अथातो दन्तीद्रवन्तीकल्पं व्याख्यास्यामः॥ १ ॥
अध्याय १२
दन्तीद्रवन्तीकल्पोऽध्यायः
दन्ती और द्रवन्ती के योग
इस अध्याय में (अध्याय का अपना सार, श्लोक १०६-१०७)
तत्र श्लोकौ-कल्पार्थः शोधनं संज्ञा पृथग्घेतुः प्रवर्तने।देशादीनां फलादीनां गुणा योगशतानि षट्॥
श्लोक १०६ →विकल्पहेतुर्नामानि तीक्ष्णमध्याल्पलक्षणम्।विधिश्चावस्थिको मानं स्नेहपाकश्च दर्शितः॥
श्लोक १०७ →मूल पाठ के किसी शब्द पर टैप करें - उसका अर्थ दिखेगा।
इति ह स्माह भगवानात्रेयः॥ २ ॥
दन्त्युदुम्बरपर्णी स्यान्निकुम्भोऽथ मुकूलकः।द्रवन्ती नामतश्चित्रा न्यग्रोधी मूषिकाह्वया॥(तथा मूषिकपर्णी चाप्युपचित्रा च शम्बरी।प्रत्यक्श्रेणी सुतश्रेणी दन्ती र(च)ण्डा च कीर्तिता॥)
तयोर्मूलानि संगृह्य स्थिराणि बहलानि च।हस्तिदन्तप्रकाराणि श्यावताम्राणि बुद्धिमान्॥ ४ ॥
पिप्पलीमधुलिप्तानि स्वेदयेन्मृत्कुशान्तरे।शोषायेदातपेऽग्न्यर्कौ हतो ह्येषां विकाशिताम्॥ ५ ॥
तीक्ष्णोष्णान्याशुकारीणि विकाशीनि गुरूणि च।विलाययन्ति दोषौ द्वौ मारुतं कोपयन्ति च॥ ६ ॥
दधितक्रसुरामण्डैः पिण्डमक्षसमं तयोः।प्रियालकोलबदरपीलुशीधुभिरेव च॥ ७ ॥
पिबेद्गुल्मोदरी दोषैरभिखिन्नश्च यो नरः।गोमृगाजरसैः पाण्डुः कृमिकोष्ठी भगन्दरी॥ ८ ॥
तयोः कल्के कषाये च दशमूलरसायुते।कक्ष्यालजीविसर्पेषु दाहे च विपचेद्घृतम्॥ ९ ॥
तैलं मेहे च गुल्मे च सोदावर्ते कफानिले।चतुःस्नेहं शकृच्छुक्रवातसङ्गानिलार्तिषु॥ १० ॥
रसे दन्त्यजशृङ्गयोश्च गुडक्षौद्रघृतान्वितः।लेहः सिद्धो विरेकार्थे दाहसंतापमेहनुत्॥ ११ ॥
वाततर्षे ज्वरे पैत्ते स्यात् स एवाजगन्धया।दन्तीद्रवन्त्योर्मूलानि पचेदामलकीरसे॥ १२ ॥
त्रींस्तु तस्य कषायस्य भागौ द्वौ फाणितस्य च।तप्ते सर्पिषि तैले वा भर्जयेत्तत्र चावपेत्॥ १३ ॥
कल्कं दन्तीद्रवन्त्योश्च श्यामादीनां च भागशः।तत्सिद्धं प्राशयेल्लेहं सुखं तेन विरिच्यते॥ १४ ॥
रसे च दशमूलस्य तथा बैभीतके रसे।हरीतकीरसे चैव लेहानेवं पचेत् पृथक्॥ १५ ॥
तयोर्बिल्वसमं चूर्णं तद्रसेनेव भावितम्।असृष्टे विशि वातोत्थे गुल्मे चाम्लयुतं शुभम्॥ १६ ॥
पाटयित्वेक्षुकाण्डं वा कल्केनालिप्य चान्तरा।स्वेदयित्वा ततः खादेत् सुखं तेन विरिच्यते॥ १७ ॥
