रतता तृष्णा ज्वरः शीतोष्णलक्षणः॥ १०१ ॥

च. चि. २४/१०२

शिरःपार्श्वास्थिसन्धीनां विद्युत्तुल्या च वेदना।जायतेऽतिबला जृम्भा स्फुरणं वेपनं श्रमः॥ १०२ ॥

च. चि. २४/१०३

उरोविबन्धः कासश्च हिक्का श्वासः प्रजागरः।शरीरकम्पः कर्णाक्षिमुखरोगस्त्रिकग्रहः॥ १०३ ॥

च. चि. २४/१०४

छर्द्यतीसारहृल्लासा वातपित्तकफात्मकाः।भ्रमः प्रलापो रूपाणामसतां चैव दर्शनम्॥ १०४ ॥

च. चि. २४/१०५

तृणभस्मलतापर्णपांशुभिश्चावपूरणम्।प्रधर्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते॥ १०५ ॥

च. चि. २४/१०६

व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च।मदात्ययस्य रूपाणि सर्वाण्येतानि लक्ष्यते॥ १०६ ॥

च. चि. २४/१०७

सर्वं मदात्ययं विद्यात् त्रिदोषमधिकं तु यम्।दोषं मदात्यये पश्येत् तस्यादौ प्रतिकारयेत्॥ १०७ ॥

च. चि. २४/१०८

कफस्थानानुपूर्व्या च क्रिया कार्या मदात्यये।पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः॥ १०८ ॥

च. चि. २४/१०९

मिथ्यातिहीनपीतेन यो व्याधिरुपजायते।समपीतेन तेनैव स मद्येनोपशाम्यति॥ १०९ ॥

च. चि. २४/११०

जीर्णाममद्यदोषाय मद्यमेव प्रदापयेत्।प्रकाङ्क्षालाघवे जाते यद्यदस्मै हितं भवेत्॥ ११० ॥

च. चि. २४/१११

सौवर्चलानुसंविद्धं शीतं सबिडसैन्धवम्।मातुलुङ्गार्द्रकोपेतं जलयुक्तं प्रमाणवित्॥ १११ ॥

च. चि. २४/११२

तीक्षोष्णेनातिमात्रेण पीतेनाम्लविदाहिना।मद्येनान्नरसोत्क्लेदो विदग्धः क्षारतां गतः॥ ११२ ॥

च. चि. २४/११३

अन्तर्दाहं ज्वरं तृष्णां प्रमोहं विभ्रमं मदम्।जनयत्याशु तच्छान्त्यै मद्यमेव प्रदापयेत्॥ ११३ ॥

च. चि. २४/११४

क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः।श्रेष्ठमम्लेषु मद्यं च यैर्गुणैस्तान् परं शृणु॥ ११४ ॥

च. चि. २४/११५

मद्यस्याम्लस्वभावस्य चत्वारोऽनुरसाः स्मृताः।मधुरश्च कषायश्च तिक्तः कटुक एव च॥ ११५ ॥

च. चि. २४/११६

गुणाश्च दश पूर्वोक्तास्तैश्चतुर्दशभिर्गुणैः।सर्वेषां मद्यमम्लानामुपर्युपरि तिष्ठति॥ ११६ ॥

च. चि. २४/११७

मधोत्क्लष्टेन दोषेण रुद्धः स्रोतःसु मारुतः।करोति वेदनां तीव्रां शिरस्यस्थिषु सन्धिषु॥ ११७ ॥

च. चि. २४/११८

दोषविष्यन्दनार्थं हि तस्मै मद्यं विशेषतः।व्यवायितीक्ष्णोष्णतया देयमम्ले(न्ये)षु सत्स्वपि॥ ११८ ॥

च. चि. २४/११९

स्रोतोविबन्धनुन्मद्यं मारुतस्यानुलोमनम्।रोचनं दीपनं चाग्नेरभ्यासात् सात्म्यमेव च॥ ११९ ॥

