भारत संहिता

अध्याय ३०

योनिव्यापच्चिकित्सितम्

योनि-रोगों की चिकित्सा

मुख्य शब्द (३) - इस अध्याय के पारिभाषिक शब्द और उनके अर्थ
विकार
विकार - बिगाड़; रोग
विस्तार

शब्द-रचना: वि + √कृ (बदलना)।

अर्थ: स्वाभाविक अवस्था से बदल जाना।

चरक संहिता में: 'विकार' प्रायः रोग के लिए आता है; साध्य विकार विपरीत गुणों वाले, देश, मात्रा और काल के अनुसार दिए गए भेषजों से दूर होते हैं (सू. १/६२)।

दोष
दोष - शरीर या मन को बिगाड़ने वाले तत्त्व: वात, पित्त, कफ; रज, तम
विस्तार

शब्द-रचना: √दुष् (दूषित होना, बिगड़ना) से - जो बिगड़कर दूषित करे।

चरक संहिता में: शरीर के तीन दोष हैं - वात, पित्त और कफ - और मन के दो - रज और तम (सू. १/५७)। सम अवस्था में ये शरीर को चलाते हैं; विषम होने (बढ़ने या घटने) पर रोग उत्पन्न करते हैं।

सामान्य बोलचाल में 'दोष' का अर्थ 'कमी, गलती' भी है।

भेषज
भेषज - औषध, उपचार
विस्तार

शब्द-रचना: भिषज् (वैद्य) से सम्बन्धित - जो वैद्य देता है।

अर्थ: औषध, उपचार।

चरक संहिता में: सही योग से तीक्ष्ण विष भी उत्तम भेषज बन सकता है, और गलत प्रयोग से भेषज भी तीक्ष्ण विष (सू. १/१२६)।

मूल पाठ के किसी शब्द पर टैप करें - उसका अर्थ दिखेगा।

च. चि. ३०/१

अथातो योनिव्यापच्चिकित्सितं व्याख्यास्यामः॥ १ ॥

च. चि. ३०/२

इति ह स्माह भगवानात्रेयः॥ २ ॥

च. चि. ३०/३

दिव्यतीर्ह्तौषधिमतश्चित्रधातुशिलावतः।पुण्ये हिमवतः पार्श्वे सुरसिद्धर्षिसेविते॥ ३ ॥

च. चि. ३०/४

विहरन्तं तपोयोगात्तत्त्वज्ञानार्ह्तदर्शिनम्।पुनर्वसुं जितात्मानमग्निवेशोऽनु पृष्टवान्॥ ४ ॥

च. चि. ३०/५

भगवन्! यदपत्यानां मूलं नार्यः परं नृणाम्।तद्धिघातो गदैश्चासां क्रियते योनिमाश्रितैः॥ ५ ॥

च. चि. ३०/६

तस्मात्तेषां समुत्पत्तिमुत्पन्नानां च लक्षणम्।सौषधं श्रोतुमिच्छामि प्रजानुग्रहकाम्यया॥ ६ ॥

च. चि. ३०/७

इति शिष्येण पृष्टस्तु प्रोवाचर्षिवरोऽत्रिजः।विंशतिर्व्यापदो योनेर्निर्दिष्टा रोगसंग्रहे॥ ७ ॥

च. चि. ३०/८

मिथ्याचारेण ताः स्त्रीणां प्रदुष्टेनार्तवेन च।जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक्॥ ८ ॥

च. चि. ३०/९

वातलाहारचेष्टाया वातलायाः समीरणः।विवृद्धो योनिमाश्रित्य योनेस्तोदं सवेदनम्॥ ९ ॥

च. चि. ३०/१०

स्तम्भं पिपीलिकासृप्तिमिव कर्कशतां तथा।करोति सुप्तिमायासं वातजांश्चापरान् गदान्॥ १० ॥

च. चि. ३०/११

सा स्यात् सशब्दरुक्फेनतनुरूक्षार्तवाऽनिलात्।व्यापत्कट्वम्ललवणक्षाराद्यैः पित्तजा भवेत्॥ ११ ॥

च. चि. ३०/१२

दाहपाकज्वरोष्णार्ता नीलपीतासितार्तवा।भृशोष्णकुणपस्रावा योनिः स्यात्पित्तदूषिता॥ १२ ॥

च. चि. ३०/१३

कफोऽभिष्यन्दिभिर्वृद्धो योनिं चेद्दूषयेत् स्त्रियाः।स कुर्यात् पिच्छिलां शीतां कण्डुग्रस्ताल्पवेदनाम्॥ १३ ॥

च. चि. ३०/१४

पाण्डुवर्णां तथा पाण्डुपिच्छिलार्तववाहिनीम्।समश्नन्त्या रसान् सर्वान्दूषयित्वा त्रयो मलाः॥ १४ ॥

च. चि. ३०/१५

योनिगर्भाशयस्थाः स्वैर्योनिं युञ्जन्ति लक्षणैः।सा भवेद्दाहशूलार्ता श्वेतपिच्छिलवाहिनी॥ १५ ॥

च. चि. ३०/१६

रक्तपित्तकरैर्नार्या रक्तं पित्तेन दूषितम्।अतिप्रवर्तते योन्यां लब्धे गर्भेऽपि सासृजा॥ १६ ॥

च. चि. ३०/१७

योनिगर्भाशयस्थं चेत् पित्तं संदूषयेदसृक्।साऽरजस्का मता कार्श्यवैवर्ण्यजननी भृशम्॥ १७ ॥

च. चि. ३०/१८

योन्यामधावनात् कण्डूं जाताः कुर्वन्ति जन्तवः।सा स्यादचरणा कण्ड्वा तयाऽतिनरकाङ्क्षिणी॥ १८ ॥

च. चि. ३०/१९

पवनोऽतिव्यवायेन शोफसुप्तिरुजः स्त्रियाः।करोति कुपितो योनौ सा चातिचरणा मता॥ १९ ॥

च. चि. ३०/२०

मैथुनादतिबालायाः पृष्ठकट्यूरुवंक्षणम्।रुजन् दूषयते योनिं वायुः प्राक्चरणा हि सा॥ २० ॥

च. चि. ३०/२१

गर्भिण्याः श्लेष्मलाभ्यासाच्छर्दिनिःश्वासनिग्रहात्।वायुः क्रुद्धः कफं योनिमुपनीय प्रदूषयेत्॥ २१ ॥

च. चि. ३०/२२

पाण्डुं सतोदमास्रावं श्वेतं स्रवति वा कफम्।कफवातामयव्याप्ता सा स्याद्योनिरुपप्लुता॥ २२ ॥

च. चि. ३०/२३

पित्तलाया नृसंवासे क्षवथूद्गारधारणात्।पित्तसंमूर्च्छितो वायुर्योनिं दूषयति स्त्रियाः॥ २३ ॥

च. चि. ३०/२४

शूना स्पर्शाक्षमा सार्तिर्नीलपीतमसृक् स्रवेत्।श्रोणिवंक्षणपृष्ठार्तिज्वरार्तायाः परिप्लुता॥ २४ ॥

च. चि. ३०/२५

वेगोदावर्तनाद्योनिमुदावर्तयतेऽनिलः।सा रुगार्ता रजः कृच्छ्रेणोदावृत्तं विमुञ्चति॥ २५ ॥

च. चि. ३०/२६

आर्तवे सा विमुक्ते तु तत्क्षणं लभते सुखम्।रजसो गमनादूर्ध्वं ज्ञेयोदावर्तिनी बुधैः॥ २६ ॥

च. चि. ३०/२७

अकाले वाहमानाया गर्भेण पिहितोऽनिलः।कर्णिकां जनयेद्योनौ श्लेष्मरक्तेन मूर्च्छितः॥ २७ ॥

च. चि. ३०/२८

रक्तमार्गावरोधिन्या सा तया कर्णिनी मता।रौक्ष्याद्वायुर्यदा गर्भं जातं जातं विनाशयेत्॥ २८ ॥

च. चि. ३०/२९

दुष्टशोणितजं नार्याः पुत्रघ्नी नाम सा मता।व्यवायमतितृप्ताया भजन्त्यास्त्वन्नपीडितः॥ २९ ॥

च. चि. ३०/३०

वायुर्मिथ्यास्थिताङ्गाया योनिस्रोतसि संस्थितः।वक्रयत्याननं योन्याः साऽस्थिमांसानिलार्तिभिः॥ ३० ॥

च. चि. ३०/३१

भृशार्तिर्मैथुनाशक्ता योनिरन्तर्मुखी मता।गर्भस्थायाः स्त्रिया रौक्ष्याद्वायुर्योनिं प्रदूषयन्॥ ३१ ॥

च. चि. ३०/३२

मातृदोषादणुद्वारां कुर्यात् सूचीमुखी तु सा।व्यवायकाले रुन्धन्त्या वेगान् प्रकुपितोऽनिलः॥ ३२ ॥

च. चि. ३०/३३

कुर्याद्विण्मूत्रसङ्गार्तिं शोषं योनिमुखस्य च।षडहात् सप्तरात्राद्वा शुक्रं गर्भाशयं गतम्॥ ३३ ॥

च. चि. ३०/३४

सरुजं नीरुजं वाऽपि या स्रवेत् सा तु वामिनी।बीजदोषात्तु गर्भस्थमारुतोपहताशया॥ ३४ ॥

च. चि. ३०/३५

नृद्वेषिण्यस्तनी चैव षण्ढी स्यादनुपक्रमा।विषमं दुःखशय्यायां मैथुनात् कुपितोऽनिलः॥ ३५ ॥

च. चि. ३०/३६

गर्भाशयस्य योन्याश्च मुखं विष्टम्भयेत् स्त्रियाः।असंवृतमुखी सार्ती रूक्षफेनास्रवाहिनी॥ ३६ ॥