मूलं दन्तीद्रवन्तोश्च सह मुद्गैर्विपाचयेत्।लाववर्तीरकाद्यैश्च ते रसाः स्युर्विरेचने॥ १८ ॥
तयोर्वाऽपि कषायेण यवागूं जाङ्गलं रसम्।माषयूषं च संस्कृत्य दद्यात्तैश्च विरिच्यते॥ १९ ॥
तत्कषायात्त्रयो भागा द्वौ सितायास्तथैव च।एको गोधूमचूर्णानां कार्या चोत्कारिका शुभा॥ २० ॥
मोदको वाऽस्य कल्पेन कार्यस्तच्च विरेचनम्।तयोश्चापि कषायेण मद्यान्यस्योपकल्पयेत्॥ २१ ॥
दन्तीक्वाथेन चालोड्य दन्तीतैलेन साधितान्।गुडलावणिकान् भक्ष्यान् विविधान् भक्षयेन्नरः॥ २२ ॥
दन्तीं द्रवन्तीं मरिचं यवानीमुपकुञ्चिकाम्।नागरं हेमदुग्धां च चित्रकं चेति चूर्णितम्॥ २३ ॥
सप्ताहं भावयेन्मूत्रे गवां पाणितलं ततः।पिबेद्घृतेन जेणे तु विरिक्तश्चापि तर्पणम्॥ २४ ॥
सर्वरोगहरं मुख्यं सर्वेष्वृतुषु यौगिकम्।चूर्णं तदनपायित्वाद्बालवृद्धेषु पूजितम्॥ २५ ॥
दुर्भक्ताजीर्णपार्श्वार्तिगुल्मप्लीहोदरेषु च।गण्डमालासु वाते च पाण्डुरोगे च शस्यते॥ २६ ॥
पलं चित्रकदन्त्योश्च हरीतक्याश्च विंशतिः।त्रिवृत्पिप्पलिकर्षौ द्वौ गुडस्याष्टपलेन तत्॥ २७ ॥
विनीय मोदकान् कुर्याद्दशैकं भक्षयेत्ततः।उष्णाम्बु च पिबेच्चानु दशमे दशमेऽह्नि च॥ २८ ॥
एते निष्परिहाराः स्युः सर्वरोगनिबर्हणाः।ग्रहणीपाण्डुरोगार्शःकण्डूकोठानिलापहाः॥ २९ ॥
दन्तीद्विपलनिर्यूहो द्राक्षार्धप्रस्थसाधितः।विरेचनं पित्तकासे पाण्डुरोगे च शस्यते॥ ३० ॥
दन्तीकल्कं समगुडं शीतवारियुतं पिबेत्।विरेचनं मुख्यतमं कामलाहरमुत्तमम्॥ ३१ ॥
श्यामादन्तीरसे गौडः पिप्पलीफलचित्रकैः।लिप्तेऽरिष्टोऽनिलश्लेष्मप्लीहपाण्डूदरापहः॥ ३२ ॥
तथा दन्तीद्रवन्त्योश्च कषाये साजगन्धयोः।गौडः कार्योऽऽजशृङ्ग्या वा स वै सुखविरेचनः॥ ३३ ॥
तच्चूर्णक्वाथमाषाम्बुकिण्वतोयसमुद्भवा।मदिरा कफगुल्माल्पवह्निपार्श्वकटिग्रहे॥ ३४ ॥
अजगन्धाकषायेण सौवीरकतुषोदके।सुराकम्पिल्लके योगौ लोध्रवच्च तयोः स्मृतौ॥ ३५ ॥
तत्र श्लोकाः-(दध्यादिषु त्रयः पञ्च प्रियालाद्यैस्त्रयो रसे।स्नेहेषु वै त्रयो लेह्याः षट् चूर्णे त्वेक एव च॥ ३६ ॥
इक्षावेकस्तथा मुद्गमांसानां च रसास्त्रयः।यवाग्वादौ त्रयश्चैव उक्त उत्कारिकाविधौ॥ ३७ ॥