च. चि. २४/१२०

रुजः स्रोतःस्वरुद्धेषु मारुते चानुलोमिते।निवर्तन्ते विकाराश्च शाम्यन्त्यस्य मदोदयाः॥ १२० ॥

च. चि. २४/१२१

बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम्।यवानीहपुषाजाजीशृङ्गवेरावचूर्णितम्॥ १२१ ॥

च. चि. २४/१२२

सस्नेहैः शक्तुभिर्युक्तमवदंशैर्विरोचितम्।दद्यात् सलवणं मद्यं पैष्टिकं वातशान्तये॥ १२२ ॥

च. चि. २४/१२३

दृष्ट्वा वातोल्बणं लिङ्गं रसैश्चैनमुपाचरेत्।लावतित्तिरदक्षाणां स्निग्धाम्लैः शिखिनामपि॥ १२३ ॥

च. चि. २४/१२४

पक्षिणां मृगमत्स्यानामानूपानां च संस्कृतैः।भूशयप्रसहानां च रसैः शाल्योदनेन च॥ १२४ ॥

च. चि. २४/१२५

स्निग्धोष्णलवणाम्लैश्च वेशवारैर्मुखप्रियैः।चित्रैर्गौधूमिकैश्चान्नैर्वारुणीमण्डसंयुतैः॥ १२५ ॥

च. चि. २४/१२६

पिशितार्द्रकगर्भाभिः स्निग्धाभिः पूपवर्तिभिः।माषपूपलिकाभिश्च वातिकं समुपाचरेत्॥ १२६ ॥

च. चि. २४/१२७

नातिस्निग्धं न चाम्लेन युक्तं समरिचार्द्रकम्।मेद्यं प्रागुदितं मांसं दाडिमस्वरसेन वा॥ १२७ ॥

च. चि. २४/१२८

पृथक्त्रिजातकोपेतं सधान्यमरिचार्द्रकम्।रसप्रलेपि संपूपैः सुखोष्णैः संप्रदापयेत्॥ १२८ ॥

च. चि. २४/१२९

भुक्ते तु वारुणीमण्डं दद्यात् पातुं पिपासवे।दाडिमस्य रसं वाऽपि जलं वा पाञ्चमूलिकम्॥ १२९ ॥

च. चि. २४/१३०

धान्यनागरतोयं च दधिमण्डमथापि वा।अम्लकाञ्जिकमण्डं वा शुक्तोदकमथापि वा॥ १३० ॥

च. चि. २४/१३१

कर्मणाऽनेन सिद्धेन विकार उपशाम्यति।मात्राकालप्रयुक्तेन बलं वर्णश्च वर्धते॥ १३१ ॥

च. चि. २४/१३२

रागषाडवसंयोगैर्विविधैर्भक्तरोचनैः।पिशितैः शाकपिष्टान्नैर्यवगोधूमशालिभिः॥ १३२ ॥

च. चि. २४/१३३

अभ्यङ्गोत्सादनैः स्नानैरुष्णैः प्रावरणैर्घनैः।घनिरगुरुपङ्कैश्च धूपैश्चागुरुजैर्घनैः॥ १३३ ॥

च. चि. २४/१३४

नारीणां यौवनोष्णानां निर्दयैरुपगूहनैः।श्रोण्यूरुकुचभारैश्च संरोधोष्णसुखावहैः॥ १३४ ॥

च. चि. २४/१३५

शयनाच्छादनैरुष्णैरुष्णैश्चान्तर्गृहैः सुखैः।मारुतप्रबलः शीघ्रं प्रशाम्यति मदात्ययः॥ १३५ ॥

च. चि. २४/१३६

भव्यखर्जूरमृद्वीकापरूषकरसैर्युतम्।सदाडिमरसं शीतं सक्तुभिश्चावचूर्णितम्॥ १३६ ॥

च. चि. २४/१३७

सशर्करं शार्करं वा मार्द्वीकमथवाऽपरम्।दद्याद्बहूदकं काले पातुं पित्तमदात्यये॥ १३७ ॥