च. चि. ३०/३७

मांसोत्सन्ना महायोनिः पर्ववंक्षणशूलिनी।इत्येतैर्लक्षणैः प्रोक्ता विंशतिर्योनिजा गदाः॥ ३७ ॥

च. चि. ३०/३८

न शुक्रं धारयत्येभिर्दोषैर्योनिरुपद्रुता।तस्माद्गर्भं न गृह्णाति स्त्री गच्छत्यामयान् बहून्॥ ३८ ॥

च. चि. ३०/३९

गुल्मार्शःप्रदरादींश्च वाताद्यैश्चातिपीडनम्।आसां षोडश यास्त्वन्त्या आद्ये द्वे पित्तदोषजे॥ ३९ ॥

च. चि. ३०/४०

परिप्लुता वामिनी च वातपित्तात्मिके मते।कर्णिन्युपप्लुते वातकफाच्छेषास्तु वातजाः॥ ४० ॥

च. चि. ३०/४१

देहं वातादयस्तासां स्वैर्लिङ्गैः पीडयन्ति हि।स्नेहनस्वेदबस्त्यादि वातजास्वनिलापहम्॥ ४१ ॥

च. चि. ३०/४२

कारयेद्रक्तपितघ्नं शीतं पित्तकृतासु च।श्लेष्मजासु च रूक्षोष्णं कर्म कुर्याद्विचक्षणः॥ ४२ ॥

च. चि. ३०/४३

सन्निपाते विमिश्रं तु संसृष्टासु च कारयेत्।स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत्पुनः॥ ४३ ॥

च. चि. ३०/४४

पाणिना नामयेज्जिह्मां संवृतां वर्धयेत् पुनः।प्रवेशयेन्निःसृतां च विवृतां परिवर्तयेत्॥ ४४ ॥

च. चि. ३०/४५

योनिः स्थानापवृत्ता हि शल्यभूता मता स्त्रियाः।सर्वां व्यापन्नयोनिं तु कर्मभिर्वमनादिभिः॥ ४५ ॥

च. चि. ३०/४६

मृदुभिः पञ्चभिर्नारीं स्निग्धस्विन्नामुपाचरेत्।सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते॥ ४६ ॥

च. चि. ३०/४७

वातव्याधिहरं कर्म वातार्तानां सदा हितम्।औदकानूपजैर्मांसैः क्षीरैः सतिलतण्डुलैः॥ ४७ ॥

च. चि. ३०/४८

सवातघ्नौषधैर्नाडीकुम्भीस्वेदैरुपाचरेत्।अक्तां लवणतैलेन साश्मप्रस्तरसङ्करैः॥ ४८ ॥

च. चि. ३०/४९

स्विन्नां कोष्णाम्बुसिक्ताङ्गीं वातघ्नैर्भोजयेद्रसैः।बलाद्रोणद्वयक्वाथे घृततैलाडकं पचेत्॥ ४९ ॥

च. चि. ३०/५०

स्थिरापयस्याजीवन्तीवीरर्षभकजीवकैः।श्रावणीपिप्पलीमुद्गपीलुमाषाख्यपर्णिभिः॥ ५० ॥

च. चि. ३०/५१

शर्कराक्षीरकाकोलीकाकनासाभिरेव च।पिष्टैश्चतुर्गुणक्षीरे सिद्धं पेयं यथाबलम्॥ ५१ ॥

च. चि. ३०/५२

वातपित्तकृतान् रोगान् हत्वा गर्भं दधाति तत्।काश्मर्यत्रिफलाद्राक्षाकासमर्दपरूषकैः॥ ५२ ॥

च. चि. ३०/५३

पुनर्नवाद्विरजनीकाकनासासहाचरैः।शतावर्या गुडूच्याश्च प्रस्थमक्षसमैर्घृतात्॥ ५३ ॥

च. चि. ३०/५४

साधितं योनिवातघ्नं गर्भदं परमं पिबेत्।पिप्पलीकुञ्चिकाजाजीवृषकं सैन्धवं वचाम्॥ ५४ ॥

च. चि. ३०/५५

यवक्षाराजमोदे च शर्करां चित्रकं तथा।पिष्ट्वा सर्पिषि भृष्टानि पाययेत प्रसन्नया॥ ५५ ॥

च. चि. ३०/५६

योनिपार्श्वार्तिहृद्रोगगुल्मार्शोविनिवृत्तये।वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम्॥ ५६ ॥

च. चि. ३०/५७

पिबेत् सलवणैर्मद्यैः पिप्पलीकुञ्चिके तथा।रास्नाश्वदंष्ट्रावृषकैः पिबेच्छूले शृतं पयः॥ ५७ ॥

च. चि. ३०/५८

गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचयेत्।सैन्धवं तगरं कुष्ठं बृहती देवदारु च॥ ५८ ॥

च. चि. ३०/५९

समांशैः साधितं कल्कैस्तैलं धार्यं रुजापहम्।गुडूचीमालतीरास्नाबलामधुकचित्रकैः॥ ५९ ॥

च. चि. ३०/६०

निदिग्धिकादेवदारुयूथिकाभिश्च कार्षिकैः।तैलप्रस्थं गवां मूत्रे क्षीरे च द्विगुणे पचेत्॥ ६० ॥

च. चि. ३०/६१

वातार्तायाः पिचुं दद्याद्योनौ च प्रणयेत्ततः।वातार्तानां च योनीनां सेकाभ्यङ्गपिचुक्रियाः॥ ६१ ॥

च. चि. ३०/६२

(उष्णाः सिग्धाः प्रकर्तव्यास्तैलानि स्नेहनानि च।) हिंस्राकल्कं तु वातार्ता कोष्णमभ्यज्य धारयेत्।पञ्चवल्कस्य पित्तार्ता श्यामादीनां कफातुरा॥ ६२ ॥

च. चि. ३०/६३

पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः।शीताः पित्तहराः कार्याः स्नेहनार्थं घृतानि च॥ ६३ ॥

च. चि. ३०/६४

(पित्तघ्नौषधसिद्धानि कार्याणि भिषजा तथा।) शतावरीमूलतुलाश्चतस्रः संप्रपीडयेत्॥ ६४ ॥

च. चि. ३०/६५

रसेन क्षीरतुल्येन पचेत्तेन घृताढकम्।जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः॥ ६५ ॥

च. चि. ३०/६६

पिष्टैः प्रियालैश्चाक्षांशैर्द्वियष्टिमधुकैर्भिषक्।सिद्धे शीते च मधुनः पिप्पल्याश्च पलाष्टकम्॥ ६६ ॥

च. चि. ३०/६७

सितादशपलोन्मिश्राल्लिह्यात् पाणितलं ततः।योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं च तत्॥ ६७ ॥

च. चि. ३०/६८

क्षतं क्षतं रक्तपित्तं कासं श्वासं हलीमकम्।कामलां वातरक्तं च वीसर्पं हृच्छिरोग्रहम्॥ ६८ ॥

च. चि. ३०/६९

उन्मादारत्यपस्मारान् वातपित्तात्मकाञ्जयेत्।इति बृहच्छतावरीघृतम्।एवमेव क्षीरसर्पिर्जीवनीयोपसाधितम्॥ ६९ ॥

च. चि. ३०/७०

गर्भदं पित्तलानां च योनीनां स्याद्भिषग्जितम्।योन्यां श्लेष्मप्रदुष्टायां वार्तिः संशोधनी हिता॥ ७० ॥

च. चि. ३०/७१

वाराहे बहुशः पित्ते भावितैर्लक्तकैः कृता।भावितं पयसाऽर्कस्य यवचूर्णं ससैन्धवम्॥ ७१ ॥

च. चि. ३०/७२

वर्तिः कृता मुहुर्धार्या ततः सेच्या सुखाम्बुना।पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः॥ ७२ ॥

च. चि. ३०/७३

वर्तिस्तुल्या प्रदेशिन्या धार्या योनिविशोधनी।उदुम्बरशलाटूनां द्रोणमब्द्रोणसंयुतम्॥ ७३ ॥

च. चि. ३०/७४

सपञ्चवक्लकुलकमालतीनिम्बपल्लवम्।निशां स्थाप्य जले तस्मिंस्तैलप्रस्थं विपाचयेत्॥ ७४ ॥

च. चि. ३०/७५

लाक्षाधवपलाशत्वङ्निर्यासैः शाल्मलेन च।पिष्टैः सिद्धस्य तैलस्य पिचुं योनौ निधापयेत्॥ ७५ ॥

च. चि. ३०/७६

सशर्करैः कषायैश्च शीतैः कुर्वीत सेचनम्।पिच्छिला विवृता कालदुष्टा योनिश्च दारुणा॥ ७६ ॥

च. चि. ३०/७७

सप्ताहाच्छुध्यति क्षिप्रमपत्यं चापि विन्दति।उदुम्बरस्य दुग्धेन षट्कृत्वो भावितात्तिलात्॥ ७७ ॥

च. चि. ३०/७८

तैलं क्वाथेन तस्यैव सिद्धं धार्यं च पूर्ववत्।धातक्यामलकीपत्रस्रोतोजमधुकोत्पलैः॥ ७८ ॥

च. चि. ३०/७९

जम्ब्वाम्रमध्यकासीसलोध्रकट्फलतिन्दुकैः।सौराष्ट्रिकादाडिमत्वगुदुम्बरशलाडुभिः॥ ७९ ॥

च. चि. ३०/८०

अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत्।तैलप्रस्थं पिचुं दद्याद्योनौ च प्रणयेत्ततः॥ ८० ॥

च. चि. ३०/८१

कटीपृष्ठत्रिकाभ्यङ्गं स्नेहबस्तिं च दापयेत्।पिच्छिला स्राविणी योनिर्विप्लुतोपप्लुता तथा॥ ८१ ॥

च. चि. ३०/८२

उत्ताना चोन्नता शूना सिध्येत् सस्फोटशूलिनी।करीरधवनिम्बर्कवेणुकोशाम्रजाम्बवैः॥ ८२ ॥