एकश्च मोदके मद्ये चैकस्तत्क्वाथतैलके।चूर्णमेकं पुनश्चैको मोदकः पञ्च चासवे॥ ३८ ॥
एकः सौवीरकेऽथैको योगः स्यात्तु तुषोदके।एका सुरैकः कम्पिल्ले तथा पञ्च घृते स्मृताः॥)
दन्तीद्रवन्तीकल्पेऽस्मिन् प्रोक्ताः षोडशकास्त्रयः।नानाविधानां योगानां भक्तिदोषामयान्प्रति॥ ४० ॥
त्रिशतं पञ्चपञ्चाशद्योगानां वमने स्मृतम्।द्वे शते नवकाः पञ्च योगानां तु विरेचने॥ ४१ ॥
ऊर्ध्वानुलोमभागानामित्युक्तानि शतानि षट्।प्राधान्यतः समाश्रित्य द्रव्याणि दश पञ्च च॥ ४२ ॥
भवन्ति चात्र-यद्धि येन प्रधानेन द्रव्यं समुपसृज्यते।तत्संज्ञकः स योगो वै भवतीति विनिश्चयः॥ ४३ ॥
फलादीनां प्रधानानां गुणभूताः सुरादयः।ते हि तान्यनुवर्तन्ते मनुजेन्द्रमिवेतरे॥ ४४ ॥
विरुद्धवीर्यमप्येषां प्रधानानामबाधकम्।अधिकं तुल्यवीर्ये हि क्रियासामर्थ्यमिष्यते॥ ४५ ॥
इष्टवर्णरसस्पर्शगन्धार्थं प्रति चामयम्।अतो विरुद्धवीर्याणां प्रयोग इति निश्चितम्॥ ४६ ॥
भूयश्चैषां बलाधानं कार्यं स्वरसभावनैः।सुभावितं ह्यल्पमपि द्रव्यं स्याद्बहुकर्मकृत्॥ ४७ ॥
स्वरसैस्तुल्यवीर्यैर्वा तस्माद्द्रव्याणि भावयेत्।अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम्॥ ४८ ॥
कुर्यात् संयोगविश्लेष्कालसंस्कारयुक्तिभिः।प्रदेशमात्रमेतावद्द्रष्टव्यमिह षट्शतम्॥ ४९ ॥
स्वबुद्ध्यैवं सहस्राणि कोटीर्वाऽपि प्रकल्पयेत्।बहुद्रव्यविकल्पत्वाद्योगसंख्या न विद्यते॥ ५० ॥
तीक्ष्णमध्यमृदूनां तु तेषां शृणुत लक्षणम्।सुखं क्षिप्रं महावेगमसक्तं यत् प्रवर्तते॥ ५१ ॥
नातिग्लानिकरं पायौ हृदये न च रुक्करम्।अन्तराशयमक्षिण्वन् कृत्स्नं दोषं निरस्यति॥ ५२ ॥
विरेचनं निरूहो वा तत्तीक्ष्णमिति निर्दिशेत्।जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम्॥ ५३ ॥
ईषन्मात्राधिकैर्युक्तं तुल्यवीर्यैः सुभावितम्।स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम्॥ ५४ ॥
किंचिदेभिर्गुणैर्हीनं पूर्वोक्तैर्मात्रया तथा।स्निग्धस्विन्नस्य वा सम्यङ्मध्यं भवति भेषजम्॥ ५५ ॥
मन्दवीर्यं विरूक्षस्य हीनमात्रं तु भेषजम्।अतुल्यबीर्यैः संयुक्तं मृदु स्यान्मन्दवेगवत्॥ ५६ ॥
अकृत्स्नदोषहरणादशुद्धी ते बलीयसाम्।मध्यावरबलानां तु प्रयोज्ये सिद्धिमिच्छता॥ ५७ ॥