च. चि. २४/१३८

शशान् कपिञ्जलानेणां(अनुनासिक)आलावानसितपुच्छकान्।मधुराम्लान् प्रयुञ्जीत भोजने शालिषष्टिकान्॥ १३८ ॥

च. चि. २४/१३९

पटोलयूषमिश्रं वा छागलं कल्पयेद्रसम्।सतीनमुद्गमिश्रं वा दाडिमामलकान्वितम्॥ १३९ ॥

च. चि. २४/१४०

द्राक्षामलकखर्जूरपरूषकरसेन वा।कल्पयेत्तर्पणान् यूषान् रसांश्च विविधात्मकान्॥ १४० ॥

च. चि. २४/१४१

आमाशयस्थमुत्क्लिष्टं कफपित्तं मदात्यये।विज्ञाय बहुदोषस्य दह्यमानस्य तृष्यतः॥ १४१ ॥

च. चि. २४/१४२

मद्यं द्राक्षारसं तोयं दत्त्वा तर्पणमेव वा।निःशेषं वामयेच्छीघ्रमेवं रोगाद्विमुच्यते॥ १४२ ॥

च. चि. २४/१४३

काले पुनस्तर्पणाद्यं क्रमं कुर्यात् प्रकाङ्क्षिते।तेनाग्निर्दीप्यते तस्य दोषशेषान्नपाचकः॥ १४३ ॥

च. चि. २४/१४४

कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च।तृष्यते सविदाहे च सोत्क्लेशे हृदयोरसि॥ १४४ ॥

च. चि. २४/१४५

गुडूचीभद्रमुस्तानां पटोलस्याथवा भिषक्।रसं सनागरं दद्यात् तित्तिरिप्रतिभोजनम्॥ १४५ ॥

च. चि. २४/१४६

तृष्यते चातिबलवद्वातपित्ते समुद्धते।दद्याद्द्राक्षारसं पातुं शीतं दोषानुलोमनम्॥ १४६ ॥

च. चि. २४/१४७

जीर्णे समधुराम्लेन छागमांसरसेन तम्।भोजनं भोजयेन्मद्यमनुतर्षं च पाययेत्॥ १४७ ॥

च. चि. २४/१४८

अनुतर्षस्य मात्रा सा यया नो दूष्यते मनः।तृष्यते मद्यमल्पाल्पं प्रदेयं स्याद्बहूदकम्॥ १४८ ॥

च. चि. २४/१४९

तृष्णा येनोपशाम्येत मदं येन च नाप्नुयात्।परूषकाणां पीलूनां रसं शीतमथापि वा॥ १४९ ॥

च. चि. २४/१५०

पर्णिनीनां चतसॄणां पिबेद्वा शिशिरं जलम्।मुस्तदाडिमलाजानां तृष्णाघ्नं वा पिबेद्रसम्॥ १५० ॥

च. चि. २४/१५१

कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः।पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति॥ १५१ ॥

च. चि. २४/१५२

शीतलान्यन्नपानानि शीतशय्यासनानि च।शीतवातजलस्पर्शाः शीतान्युपवनानि च॥ १५२ ॥

च. चि. २४/१५३

क्षौमपद्मोत्पलानां च मणीनां मौक्तिकस्य च।चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतलाः॥ १५३ ॥

च. चि. २४/१५४

हेमराजतकांस्यानां पात्राणां शीतवारिभिः।पूर्णानां हिमपूर्णानां दृतीनां पवनाहताः॥ १५४ ॥

च. चि. २४/१५५

संस्पर्शाश्चन्दनार्द्राणां नारीणां च समारुताः।चन्दनानां च मुख्यानां शस्ताः पित्तमदात्यये॥ १५५ ॥

च. चि. २४/१५६

शीतवीर्यं यदन्यच्च तत् सर्वं विनियोजयेत्।कुमुदोत्पलपत्राणां सिक्तानां चन्दनाम्बुना॥ १५६ ॥