च. चि. ३०/८३

जिङ्गिनीवृषमूलानां क्वाथैर्मार्द्वीकसीधुभिः।सशुक्तैर्धावनं मिथैर्योन्यास्रावविनाशनम्॥ ८३ ॥

च. चि. ३०/८४

कुर्यात् सतक्रगोमूत्रशुक्तैर्वा त्रिफलारसैः।पिप्पल्ययोरजः पथ्याप्रयोगा मधुना हिताः॥ ८४ ॥

च. चि. ३०/८५

श्लेष्मलायां कटुप्रायाः समूत्रा बस्तयो हिताः।पित्ते समधुरक्षीरा वाते तैलाम्लसंयुताः॥ ८५ ॥

च. चि. ३०/८६

सन्निपातसमुत्थायाः कर्म साधारणं हितम्।रक्तयोन्यामसृग्वर्णैरनुबन्धं समीक्ष्य च॥ ८६ ॥

च. चि. ३०/८७

ततः कुर्याद्यथादोषं रक्तस्थापनमौषधम्।तिलचूर्णं दधि घृतं फाणितं शौकरी वसा॥ ८७ ॥

च. चि. ३०/८८

क्षौद्रेण संयुतं पेयं वातसृग्दरनाशनम्।वराहस्य रसो मेद्यः सकौलत्थोऽनिलाधिके॥ ८८ ॥

च. चि. ३०/८९

शर्कराक्षौद्रयष्ट्याह्वनागरैर्वा युतं दधि।पयस्योत्पलशालूकबिसकालीयकाम्बुदम्॥ ८९ ॥

च. चि. ३०/९०

सपयःशर्कराक्षौद्रं पैत्तिकेऽसृग्दरे पिबेत्।पाठा जम्ब्वाम्रयोर्मध्यं शिलोद्भेदं रसाञ्जनम्॥ ९० ॥

च. चि. ३०/९१

अम्बष्ठा शाल्मलीश्लेषं समङ्गां वत्सकत्वचम्।बाह्लीकातिविषे बिल्वं मुस्तं लोध्रं सगैरिकम्॥ ९१ ॥

च. चि. ३०/९२

कट्वङ्गं मरिचं शुण्ठीं मृद्वीकां रक्तचन्दनम्।कट्फलं वत्सकानन्ताधातकीमधुकार्जुनम्॥ ९२ ॥

च. चि. ३०/९३

पुष्येणोद्धृत्य तुल्यानि सूक्ष्मचूर्णानि कारयेत्।तानि क्षौद्रेण संयोज्य पिबेत्तण्डुलवारिणा॥ ९३ ॥

च. चि. ३०/९४

अर्शःसु चातिसारेषु रक्तं यच्चोपवेश्यते।दोषागन्तुकृता ये च बालानां तांश्च नाशयेत्॥ ९४ ॥

च. चि. ३०/९५

योनिदोषं रजोदोषं श्वेतं नीलं सपीतकम्।स्त्रीणां श्यावारुणं यच्च प्रसह्य विनिवर्तयेत्॥ ९५ ॥

च. चि. ३०/९६

चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्।इति पुष्यानुगचूर्णम्।तण्डुलीयकमूलं तु सक्षौद्रं तण्डुलाम्बुना॥ ९६ ॥

च. चि. ३०/९७

रसाञ्जनं च लाक्षां च छागेन पयसा पिबेत्।पत्रकल्कौ घृते भृष्टौ राजादनकपित्थयोः॥ ९७ ॥

च. चि. ३०/९८

पित्तानिलहरौ, पैत्ते सर्वथैवास्रपित्तजित्।मधुकं त्रिफलां लोध्रं मुस्तं सौराष्ट्रिकां मधु॥ ९८ ॥

च. चि. ३०/९९

मद्यैर्निम्बगुडूच्यौ वा कफजेऽसृग्दरे पिबेत्।विरेचनं महातिक्तं पैत्तिकेऽसृग्दरे पिबेत्॥ ९९ ॥

च. चि. ३०/१००

हितं गर्भपरिस्रावे यच्चोकतं तच्च् कारयेत्।काश्मर्यकुटजाक्वाथसिद्धमुत्तरबस्तिना॥ १०० ॥

च. चि. ३०/१०१

रक्तयोन्यरजस्कानां पुत्रघ्न्याश्च हितं घृतम्।मृगाजाविवराहासृग्दध्यम्लफलसर्पिषा॥ १०१ ॥

च. चि. ३०/१०२

अरजस्का पिबेत् सिद्धं जीवनीयैः पयोऽपि वा।कर्णिन्यचरणाशुष्कयोनिप्राक्चरणासु च॥ १०२ ॥

च. चि. ३०/१०३

कफवाते च दातव्यं तैलमुत्तरबस्तिना।गोपित्ते मत्स्यपित्ते वा क्षौमं त्रिःसप्तभावितम्॥ १०३ ॥

च. चि. ३०/१०४

मधुना किण्वचूर्णं वा दद्यादचरणापहम्।स्रोतसां शोधनं कण्डूक्लेदशोफहरं च तत्॥ १०४ ॥

च. चि. ३०/१०५

वातघ्नैः शतपाकैश्च तैलैः प्रागतिचारिणी।आस्थाप्या चानुवास्या च स्वेद्या चानिलसूदनैः॥ १०५ ॥

च. चि. ३०/१०६

स्नेहद्रव्यैस्तथाऽऽहारैरुपनाहैश्च युक्तितः।शताह्वायवगोधूमकिण्वकुष्ठप्रियङ्गुभिः॥ १०६ ॥

च. चि. ३०/१०७

बलाखुपर्णिकाश्र्याह्वैः संयावो धारणः स्मृतः।वामिन्युपप्लुतानां च स्नेहस्वेदादिकः क्रमः॥ १०७ ॥

च. चि. ३०/१०८

कार्यस्ततः स्नेहपिचुस्ततः संतर्पणं भवेत्।शल्लकीजिङ्गिनीजम्बूधवत्वक्पञ्चवल्कलैः॥ १०८ ॥

च. चि. ३०/१०९

कषायैः साधितः स्नेहपिचुः स्याद्विप्लुतापहः।कर्णिन्यां वर्तिका कुष्ठपिप्पल्यर्काग्रसैन्धवैः॥ १०९ ॥

च. चि. ३०/११०

बस्तमूत्रकृता धार्या सर्वं च श्लेष्मनुद्धितम्।त्रैवृतं स्नेहनं स्वेदो ग्राम्यानूपौदका रसाः॥ ११० ॥

च. चि. ३०/१११

दशमूलपयोबस्तिश्चोदावर्तानिलार्तिषु।त्रैवृतेनानुवास्या च बस्तिश्चोत्तरसंज्ञितः॥ १११ ॥

च. चि. ३०/११२

एतदेव महायोन्यां स्रस्तायां च विधीयते।वसा र्क्षवराहाणां घृतं च म्धुरैः शृतम्॥ ११२ ॥

च. चि. ३०/११३

पूरयित्वा महायोनिं बध्नीयात् क्षौमलक्तकैः।प्रस्रस्तां सर्पिषाऽभ्यज्य क्षीरस्विन्नां प्रवेश्य च॥ ११३ ॥

च. चि. ३०/११४

बध्नीयाद्वेशवारस्य पिण्डेनामूत्रकालतः।यच्च वातविकाराणां कर्मोक्तं तच्च कारयेत्॥ ११४ ॥

च. चि. ३०/११५

सर्वव्यापत्सु मतिमान्महायोन्यां विशेषतः।नहि वातादृते योनिर्नारीणां संप्रदुष्यति॥ ११५ ॥

च. चि. ३०/११६

शमयित्वा तमन्यस्य कुर्याद्दोषस्य मेषजम्।रोहीतकान्मूलकल्कं पाण्डुरेऽसृग्दरे पिबेत्॥ ११६ ॥

च. चि. ३०/११७

जलेनामलकीबीजं कल्कं वा ससितामधुम्।मधुनाऽऽमलकाच्चूर्णं रसं वा लेहयेच्च ताम्॥ ११७ ॥

च. चि. ३०/११८

न्यग्रोधत्वक्कषायेण लोध्रकल्कं ततहा पिबेत्।आस्रावे क्षौमपट्टं वा भावितं तेन धारयेत्॥ ११८ ॥

च. चि. ३०/११९

प्लक्षत्वक्चूर्णपिण्डं वा धारयेन्मधुना कृतम्।योन्या स्नेहाक्तया लोध्रप्रियङ्गुमधुकस्य वा॥ ११९ ॥

च. चि. ३०/१२०

धार्या मधुयुता वर्तिः कषायाणां च सर्वशः।स्रावच्छेदार्थमभ्यक्तां धूपयेद्वा घृताप्लुतैः॥ १२० ॥

च. चि. ३०/१२१

सरलागुग्गुलुयवैः सतैलकटुमत्स्यकैः।कासीसं त्रिफला कांक्षी समङ्गाऽऽम्रास्थि धातकी॥ १२१ ॥

च. चि. ३०/१२२

पैच्छिल्ये क्षौद्रसंयुक्तश्चूर्णो वैशद्यकारकः।पलाशसर्जजम्बूत्वक्समङ्गामोचधातकीः॥ १२२ ॥

च. चि. ३०/१२३

सपिच्छिलापरिक्लिन्नास्तम्भनः कल्क इष्यते।स्तब्धानां कर्कशानां च कार्यं मार्दवकारकम्॥ १२३ ॥

च. चि. ३०/१२४

धारयेद्वेशवारं वा पायसं कृशरां तथा।दुर्गन्धानां कषायः स्यात्तौवरः कल्क एव वा॥ १२४ ॥

च. चि. ३०/१२५

चूर्णं वा सर्वगन्धानां पूतिगन्धापकर्षणम्।एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः॥ १२५ ॥

च. चि. ३०/१२६

अदुष्टे प्राकृते बीजे जीवोपक्रमणे सति।पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम्॥ १२६ ॥

च. चि. ३०/१२७

परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत्।भवन्ति चात्र- सलिङ्गा व्यापदो योनेः सनिदानचिकित्सिताः॥ १२७ ॥

च. चि. ३०/१२८

उक्ता विस्तरतः सम्यङ्गुनिना तत्त्वदर्शिना।पुनरेवाग्निवेशस्तु पप्रच्छ भिषजां वरम्॥ १२८ ॥

च. चि. ३०/१२९

आत्रेयमुपसङ्गम्य शुक्रदोषास्त्वयाऽनघ!।रोगाध्याये समुद्दिष्टा ह्यष्टौ पुंसामशेषतः॥ १२९ ॥

च. चि. ३०/१३०

तेषां हेतुं भिषक्श्रेष्ठ! दुष्टादुष्टस्य चाकृतिम्।चिकित्सितं च कार्त्स्न्योन क्लैब्यं यच्च चतुर्विधम्॥ १३० ॥

च. चि. ३०/१३१

उपद्रवेषु योनीनां प्रदरो यश्च कीर्तितः।तेषां निदानं लिङ्गं च चिकित्सां चैव तत्त्वतः॥ १३१ ॥

च. चि. ३०/१३२

समासव्यासमेदेन प्रब्रूहि भिषजांवर!।तस्मै शुश्रूषमाणाय प्रोवाच मुनिपुङ्गवः॥ १३२ ॥

च. चि. ३०/१३३

बीजं यस्माद्व्यवाये तु हर्षयोनिसमुत्थितम्।शुक्रं पौरुषमित्युक्तं तस्माद्वक्ष्यामि तच्छृणु॥ १३३ ॥

च. चि. ३०/१३४

यथा बीजमकालाम्बुकृमिकीटाग्निदूषितम्।न विरोहति संदुष्टं तथा शुक्रं शरीरिणाम्॥ १३४ ॥

च. चि. ३०/१३५

अतिव्यवायद्व्यायामादसात्म्यानां च सेवनात्।अकाले वाऽप्ययोनौ वा मैथुनं न च गच्छतः॥ १३५ ॥

च. चि. ३०/१३६

रूक्षतिक्तकषायातिलवणाम्लोष्णसेवनात्।नारीणामरसज्ञानां गमनाज्जरया तथा॥ १३६ ॥

च. चि. ३०/१३७

चिन्ताशोकादविस्रम्भाच्छस्त्रक्षारग्निविभ्रमात्।भयात्क्रोधादभीचाराद्व्याधिभिः कर्शितस्य च॥ १३७ ॥

च. चि. ३०/१३८

वेगाघातात् क्षताच्चापि धातूनां संप्रदूषणात्।दोषाः पृथक् समस्ता वा प्राप्य रेतोवहाः सिराः॥ १३८ ॥

च. चि. ३०/१३९

शुक्रं स्ंदूषयन्त्याशु तद्वक्ष्यामि विभागशः।फेनिलं तनु रूक्षं च विवर्णं पूति पिच्छिलम्॥ १३९ ॥

च. चि. ३०/१४०

अन्यधातूपसंसृष्टमवसादि तथाऽष्टमम्।फेनिलं तनु रूक्षं च कृच्छ्रेणाल्पं च मारुतात्॥ १४० ॥

च. चि. ३०/१४१

भवत्युपहतं शुक्रं न तद्गर्भाय कल्पते।सनीलमथवा पीतमत्युष्णं पूतिगन्धि च॥ १४१ ॥

च. चि. ३०/१४२

दहल्लिङ्गं विनिर्याति शुक्रं पित्तेन दूषितम्।श्लेष्मणा बद्धमार्गं तु भवत्यत्यर्थपिच्छिलम्॥ १४२ ॥

च. चि. ३०/१४३

स्त्रीणामत्यर्थगमनादभिघातात् क्षतादपि।शुक्रं प्रवर्तते जन्तोः प्रायेण रुधिरान्वयम्॥ १४३ ॥

च. चि. ३०/१४४

वेगसंधारणाच्छुक्रं वायुना विहतं पथि।कृच्छ्रेण याति ग्रथितमवसादि तथाऽऽष्टमम्॥ १४४ ॥

च. चि. ३०/१४५

इति दोषाः समाख्याताः शुक्रस्याष्टौ सलक्षणाः।स्निग्धं घनं पिच्छिलं च मधुरं चाविदाहि च॥ १४५ ॥

च. चि. ३०/१४६

रेतः शुद्धं विजानीयाच्छ्वेतं स्फटिकसन्निभम्।वाजीकरणयोगैस्तैरुपयोगसुखैर्हितैः॥ १४६ ॥

च. चि. ३०/१४७

रक्तपित्तहरैर्योगैर्योनिव्यापदिकैस् तथा।दुष्टं यदा भवेच्छुक्रं तदा तत् समुपाचरेत्॥ १४७ ॥

च. चि. ३०/१४८

घृतं च जीवनीयं यच्च्यवनप्राश एव च।गिरिजस्य प्रयोगश्च रेतोदोषानपोहति॥ १४८ ॥

च. चि. ३०/१४९

वातान्विते हिताः शुक्रे निरूहाः सानुवासनाः।अभयामलकीयं च पैत्ते शस्तं रसायनम्॥ १४९ ॥

च. चि. ३०/१५०

मागध्यमृतलोहानां त्रिफलाया रसायनम्।कफोत्थितं शुक्रदोषं हन्याद्भल्लातकस्य च॥ १५० ॥

च. चि. ३०/१५१

यदन्यधातुसंसृष्टां शुक्रं तद्वीक्ष्य युक्तितः।यथादोषां प्रयुञ्जीत दोषधातुभिषग्जितम्॥ १५१ ॥

च. चि. ३०/१५२

सर्पिः पयो रसाः शालिर्यवगोधूमषष्टिकाः।प्रशस्ताः शुक्रदोषेषु बस्तिकर्म विशेषतः॥ १५२ ॥

च. चि. ३०/१५३

इत्यष्टशुक्रदोषाणां मुनिनोक्तं चिकित्सितम्।रेतोदोषोद्भवं क्लैब्यं यस्माच्छुद्ध्यैव सिध्यति॥ १५३ ॥

च. चि. ३०/१५४

ततो वक्ष्यामि ते सम्यगग्निवेश! यथातथम्।बीजध्वजोपघाताभ्यां जरया शुक्रसंक्षयात्॥ १५४ ॥

च. चि. ३०/१५५

क्लैब्यं संपद्यते तस्य शृणु सामान्यलक्षणम्।सङ्कल्पप्रवणो नित्यं प्रियां वश्यामपि स्त्रियम्॥ १५५ ॥

च. चि. ३०/१५६

न याति लिङ्गशैत्थिल्यात् कदाचिद्याति वा यदि।श्वासार्तः स्विन्नगात्रश्च मोघसङ्कल्पचेष्टितः॥ १५६ ॥

च. चि. ३०/१५७

म्लानशिश्नश्च निर्बीजः स्यादेतत् क्लैब्यलक्षणम्।सामान्यलक्षणं ह्येतद्विस्तरेण प्रवक्ष्यते॥ १५७ ॥

च. चि. ३०/१५८

शीतरूक्षाल्पसंक्लिष्टविरुद्धाजीर्णभोजनात्।शोकचिन्ताभयत्रासात् स्त्रीणां चात्यर्थसेवनात्॥ १५८ ॥

च. चि. ३०/१५९

अभिचारादविस्रम्भाद्रसादीनां च संक्षयात्।वातादीनां च वैषम्यात्तथैवानशनाच्छ्रमात्॥ १५९ ॥

च. चि. ३०/१६०

नारीणामरसज्ञत्वात् पञ्चकर्मापचारतः।बीजोपघाताद्भवति पाण्डुवर्णः सुदुर्बलः॥ १६० ॥

च. चि. ३०/१६१

अल्पप्राणोऽल्पहर्षश्च प्रमदासु भवेन्नरः।हृत्पाण्डुरोगतमककामलाश्रमपीडितः॥ १६१ ॥

च. चि. ३०/१६२

छर्द्यतीसारशूलार्तः कासज्वरनिपीडितः।वीजोपघातजं क्लैब्यं ध्वजभङ्गकृतं शृणु॥ १६२ ॥

च. चि. ३०/१६३

अत्यम्ललवणक्षारविरुद्धासात्म्यभोजनात्।अत्यम्बुपानाद्विषमात् पिष्टान्नगुरुभोजनात्॥ १६३ ॥

च. चि. ३०/१६४

दधिक्षीरानूपमांससेवनाध्याधिकर्षणात्।कन्यानां चैव गमनादयोनिगमनादपि॥ १६४ ॥

च. चि. ३०/१६५

दीर्घरोगां चिरोत्सृष्टां तथैव च रजस्वलाम्।दुर्गन्धां दुष्टयोनिं च तथैव च परिस्रुताम्॥ १६५ ॥

च. चि. ३०/१६६

ईदृशीं प्रमदां मोहाद्यो गच्छेत् कामहर्षितः।चतुष्पदाभिगमनाच्छेफसश्चाभिघाततः॥ १६६ ॥

च. चि. ३०/१६७

अधावनाद्वा मेढ्रस्य शस्त्रदन्तमखक्षतात्।काष्ठप्रहारनिष्पेषाच्छूकानां चातिसेवनात्॥ १६७ ॥

च. चि. ३०/१६८

रेतसश्च प्रतीघाताद्ध्वजभङ्गः प्रवर्तते।(भवन्ति यानि रूपाणि तस्य वक्ष्याम्यतः परम्।) श्वयथुर्वेदना मेढ्रे रागश्चैवोपलक्ष्यते॥ १६८ ॥

च. चि. ३०/१६९

स्फोटाश्च तीव्रा जायन्ते लिङ्गपाको भवत्यपि।मांसवृद्धिर्भवेच्चास्य व्रणाः क्षिप्रं भवन्त्यपि॥ १६९ ॥