च. चि. २४/१५७

हिताः स्पर्शा मनोज्ञानां दाहे मद्यसमुत्थिते।कथाश्च विविधाः शस्ताः शब्दाश्च शिखिनां शिवाः॥ १५७ ॥

च. चि. २४/१५८

तोयदानां च शब्दा हि शमयन्ति मदात्ययम्।जलयन्त्राभिवर्षीणि वातयन्त्रवहानि च॥ १५८ ॥

च. चि. २४/१५९

कल्पनीयानि भिषजा दाहे धारागृहाणि च।फलिनीसेव्यलोध्राम्बुहेमपत्रं कुटन्नटम्॥ १५९ ॥

च. चि. २४/१६०

कालीयकरसोपेतं दाहे शस्तं प्रलेपनम्।बदरीपल्लवोत्थश्च तथैवारिष्टकोद्भवः॥ १६० ॥

च. चि. २४/१६१

फेनिलायाश्च यः फेनस्तैर्दाहे लेपनं शुभम्।सुरा समण्डा दध्यम्लं मातुलुङ्गरसो मधु॥ १६१ ॥

च. चि. २४/१६२

सेके प्रदेहे शस्यन्ते दाहघ्नाः साम्लकाञ्जिकाः।परिषेकावगाहेषु व्यञ्जनानां च सेवने॥ १६२ ॥

च. चि. २४/१६३

शस्यते शिशिरं तोयं दाहतृष्णाप्रशान्तये।मात्राकालप्रयुक्तेन कर्मणाऽनेन शाम्यति॥ १६३ ॥

च. चि. २४/१६४

धीमतो वैद्यवश्यस्य शीघ्रं पित्तमदात्ययः।उल्लेखनोपवासाभ्यां जयेत् कफमदात्ययम्॥ १६४ ॥

च. चि. २४/१६५

तृष्यते सलिलं चास्मै दद्याद्ध्रीबेरसाधितम्।बलया पृश्निपर्ण्या वा कण्टकार्याऽथवा शृतम्॥ १६५ ॥

च. चि. २४/१६६

सनागराभिः सर्वाभिर्जलं वा शृतशीतलम्।दुःस्पर्शोन समुस्तेन मुस्तपर्पटकेन वा॥ १६६ ॥

च. चि. २४/१६७

जलं मुस्तैः शृतं वाऽपि दद्याद्दोषविपाचनम्।एतदेव च पानीयं सर्वत्रापि मदात्यये॥ १६७ ॥

च. चि. २४/१६८

निरत्ययं पीयमानं पिपासाज्वरनाशनम्।निरामं काङ्क्षितं काले सक्षौद्रं पाययेत्तु तम्॥ १६८ ॥

च. चि. २४/१६९

शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा।रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम्॥ १६९ ॥

च. चि. २४/१७०

यावगौधूमिकं चान्नं रूक्षयूषेण भोजयेत्।कुलत्थानां सुशुष्काणां मूलकानां रसेन वा॥ १७० ॥

च. चि. २४/१७१

तनुनाऽल्पेन लघुना कट्वम्लेनाल्पसर्पिषा।पटोलयूषमम्लं वा यूषमामलकस्य वा॥ १७१ ॥

च. चि. २४/१७२

प्रभूतकटुसंक्तं सयवान्नं प्रदापयेत्।व्योषयूषमथाम्लं वा यूषं वा साम्लवेतसम्॥ १७२ ॥

च. चि. २४/१७३

छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम्।स्थाल्यां वाऽथ कपाले वा भृष्टं निर्द्रववर्तितम्॥ १७३ ॥

च. चि. २४/१७४

कट्वम्ललवणं मांसं भक्षयन् वृणुयान्मधु।व्यक्तमारीचकं मांसं मातुलुङ्गरसान्वितम्॥ १७४ ॥