च. चि. ३०/१७०

पुलाकोदकसङ्काशः स्रावः श्यावारुणप्रभः।वलयीकुरुते चापि कठिनश्च परिग्रहः॥ १७० ॥

च. चि. ३०/१७१

ज्वरस्तृष्णा भ्रमो मूर्च्छा च्छर्दिश्चास्योपजायते।रक्तं कृष्णं स्रवेच्चापि नीलमाविललोहितम्॥ १७१ ॥

च. चि. ३०/१७२

अग्निनेव च दग्धस्य तीव्रो दाहः सवेदनः।बस्तौ वृषणयोर्वाऽपि सीवन्यां वङ्क्षणेषु च॥ १७२ ॥

च. चि. ३०/१७३

कदाचित्पिच्छिलो वाऽपि पाण्डुः स्रावश्च जायते।श्वयथुर्जायते मन्दः स्तिमितोऽल्पपरिस्रवः॥ १७३ ॥

च. चि. ३०/१७४

चिराच्च पाकं व्रजति शूघ्रं वाऽथ प्रमुच्यते।जायन्ते क्रिमयश्चापि क्लिद्यते पूतिगन्धि च॥ १७४ ॥

च. चि. ३०/१७५

चिशीर्यते मणिश्चास्य मेढ्रं मुष्कावथापि च।ध्वजभङ्गकृतं क्लैब्यमित्येतत् समुदाहृतम्॥ १७५ ॥

च. चि. ३०/१७६

एतं पञ्चविधं देचिद्ध्वजभङ्गं प्रचक्षते।क्लैब्यं जरासंभवं हि प्रवक्ष्याम्यथ तच्छृणु॥ १७६ ॥

च. चि. ३०/१७७

जघन्यमध्यप्रवरं वयस्त्रिविधमुच्यते।अतिप्रवयसां शुक्रं प्रायशः क्षीयते नृणाम्॥ १७७ ॥

च. चि. ३०/१७८

रसादीनां संक्षयाच्च तथैवावृष्यसेवनात्।बलवीर्येन्दिर्याणां च क्रमेणैव परिक्षयात्॥ १७८ ॥

च. चि. ३०/१७९

परिक्षयादायुषश्चाप्यनाहाराच्छ्रमात् क्लमात्।जरासंभवजं क्लैब्यमित्येतैर्हेतुभिर्नृणाम्॥ १७९ ॥

च. चि. ३०/१८०

जायते तेन सोऽत्यर्ह्तं क्षीणधातुः सुदुर्बलः।विवर्णो दुर्बलो दीनः क्षिप्रं व्याधिमथाश्नुते॥ १८० ॥

च. चि. ३०/१८१

एतज्जरासंभवं हि चतुर्थं क्षयजं शृणु।अतीव चिन्तनाच्चैव शोकात्क्रोधाद्भयात्तथा॥ १८१ ॥

च. चि. ३०/१८२

ईर्ष्योत्कण्ठामदोद्वेगान् सदा विशति यो नरः।कृशो वा सेवते रूक्षमन्नपानं तथौषधम्॥ १८२ ॥

च. चि. ३०/१८३

दुर्बलप्रकृतिश्चैव निराहारो भवेद्यदि।असात्म्यभोजनाच्चापि हृदये यो व्यवस्थितः॥ १८३ ॥

च. चि. ३०/१८४

रसः प्रधानधातुर्हि क्षीयेताशु ततो मृणाम्।रक्तादयश्च क्षीयन्ते धातवस्तस्य देहिनः॥ १८४ ॥

च. चि. ३०/१८५

शुक्रावसानास्तेभ्योऽपि शुक्रं धाम परं मतम्।चेतसो वाऽतिहर्षेण व्यवायं सेवतेऽति यः॥ १८५ ॥

च. चि. ३०/१८६

तस्याशु क्षीयते शुक्रं ततः प्राप्नोति संक्षयम्।घोरं व्याधिमवाप्नोति मरणं वा स गच्छति॥ १८६ ॥

च. चि. ३०/१८७

शुक्रं तस्माद्विशेषेण रक्ष्यमारोग्यमिच्छता।एवं निदानलिङ्गाभ्यामुक्तं क्लैब्यं चतुर्विधम्॥ १८७ ॥

च. चि. ३०/१८८

केचित् क्लैब्ये त्वसाध्ये द्वे ध्वजभङ्गक्षयोद्भवे।वदन्ति शेफसश्छेदाद्वृषणोत्पाटनेन च॥ १८८ ॥

च. चि. ३०/१८९

मातापित्रोर्बीजदोषादशुभैश्चाकृतात्मनः।गर्भस्थस्य यदा दोषाः प्राप्य रेतोवहाः सिराः॥ १८९ ॥

च. चि. ३०/१९०

शोषयन्त्याशु तन्नाशाद्रेतश्चाप्युपहन्यते।तत्र संपूर्णसर्वाङ्गः स भवत्यपुमान् पुमान्॥ १९० ॥

च. चि. ३०/१९१

एते त्वसाध्या व्याख्याताः सन्निपातसमुच्छ्रयात्।चिकित्सितमतस्तूर्ध्वं समासव्यासतः शृणु॥ १९१ ॥

च. चि. ३०/१९२

शुक्रदोषेषु निर्दिष्टं भेषजं यन्मयाऽनघ!।क्लैब्योपशान्तये कुर्यात् क्षीणक्षतहितं च यत्॥ १९२ ॥

च. चि. ३०/१९३

बस्तयः क्षीरसर्पींषि वृष्ययोगाश्च ये मताः।रसायनप्रयोगाश्च सर्वानेतान् प्रयोजयेत्॥ १९३ ॥

च. चि. ३०/१९४

समीक्ष्य देहदोषाग्निबलं भेषजकालवित्।व्यवायहेतुजे क्लैब्ये तथा धातुविपर्ययात्॥ १९४ ॥

च. चि. ३०/१९५

दैवव्यपाश्रयं चैव भेषजं चाभिचारजे।समासेनैतदुद्दिष्टं भेषजं क्लैब्यशान्तये॥ १९५ ॥

च. चि. ३०/१९६

विस्तरेण प्रवक्ष्यामि क्लैब्यानां भेषजं पुनः।सुस्विन्नस्निग्धगात्रस्य स्नेहयुक्तं विरेचनम्॥ १९६ ॥

च. चि. ३०/१९७

अन्नाशनं ततः कुर्यादथवाऽऽस्थापनं पुनः।प्रदद्यान्मतिमान् वैद्यस्ततस्तमनुवासयेत्॥ १९७ ॥

च. चि. ३०/१९८

पलाशैरण्डमुस्ताद्यैः पश्चादास्थापयेत्ततः।वाजीकरणयोगाश्च पूर्वं ये समुदाहृताः॥ १९८ ॥

च. चि. ३०/१९९

भिषजा ते प्रयोज्याः स्युः क्लैब्ये बीजोपघातजे।ध्वजभङ्गकृतं क्लैब्यं ज्ञात्वा तस्याचरेत् क्रियाम्॥ १९९ ॥

च. चि. ३०/२००

प्रदेहान् परिषेकांश्च कुर्याद्वा रक्तमोक्षणम्।स्नेहपानं च कुर्वीत सस्नेहं च विरेचनम्॥ २०० ॥

च. चि. ३०/२०१

अनुवासं ततः कुर्यादथवाऽऽस्थापनं पुनः।व्रणवच्च क्रियाः सर्वास्तत्र कुर्याद्विचक्षणः॥ २०१ ॥

च. चि. ३०/२०२

जरासंभवजे क्लैब्ये क्षयजे चैव कारयेत्।स्नेहस्वेदोपपन्नस्य सस्नेहं शोधनं हितम्॥ २०२ ॥

च. चि. ३०/२०३

क्षीरसर्पिर्वृष्ययोगा बस्तयश्चैव यापनाः।रसायनप्रयोगाश्च तयोर्भेषजमुच्यते॥ २०३ ॥

च. चि. ३०/२०४

विस्तरेणैतदुद्दिष्टं क्लैब्यानां भेषजं मया।यः पूर्वमुक्तः प्रदरः शृणु हेत्वादिभिस्तु तम्॥ २०४ ॥

च. चि. ३०/२०५

याऽत्यर्थं सेवते नारी लवणाम्लगुरूणि च।कटून्यथ विदाहीनि स्निग्धानि पिशितानि च॥ २०५ ॥

च. चि. ३०/२०६

ग्राम्यौदकानि मेद्यानि कृशरां पायसं दधि।शुक्रमस्तुसुरादीनि भजन्त्याः कुपितोऽनिलः॥ २०६ ॥

च. चि. ३०/२०७

रक्तं प्रमाणमुत्क्रम्य गर्भाशयगताः सिराः।रजोवहाः समाश्रित्य रक्तमादाय तद्रजः॥ २०७ ॥

च. चि. ३०/२०८

यस्माद्विवर्धयत्याशु रसभावाद्विमानता।तस्मादसृग्दरं प्राहुरेतत्तन्त्रविशारदाः॥ २०८ ॥

च. चि. ३०/२०९

रजः प्रदीर्यते यस्मात् प्रदरस्तेन स स्मृतः।सामान्यतः समुद्दिष्टं कारणं लिङ्गमेव च॥ २०९ ॥

च. चि. ३०/२१०

चतुर्विधं व्यासतस्तु वाताद्यैः सन्निपाततः।अतःपरं प्रवक्ष्यामि हेत्वाकृतिभिषग्जितम्॥ २१० ॥

च. चि. ३०/२११

रूक्षादिभिर्मारुतस्तु रक्तमादाय पूर्ववत्।कुपितः प्रदरं कुर्याल्लक्षणं तस्य मे शृणु॥ २११ ॥

च. चि. ३०/२१२

फेनिलं तनु रूक्षं च श्यावं चारुणमेव च।किंशुकोदकसङ्काशं सरुजं वाऽथ नीरुजम्॥ २१२ ॥

च. चि. ३०/२१३

कटिवङ्क्षणहृत्पार्श्वपृष्ठश्रोणिषु मारुतः।कुरुते वेदनां तीव्रामेतद्वातात्मकं विदुः॥ २१३ ॥

च. चि. ३०/२१४

अम्लोष्णलवणक्षारैः पित्तं प्रकुपितं यदा।पूर्ववत् प्रदरं कुर्यात् पैत्तिकं लिङ्गतः शृणु॥ २१४ ॥

च. चि. ३०/२१५

सनीलमथवा पीतमत्युष्णमसितं तथा।नितान्तरक्तं स्रवति मुहुर्मुहुरथार्तिमत्॥ २१५ ॥

च. चि. ३०/२१६

दाहरागतृषामोहज्वरभ्रमसमायुतम्।असृग्दरं पैत्तिकं स्याच्छ्लैब्मिकं तु प्रवक्ष्यते॥ २१६ ॥

च. चि. ३०/२१७

गुर्वादिभिर्हेतुभिश्च पूर्ववत् कुपितः कफः।प्रदरं कुरुते तस्य लक्षणं तत्त्वतः शृणु॥ २१७ ॥

च. चि. ३०/२१८

पिच्छिलं पाण्डुवर्णं चगुरु स्निग्धं च शीतलम्।स्रवत्यसृक् श्लेष्मलं च घनं मन्दरुजाकरम्॥ २१८ ॥

च. चि. ३०/२१९

छर्द्यरोचकहृल्लासश्वासकाससमन्वितम्।(वक्ष्यते क्षीरदोषाणां सामान्यमिह कारणम्॥ २१९ ॥

च. चि. ३०/२२०

यत्तदेव त्रिदोषस्य कारणं प्रदरस्य तु।) त्रिलिङ्गसंयुतं विद्यान्नैकावस्थमसृग्दरम्॥ २२० ॥

च. चि. ३०/२२१

नारी त्वतिपरिक्लिष्टा यदा प्रक्षीणशोणिता।सर्वहेतुसमाचारादतिवृद्धस्तदाऽनिलः॥ २२१ ॥

च. चि. ३०/२२२

रक्तमार्गेण सृजति प्रत्यनीकबलं कफम्।दुर्गन्धं पिच्छिलं पीतं विदग्धं पित्ततेजसा॥ २२२ ॥

च. चि. ३०/२२३

वसां मेदश्च यावद्धि समुपादाय वेगवान्।सृजत्यपत्यमार्गेण सर्पिर्मज्जवसोपमम्॥ २२३ ॥

च. चि. ३०/२२४

शश्वत् स्रवत्यथास्रावं तृष्णादाहज्वरान्विताम्।क्षीणरक्तां दुर्बलां स तामसाध्यां विवर्जयेत्॥ २२४ ॥

च. चि. ३०/२२५

मासान्निष्पिच्छदाहार्ति पञ्चरात्रानुबन्धि च।नैवातिबहु नात्यल्पमार्तवं शुद्धमादिशेत्॥ २२५ ॥

च. चि. ३०/२२६

गुञ्जाफलसवर्णं च पद्मालक्तकसन्निभम्।इन्द्रगोपकसङ्काशमार्तवं शुद्धमादिशेत्॥ २२६ ॥

च. चि. ३०/२२७

योनीनां वातलाद्यानां यदुक्तमिह भेषजम्।चतुर्णां प्रदराणां च तत् सर्वं कारयेद्भिषक्॥ २२७ ॥

च. चि. ३०/२२८

रक्ततिसारिणां यच्च तथा शोणितपित्तिनाम्।रक्तार्शसां च यत् प्रोक्तं भेषजं तच्च कारयेत्॥ २२८ ॥

च. चि. ३०/२२९

धात्रीस्तनस्तन्यसंपदुक्ता विस्तरतः पुरा।स्तन्यसंजननं चैव स्तन्यस्य च विशोधनम्॥ २२९ ॥

च. चि. ३०/२३०

वातादिदुष्टे लिङ्गं च क्षीणस्य च चिकित्सितम्।तत्सर्वमुक्तं ये त्वष्टौ क्षीरदोषाः प्रकीर्तिताः॥ २३० ॥

च. चि. ३०/२३१

वातादिष्वेव तान् विद्याच्छास्त्रचक्षुर्भिषक्तमः।त्रिविधास्तु यतः शिष्यास्ततो वक्ष्यामि विस्तरम्॥ २३१ ॥

च. चि. ३०/२३२

अजीर्णासात्म्यविषमविरुद्धात्यर्थभोजनात्।लवणाम्लकटुक्षारप्रक्लिन्नानां च सेवनात्॥ २३२ ॥

च. चि. ३०/२३३

मनःशरीरसंतापादस्वप्नान्निशि चिन्तनात्।प्राप्तवेगप्रतीघातादप्राप्तोदीरणेन च॥ २३३ ॥

च. चि. ३०/२३४

परमान्नं गुडकृतं कृशरां दधि मन्दकम्।अभिष्यन्दीनि मांसानि ग्राम्यानूपौदकानि च॥ २३४ ॥

च. चि. ३०/२३५

भुक्त्वा भुक्त्वा दिवास्वप्नान्मद्यस्यातिनिषेवणात्।अनायासादभीघातात् क्रोधाच्चातङ्ककर्शनैः॥ २३५ ॥

च. चि. ३०/२३६

दोषाः क्षीरवहाः प्राप्य सिराः स्तन्यं प्रदूष्य च।कुर्युरष्टविधं भूयो दोषतस्तन्निबोध मे॥ २३६ ॥

च. चि. ३०/२३७

वैरस्यं फेनसङ्घातो रौक्ष्यं चेत्यनिलात्मके।पित्ताद्वैवर्ण्यदौर्गन्ध्ये स्नेहपैच्छिल्यगौरवम्॥ २३७ ॥

च. चि. ३०/२३८

कफाद्भवति रूक्षाद्यैरनिलः स्वैः प्रकोपणैः।क्रुद्धः क्षीराशयं प्राप्य रसं स्तन्यस्य दूषयेत्॥ २३८ ॥

च. चि. ३०/२३९

विरसं वातसंसृष्टं कृशीभवति तत् पिबन्।न चास्य स्वदते क्षीरं कृच्छ्रेण च विवर्धते॥ २३९ ॥

च. चि. ३०/२४०

तथैव वायुः कुपितः स्तन्यमन्तर्विलोडयन्।करोति फेनसङ्घातं तत्तु कृच्छ्रात् प्रवर्तते॥ २४० ॥

च. चि. ३०/२४१

तेन क्षामस्वरो बालो बद्धविण्मूत्रमारुतः।वातिकं शीर्षरोगं वा पीनसं वाऽधिगच्छति॥ २४१ ॥

च. चि. ३०/२४२

पूर्ववत् कुपितः स्तन्ये स्नेहं शोषयतेऽनिलः।रूक्षं तत् पिबतो रौक्ष्याद्बलह्रासः प्रजायते॥ २४२ ॥

च. चि. ३०/२४३

पित्तमुष्णादिभिः क्रुद्धं स्तन्याशयमभिप्लुतम्।करोति स्तन्यवैवर्ण्यं नीलपीतासितादिकम्॥ २४३ ॥

च. चि. ३०/२४४

विवर्णगात्रः स्विन्नः स्यात्तृष्णालुर्भिन्नविट् शिशुः।नित्यमुष्णशरीरश्च नाभिनन्दति तं स्तनम्॥ २४४ ॥

च. चि. ३०/२४५

पूर्ववत् कुपिते पित्ते दौर्गन्ध्यं क्षीरमृच्छति।पाण्ड्वामयस्तत्पिबतः कामला च भवेच्छिशोः॥ २४५ ॥

च. चि. ३०/२४६

क्रुद्धो गुर्वादिभिः श्लेष्मा क्षीराशयगतः स्त्रियाः।स्नेहान्वितत्वात्तत्क्षीरमतिस्निग्धं करोति तु॥ २४६ ॥

च. चि. ३०/२४७

छर्दनः कुन्थनस्तेन लालालुर्जायते शिशुः।नित्योपदिग्धैः स्रोतोभिर्निद्राक्लमसमन्वितः॥ २४७ ॥

च. चि. ३०/२४८

श्वासकासपरीतस्तु प्रसेकतमकान्वितः।अभिभूय कफः स्तन्यं पिच्छिलं कुरुते यदा॥ २४८ ॥

च. चि. ३०/२४९

लालालुः शूनवक्त्राक्षिर्जडः स्यात्तत् पिबञ्छिशुः।कफः क्षीराशयगतो गुरुत्वात् क्षीरगौरवम्॥ २४९ ॥

च. चि. ३०/२५०

करोति गुरु तत् पीत्वा बालो हृद्रोगमृच्छति।अन्यांश्च विविधान्रोगान्कुर्यात्क्षीरसमाश्रितान्॥ २५० ॥

च. चि. ३०/२५१

क्षीरे वातादिभिर्दुष्टे संभवन्ति तदात्मकाः।तत्रादौ स्तन्यशुद्ध्यर्थं धात्रीं स्नेहोपपादिताम्॥ २५१ ॥

च. चि. ३०/२५२

संस्वेद्य विधिवद्वैद्यो वमनेनोपपादयेत्।वचाप्रियङ्गुयष्ट्याह्वफलवत्सकसर्षपैः॥ २५२ ॥

च. चि. ३०/२५३

कल्कैर्निम्बपटोलानां क्वाथैः सलवणैर्वमेत्।सम्यग्वान्तां यथान्यायं कृतसंसर्जनां ततः॥ २५३ ॥

च. चि. ३०/२५४

दोषकालबलापेक्षी स्नेहयित्वा विरेचयेत्।त्रिवृतामभयां वाऽपि त्रिफलारससंयुताम्॥ २५४ ॥