च. चि. २४/१७५

प्रभूतकटुसंयुक्तं यवानीनागरान्वितम्।भृष्टं दाडिमसाराम्लमुष्णपूपोपवेष्टितम्॥ १७५ ॥

च. चि. २४/१७६

यथाग्नि भक्षयेत् काले प्रभूतार्द्रकपेशिकम्।पिबेच्च निगदं मद्यं कफप्राये मदात्यये॥ १७६ ॥

च. चि. २४/१७७

सौवर्चलमजाजी च वृक्षाम्लं सामल्वेतसम्।त्वगेलामरिचार्धांशं शर्कराभागयोजितम्॥ १७७ ॥

च. चि. २४/१७८

एतल्लवणमष्टाङ्गमग्निसंदीपनं परम्।मदात्यये कफप्राये दद्यात् स्रोतोविशोधनम्॥ १७८ ॥

च. चि. २४/१७९

एतदेव पुनर्युक्त्या मधुराम्लैर्द्रवीजृतम्।गोधूमान्नयवान्नानां मांसानां चातिरोचनम्॥ १७९ ॥

च. चि. २४/१८०

पेषयेत् कटुकैर्युक्तां श्वेतां बीजविवर्जिताम्।मृद्वीकां मातुलुङ्गस्य दाडिमस्य रसेन वा॥ १८० ॥

च. चि. २४/१८१

सौवर्चलैलामरिचैरजाजीभृङ्गदीप्यकैः।स रागः क्षौद्रसंयुक्तः श्रेष्ठो रोचनदीपनः॥ १८१ ॥

च. चि. २४/१८२

मृद्वीकाया विधानेन कारयेत् कारवीमपि।शुक्तमत्स्यण्डिकोपेतं रागं दीपनपाचनम्॥ १८२ ॥

च. चि. २४/१८३

आम्रामलकपेशीनां रागान् कुर्यात् पृथक् पृथक्।धान्यसौवर्चलाजाजीकारवीमरिचान्वितान्॥ १८३ ॥

च. चि. २४/१८४

गुडेन मधुयुक्तेन व्यक्ताम्ललवणीकृतान्।तैरन्नं रोचते दिग्धं सम्यग्मुक्तं च जीर्यति॥ १८४ ॥

च. चि. २४/१८५

रूक्षोष्णेनान्नपानेन स्नानेनाशिशिरेण च।व्यायामलङ्घनाभ्यां च युक्त्या जागरणेन च॥ १८५ ॥

च. चि. २४/१८६

कालयुक्तेन रूक्षेण स्नानेनोद्वर्तनेन च।प्राणवर्णकराणां च प्रघर्षाणां च सेवया॥ १८६ ॥

च. चि. २४/१८७

सेवया वसनानां च गुरूणामगुरोरपि।संकोचोष्णसुखङ्गीनामङ्गनानां च सेवया॥ १८७ ॥

च. चि. २४/१८८

सुखशिक्षितहस्तानां स्त्रीणां संवाहनेन च।मदात्ययः कफप्रायः शीघ्रमेवोपशाम्यति॥ १८८ ॥

च. चि. २४/१८९

यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति।सन्निपाते दशविधे तद्विकल्प्यं भिषग्विदा॥ १८९ ॥

च. चि. २४/१९०

यस्तु दोषविकल्पज्ञो यश्चौषधिविकल्पवित्।स साध्यान्साधयेद्व्याधीन् साध्यासाध्यविभागवित्॥ १९० ॥

च. चि. २४/१९१

वनानि रमणीयानि सपद्माः सलिलाशयाः।विशदान्यन्नपानानि सहायाश्च प्रहर्षणाः॥ १९१ ॥

च. चि. २४/१९२

माल्यानि गन्धयोगाश्च वासांसि विमलानि च।गान्धर्वशब्दाः कान्ताश्च गोष्ठ्यश्च हृदयप्रियाः॥ १९२ ॥