च. चि. ३०/२५५

पाययेन्मधुसंयुक्तामभयां वाऽपि केवलाम्।(पाययेन्मूत्रसंयुक्तां विरेकार्थं च शास्त्रवित्॥)

च. चि. ३०/२५६

सम्यग्विरिक्तां मतिमान् कृतसंसर्जनां पुनः।ततो दोषावशेषघ्नैरन्नपानैरुपाचरेत्॥ २५६ ॥

च. चि. ३०/२५७

शालयः षष्टिका वा स्युः श्यामाका भोजने हिताः।प्रियङ्गवः कोरदूषा यवा वेणुयवास्तथा॥ २५७ ॥

च. चि. ३०/२५८

वंशवेत्रकलायाश्च शाकार्थे स्नेहसंस्कृताः।मुद्गान् मसूरान् यूषार्थे कुलत्थांश्च प्रकल्पयेत्॥ २५८ ॥

च. चि. ३०/२५९

निम्बवेत्राग्रकुलकवार्ताकामलकैः शृतान्।सव्योषसैन्धवान् यूषान्दापयेत्स्तन्यशोधनान्॥ २५९ ॥

च. चि. ३०/२६०

शशान् कपिञ्जिलानेणान् संस्कृतांश्च प्रदापयेत्।शार्ङ्गेष्टासप्तपर्णत्वगश्वगन्धाशृतं जलम्॥ २६० ॥

च. चि. ३०/२६१

पाययेताथवा स्तन्यशुद्धये रोहिणीशृतम्।अमृतासप्तपर्णत्वक्क्वाथं चैव सनागरम्॥ २६१ ॥

च. चि. ३०/२६२

किराततिक्तकक्वाथं श्लोकपादेरितान् पिबेत्।त्रीनेतान्स्तन्यशुद्ध्यर्थमिति सामान्यभेषजम्॥ २६२ ॥

च. चि. ३०/२६३

कीर्तितं स्तन्यदोषाणां पृथगन्यं निबोधत।पाययेद्विरसक्षीरां द्राक्षामधुकसारिवाः॥ २६३ ॥

च. चि. ३०/२६४

श्लक्ष्णपिष्टां पयस्यां च समालोड्य सुखाम्बुना।पञ्चकोलकुलत्थैश्च पिष्टैरालेपयेत् स्तनौ॥ २६४ ॥

च. चि. ३०/२६५

शुष्कौ प्रक्षाल्य निर्दुह्यात्तथा स्तन्यं विशुध्यति।फेनसङ्घातवत्क्षीरं यस्यास्तां पाययेत् स्त्रियम्॥ २६५ ॥

च. चि. ३०/२६६

पाठानागरशार्ङ्गेष्टामूर्वाः पिष्ट्वा सुखाम्बुना।अञ्जनं नागरं दारु बिल्वमूलं प्रियङ्गवः॥ २६६ ॥

च. चि. ३०/२६७

स्तनयोः पूर्ववत् कार्यं लेपनं क्षीरशोधनम्।किराततिक्तकं शुण्ठीं सामृतां क्वाथयेद्भिषक्॥ २६७ ॥

च. चि. ३०/२६८

तं क्वाथं पाययेद्धात्रीं स्तन्यदोषनिबर्हणम्।स्तनौ चालेपयेत् पिष्टैर्यवगोधूमसर्षपैः॥ २६८ ॥

च. चि. ३०/२६९

षड्विरेकाश्रितीयोक्तैरौषधैः स्तन्यशोधनैः।रूक्षक्षीरा पिबेत् क्षीरं तैर्वा सिद्धं घृतं पिबेत्॥ २६९ ॥

च. चि. ३०/२७०

पूर्ववज्जीवकाद्यं च पञ्चमूलं प्रलेपनम्।स्तनयोः संविधातव्यं सुखोष्णं स्तन्यशोधनम्॥ २७० ॥

च. चि. ३०/२७१

यष्टीमधुकमृद्वीकापयस्यासिन्धुवारिकाः।शीताम्बुना पिबेत्कल्कं क्षीरवैवर्ण्यनाशनम्॥ २७१ ॥

च. चि. ३०/२७२

द्राक्षामधुककल्केन स्तनौ चास्याः प्रलेपयेत्।प्रक्षाल्य वारिणा चैव निर्दुह्यात्तौ पुनः पुनः॥ २७२ ॥

च. चि. ३०/२७३

विषाणिकाजशृङ्ग्यौ च त्रिफलां रजनीं वचाम्।पिबेच्छीताम्बुना पिष्ट्वा क्षीरदौर्गन्ध्यनाशिनीम्॥ २७३ ॥

च. चि. ३०/२७४

लिह्याद्वाऽप्यभयाचूर्णं सव्योषं माक्षिकप्लुतम्।क्षीरदौर्गन्ध्यनाशार्थं धात्री पथ्याशिनी तथा॥ २७४ ॥

च. चि. ३०/२७५

सारिवोशीरमञ्जिष्ठाश्लेष्मातककुचन्दनैः।पत्राम्बुचन्दनोशीरैः स्तनौ चास्याः प्रलेपयेत्॥ २७५ ॥

च. चि. ३०/२७६

स्निग्धक्षीरा दारुमुस्तपाठाः पिष्ट्वा सुखाम्बुना।पीत्वा ससैन्धवाः क्षिप्रं क्षीरशुद्धिमवाप्नुयात्॥ २७६ ॥

च. चि. ३०/२७७

पाययेत् पिच्छिलक्षीरां शार्ङ्गेष्टामभयां वचाम्।मुस्तनागरपाठाश्च पीताः स्तन्यविशोधनाः॥ २७७ ॥

च. चि. ३०/२७८

तक्रारिष्टं पिबेच्चापि यदुक्तं गुदजापहम्।विदारीबिल्वमधुकैः स्तनौ चास्याः प्रलेपयेत्॥ २७८ ॥

च. चि. ३०/२७९

त्रायमाणामृतानिम्बपटोलत्रिफलाशृतम्।गुरुक्षीरा पिबेदाशु स्तन्यदोषविशुद्धये॥ २७९ ॥

च. चि. ३०/२८०

पिबेद्वा पिप्पलीमूलचव्यचित्रकनागरम्।बलानागरशार्ङ्गेष्टामूर्वाभिर्लेपयेत् स्तनौ॥ २८० ॥

च. चि. ३०/२८१

पृश्निपर्णी पयस्याभ्यां स्तनौ चास्याः प्रलेपयेत्।अष्टावेते क्षीरदोषा हेतुलक्षणभेषजैः॥ २८१ ॥

च. चि. ३०/२८२

निर्दिष्टाः क्षीरदोषोत्थास्तथोक्ताः केचिदामयाः।दोषदूष्यमलाश्चैव महतां व्याधयश्च ये॥ २८२ ॥

च. चि. ३०/२८३

त एव सर्वे बालानां मात्रा त्वल्पतरा मता।निवृत्तिर्वमनादीनां मृदुत्वं परतन्त्रताम्॥ २८३ ॥

च. चि. ३०/२८४

वाक्चेष्टयोरसामर्थ्यं वीक्ष्य बालेषु शास्त्रवित्।भेषजं स्वल्पमात्रं तु यथाव्याधि प्रयोजयेत्॥ २८४ ॥

च. चि. ३०/२८५

मधुराणि कषायाणि क्षीरवन्ति मृदूनि च।प्रयोजयेद्भिषग्बाले मतिमानप्रमादतः॥ २८५ ॥

च. चि. ३०/२८६

अत्यर्ह्तस्निग्धरूक्षोष्णमम्लं कटुविपाकि च।गुरु चौषधपानान्नमेतद्बालेषु गर्हितम्॥ २८६ ॥

च. चि. ३०/२८७

समासात् सर्वरोगाणामेतद्बालेषु भेषजम्।निर्दिष्टं शास्त्रविद्वैद्यः प्रविविच्य प्रयोजयेत्॥ २८७ ॥

च. चि. ३०/२८८

- । ॥ २८८ ॥

च. चि. ३०/२८९

। ॥ २८९ ॥

च. चि. ३०/२९०

। ॥ २९० ॥

च. चि. ३०/२९१

। ॥ २९१ ॥

च. चि. ३०/२९२

दोषदूष्यनिदानानां विपरीतं हितं ध्रुवम्।उक्तानुक्तान् गदान् सर्वान् सम्यग्युक्तं नियच्छति॥ २९२ ॥

च. चि. ३०/२९३

देशकालप्रमाणानां सात्म्यासात्म्यस्य चैव हि।सम्यग्योगोऽन्यथा ह्येषां पथ्यमप्यन्यथा भवेत्॥ २९३ ॥

च. चि. ३०/२९४

आस्यादामाशयस्थान् हि रोगान् नस्तःशिरोगतान्।गुदात् पक्वाशयस्थांश्च हन्त्याशु दत्तमौषधम्॥ २९४ ॥

च. चि. ३०/२९५

शरीरावयवोत्थेषु विसर्पपिडकादिषु।यथादेशं प्रदेहादि शमनं स्याद्विशेषतः॥ २९५ ॥

च. चि. ३०/२९६

दिनातुरौषधव्याधिजीर्णलिङ्गर्त्ववेक्षणम्।कालं विद्याद्दिनावेक्षः पूर्वाह्णे वनमं यथा॥ २९६ ॥

च. चि. ३०/२९७

रोग्यवेक्षो यथा प्रातर्विरन्नो बलवान् पिबेत्।भेषजं लघुपथ्यान्नैर्युक्तमद्यात्तु दुर्बलः॥ २९७ ॥

च. चि. ३०/२९८

भैषज्यकालो भुक्तादौ मध्ये पश्चान्मुहुर्मुहुः।सामुद्गं भक्तसंयुक्तं ग्रासग्रासान्तरे दश॥ २९८ ॥