च. चि. २४/१९३

संकथाहास्यगीतानां विशदाश्चैव योजनाः।प्रियाश्चानुगता नार्यो नाशयन्ति मदात्ययम्॥ १९३ ॥

च. चि. २४/१९४

नाक्षोभ्य हि मनो मद्यं शरीरमविहत्य च।कुर्यान्मदात्ययं तस्मादेष्टव्या हर्षणी क्रिया॥ १९४ ॥

च. चि. २४/१९५

आभिः क्रियाभिः सिद्धाभिः शमं याति मदात्ययः।न चेन्मद्यविधिं मुक्त्वा क्षीरमस्य प्रयोजयेत्॥ १९५ ॥

च. चि. २४/१९६

लङ्ग्ननैः पाचनैर्दोषशोधनैः शमनैरपि।विमद्यस्य कफे क्षीणे जाते दौबल्यलाघवे॥ १९६ ॥

च. चि. २४/१९७

तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च।ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः॥ १९७ ॥

च. चि. २४/१९८

पयसाऽभिहृते रोगे बले जाते निवर्तयेत्।क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत्॥ १९८ ॥

च. चि. २४/१९९

विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते।ध्वंसको विक्षयश्चैव रोगस्तस्योपजायते॥ १९९ ॥

च. चि. २४/२००

व्याध्युपक्षीणदेहस्य दुश्चिकित्स्यतमौ हि तौ।तयोर्लिङ्गं चिकित्सा च यथावदुपदेक्ष्यते॥ २०० ॥

च. चि. २४/२०१

श्लेष्मप्रसेकः कण्ठास्यशोषः शब्दासहिष्णुता।तन्द्रानिद्रातियोगश्च ज्ञेयं ध्वंसकलक्षणम्॥ २०१ ॥

च. चि. २४/२०२

हृत्कण्ठरोगः संमोहश्छर्दिरङ्गरुजा ज्वरः।तृष्णा कासः शिरःशूलमेतद्विक्षयलक्षणम्॥ २०२ ॥

च. चि. २४/२०३

तयोः कर्म तदेवेष्टं वातिके यन्मदात्यये।तौ हि प्रक्षीणदेहस्य जायेते दुर्बलस्य वै॥ २०३ ॥

च. चि. २४/२०४

बस्तयः सर्पिषः पानं प्रयोगः क्षीरसर्पिषोः।अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातनुत्॥ २०४ ॥

च. चि. २४/२०५

ध्वंसको विक्षयश्चैव कर्मणाऽनेन शाम्यति।युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते॥ २०५ ॥

च. चि. २४/२०६

निवृत्तः सर्वमद्येभ्यो नरो यश्च जितेन्द्रियः।शारीरमानसैर्धीमान् विकारैर्न स युज्यते॥ २०६ ॥

च. चि. २४/२०७

तत्र श्लोकाः-यत्प्रभावा भगवती सुरा पेया यथा च सा।यद्द्रव्या यस्य या चेष्टा योगं चापेक्षते यथा॥ २०७ ॥

च. चि. २४/२०८

यथा मदयते यैश्च गुणैर्युक्ता महागुणा।यो मदो मदभेदाश्च ये त्रयः स्वस्वलक्षणाः॥ २०८ ॥

च. चि. २४/२०९

ये च मद्यकृता दोषा गुणा ये च मदात्मकाः।यच्च त्रिविधमापानं यथासत्त्वं च लक्षणम्॥ २०९ ॥

च. चि. २४/२१०

ये सहायाः सुखाः पाने चिरक्षिप्रमदा नराः।मदात्ययस्य यो हेतुर्लक्षणं यद् यथा च यत्॥ २१० ॥

च. चि. २४/२११

मद्यं मद्योत्थितान् रोगान् हन्ति यश्च क्रियाक्रमः।सर्वं तदुक्तमखिलं मदात्ययचिकित्सिते॥ २११ ॥

च. चि. २४

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने मदात्ययचिकित्सितं नाम चतुर्विंशोऽध्यायः॥२४॥