च. चि. ३०/२९९

अपाने विगुणे पूर्वं, समाने मध्यम्भोजनम्।व्याने तु प्रातरशितमुदाने भोजनोत्तरम्॥ २९९ ॥

च. चि. ३०/३००

वायौ प्राणे प्रदुष्टे तु ग्रासग्रासान्तरिष्यते।श्वासकासपिपासासु त्ववचार्यं मुहुर्मुहुः॥ ३०० ॥

च. चि. ३०/३०१

सामुद्गं हिक्किने देयं लघुनाऽन्नेन संयुतम्।संभोज्यं त्वौषधं भोज्यैर्विचित्रैररुचौ हितम्॥ ३०१ ॥

च. चि. ३०/३०२

ज्वरे पेयाः कषायाश्च क्षीरं सर्पिर्विरेचनम्।षडहे षाडहे देयं कालं वीक्ष्यामयस्य च॥ ३०२ ॥

च. चि. ३०/३०३

क्षुद्वेगमोक्षौ लघुता विशुद्धिर्जीर्णलक्षणम्।तदा भेषजमादेयं स्याद्धि दोषवदन्यथा॥ ३०३ ॥

च. चि. ३०/३०४

चयादयश्च दोषाणां वर्ज्यं सेव्यं च यत्र यत्।र्ताववेक्ष्यं यत् कर्म पूर्वं सर्वमुदाहृतम्॥ ३०४ ॥

च. चि. ३०/३०५

उपक्रमाणां करणं प्रतिषेधे च कारणम्।व्याख्यातमबलानां सविकल्पानामवेक्षणे॥ ३०५ ॥

च. चि. ३०/३०६

मुहुर्मुहुश्च रोगाणामवस्थामातुरस्य च।अवेक्षमाणस्तु भिषक् चिकित्सायां न मुह्यति॥)

च. चि. ३०/३०७

इत्येवं षड्विधं कालमनवेक्ष्य भिषग्जितम्।प्रयुक्तमहिताय स्यात् सस्यस्याकालवर्षवत्॥ ३०७ ॥

च. चि. ३०/३०८

व्याधीनामृत्वहोरात्रवयसां भोजनस्य च।विशेषो भिद्यते यस्तु कालावेक्षः स उच्यते॥ ३०८ ॥

च. चि. ३०/३०९

वसन्ते श्लेष्मजा रोगाः शरत्काले तु पित्तजाः।वर्षासु वातिकाश्चैव प्रायः प्रादुर्भवन्ति हि॥ ३०९ ॥

च. चि. ३०/३१०

निशान्ते दिवसान्ते च वर्षान्ते वातजा गदाः।प्रातः क्षपादौ कफजास्तयोर्मध्ये तु पित्तजाः॥ ३१० ॥

च. चि. ३०/३११

वयोन्तमध्यप्रथमे वातपित्तकफामयाः।बलवन्तो भवन्त्येव स्वभावाद्वयसो नृणाम्॥ ३११ ॥

च. चि. ३०/३१२

जीर्णान्ते वातजा रोगा जीर्यमाणे तु पित्तजाः।श्लेष्मजा भुक्तमात्रे तु लभन्ते प्रायशो बलम्॥ ३१२ ॥

च. चि. ३०/३१३

नाल्पं हन्त्यौषधं व्याधिं यथाऽऽपोऽल्पा महानलम्।दोषवच्चातिमात्रं स्यात्सस्यस्यात्युदकं यथा॥ ३१३ ॥

च. चि. ३०/३१४

संप्रधार्य बलं तस्मादामयस्यौषधस्य च।नैवातिबहु नात्यल्पं भैषज्यमवचारयेत्॥ ३१४ ॥

च. चि. ३०/३१५

औचित्याद्यस्य यत् सात्म्यं देशस्य पुरुषस्य च।अपथ्यमपि नैकान्तात्तत्त्यजंल्लभते सुखम्॥ ३१५ ॥

च. चि. ३०/३१६

वाह्लीकाः पह्लवाश्चीनाः शूलीका यवनाः शकाः।मांसगोधूममाध्वीकशस्त्रवैश्वानरोचिताः॥ ३१६ ॥

च. चि. ३०/३१७

मत्स्यसात्म्यास्तथा प्राच्याः क्षीरसात्म्याश्च सैन्धवाः।अश्मकावन्तिकानां तु तैलाम्लं सात्म्यमुच्यते॥ ३१७ ॥

च. चि. ३०/३१८

कन्दमूलफलं सात्म्यं विद्यान्मलयवासिनाम्।सात्म्यं दक्षिणतः पेया मन्थश्चोत्तरपश्चिमे॥ ३१८ ॥

च. चि. ३०/३१९

मध्यदेशे भवेत् सात्म्यं यवगोधूमगोरसाः।तेषां तत्सात्म्ययुक्तानि भैषजान्यवचारयेत्॥ ३१९ ॥

च. चि. ३०/३२०

सात्म्यं ह्याशु बलं धत्ते नातिदोषं च बह्वपि।योगैरेव चिकित्सन् हि देशाद्यज्ञोऽपराध्यति॥ ३२० ॥

च. चि. ३०/३२१

वयोबलशरीरादिभेदा हि बहवो मताः।तथाऽन्तःसन्धिमार्गाणां दोषाणां गूढचारिणाम्॥ ३२१ ॥

च. चि. ३०/३२२

भवेत् कदाचित् कार्याऽपि विरुद्धाभिमता क्रिया।पित्तमन्तर्गतं गूढं स्वेदसेकोपनाहनैः॥ ३२२ ॥

च. चि. ३०/३२३

नीयते बहिरुष्णैर्हि तथोष्णं शमयन्ति ते।बाह्यैश्च शीतैः सेकाद्यैरूष्माऽन्तर्याति पीडितः॥ ३२३ ॥

च. चि. ३०/३२४

सोऽन्तर्गूढं कफं हन्ति शीतं शीतैस्तथा जयेत्।श्लक्ष्णपिष्टो घनो लेपश्चन्दनस्यापि दाहकृत्॥ ३२४ ॥

च. चि. ३०/३२५

त्वग्गतस्योष्मणो रोधाच्छीतकृच्चान्यथाऽगुरोः।छर्दिघ्नी मक्षिकाविष्ठा मक्षिकैव तु वामयेत्॥ ३२५ ॥

च. चि. ३०/३२६

द्रव्येषु स्विन्नजग्धेषु चैव तेष्वेव विक्रिया।तस्माद्दोषौषधादीनि परीक्ष्य दश तत्त्वतः॥ ३२६ ॥

च. चि. ३०/३२७

कुर्याच्चिकित्सितं प्राज्ञो न योगैरेव केवलम्।निवृत्तोऽपि पुनर्व्याधिः स्वल्पेनायाति हेतुना॥ ३२७ ॥

च. चि. ३०/३२८

क्षीणे मार्गीकृते देहे शेषः सूक्ष्म इवानलः।तस्मात्तमनुबध्नीयात् प्रयोगेणानपायिना॥ ३२८ ॥

च. चि. ३०/३२९

सिद्ध्यर्थं प्राक्प्रयुक्तस्य सिद्धस्याप्यौषधस्य तु।काठिन्यादूनभावाद्वा दोषोऽन्तः कुपितो महान्॥ ३२९ ॥

च. चि. ३०/३३०

पथ्यैर्मृद्वल्पतां नीतो मृदुदोषकरो भवेत्।पथ्यमप्यश्नतस्तस्माद्यो व्याधिरुपजायते॥ ३३० ॥

च. चि. ३०/३३१

ज्ञात्वैवं वृद्धिमभ्यासमथवा तस्य कारयेत्।सातत्यात्स्वाद्वभावाद्वा पथ्यं द्वेष्यत्वमागतम्॥ ३३१ ॥

च. चि. ३०/३३२

कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत् पुनः।मनसोऽर्थानुकूल्याद्धि तुष्टिरूर्जा रुचिर्बलम्॥ ३३२ ॥

च. चि. ३०/३३३

सुखोपभोगता च स्याद्व्याधेश्चातो बलक्षयः।लौल्याद्दोषक्षयाद्व्याधेर्वैधर्म्याच्चापि या रुचिः॥ ३३३ ॥

च. चि. ३०/३३४

तासु पथ्योपचारः स्याद्योगेनाद्यं विकल्पयेत्।तत्र श्लोकाः-विंशतिर्व्यापदो योनेर्निदानं लिङ्गमेव च॥ ३३४ ॥

च. चि. ३०/३३५

चिकित्सा चापि निर्दिष्टा शिष्याणां हितकाम्यया।शुक्रदोषास्तथा चाष्टौ निदानाकृतिभेषजैः॥ ३३५ ॥

च. चि. ३०/३३६

क्लैब्यान्युक्तानि चत्वारि चत्वारः प्रदरास्तथा।तेषां निदानं लिङ्गं च भैषज्यं चैव कीर्तितम्॥ ३३६ ॥

च. चि. ३०/३३७

क्षीरदोषास्तथा चाष्टौ हेतुलिङ्गभिषग्जितैः।रेतसो रजसश्चैव कीर्तितं शुद्धिलक्षणम्॥ ३३७ ॥

च. चि. ३०/३३८

उक्तानुक्तचिकित्सा च सम्यग्योगस्तथैव च।देशादिगुणशंसा च कालः षड्विध एव च॥ ३३८ ॥

च. चि. ३०/३३९

देशे देशे च यत् सात्म्यं यथा वैद्योऽपराध्यति।चिकित्सा चापि निर्दिष्टा दोषाणां गूढचारिणाम्॥ ३३९ ॥

च. चि. ३०/३४०

यो हि सम्यङ्न जानाति शास्त्रं शास्त्रार्थमेव च।न कुर्यात् स क्रियां चित्रमचक्षुरिव चित्रकृत्॥ ३४० ॥

च. चि. ३०

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने योनिव्यापच्चिकित्सितं नाम त्रिंशोऽध्यायः॥३०॥