तीक्ष्णो मध्यो मृदुर्व्याधिः सर्वमध्याल्पलक्षणः।तीक्ष्णादीनि बलावेक्षी भेषजान्येषु योजयेत्॥ ५८ ॥
देयं त्वनिर्हृते पूर्वं पीते पश्चात् पुनः पुनः।भेषजं वमनार्थीयं प्राय आपित्तदर्शनात्॥ ५९ ॥
बलत्रैविध्यमालक्ष्य दोषाणामातुरस्य च।पुनः प्रदद्याद्भैषज्यं सर्वशो वा विवर्जयेत्॥ ६० ॥
निर्हृते वाऽपि जीर्णे वा दोषनिर्हरणे बुधः।भेषजेऽन्यत्प्रयुञ्जीत प्रार्थयन्सिद्धिमुत्तमाम्॥ ६१ ॥
अपक्वं वमनं दोषं पच्यमानं विरेचनम्।निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्॥ ६२ ॥
पीते प्रस्रंसने दोषान्न निर्हत्य जरां गते।वमिते चौषधे धीरः पाययेदौषधं पुनः॥ ६३ ॥
दीप्ताग्निं बहुदोषं तु दृढस्नेहगुणं नरम्।दुःशुद्धं तदहर्भुक्तं श्वोभूते पाययेत् पुनः॥ ६४ ॥
दुर्बलो बहुदोषश्च दोषपाकेन यो नरः।विरिच्यते शनैर्भोज्यैर्भूयस्तमनुसारयेत्॥ ६५ ॥
वमनैश्च विरेकैश्च विशुद्धस्याप्रमाणतः।भोजनान्तरपानाभ्यां दोषशेषं शमं नयेत्॥ ६६ ॥
दुर्बलं शोधितं पूर्वमल्पदोषं च मानवम्।अपरिज्ञातकोष्ठं च पाययेतौषधं मृदु॥ ६७ ॥
श्रेयो मृद्वसकृत्पीतमल्पबाधं निरत्ययम्।न चातितीक्ष्णं यत् क्षिप्रं जनयेत्प्राणसंशयम्॥ ६८ ॥
दुर्बलोऽपि महादोषो विरेच्यो बहुशोऽल्पशः।मृदुभिर्भेषजैर्दोषा हन्युर्ह्येनमनिर्हृताः॥ ६९ ॥
यस्योर्ध्वं कफसंसृष्टं पीतं यात्यानुलोमिकम्।वमितं कवलैः शुद्धं लङ्घितं पाययेत्तु तम्॥ ७० ॥
विबद्धेऽल्पे चिराद्दोषे स्रवत्युष्णं पिबेज्जलम्।तेनाध्मानं तृषा च्छर्दिर्विबन्धश्चैव शाम्यति॥ ७१ ॥
भेषजं दोषरुद्धं चेन्नोर्ध्वं नाधः प्रवर्तते।सोद्गारं साङ्गशूलं च स्वेदं तत्रावचारयेत्॥ ७२ ॥
सुविरिक्ते तु सोद्गारमाश्वेवौषधमुल्लिखेत्।अतिप्रवर्तनं जीर्णे सुशीतैः स्तम्भयेद्भिषक्॥ ७३ ॥
कदाचिच्छ्लेष्मणा रुद्धं तिष्ठत्युरसि भेषजम्।क्षीणे श्लेष्मणि सायाह्ने रात्रौ वा तत्प्रवर्तते॥ ७४ ॥
रूक्षानाहारयोर्जीर्णे विष्टभ्योर्ध्वं गतेऽपि वा।वायुना भेषजे त्वन्यत् सस्नेहलवणं पिबेत्॥ ७५ ॥
तृण्मोहभ्रममूर्च्छायाः स्युश्चेज्जीर्यति भेषजे।पित्तघ्नं स्वादु शीतं च भेषजं तत्र शस्यते॥ ७६ ॥
लालाहृल्लासविष्टम्भलोमहर्षाः कफावृते।भेषजं तत्र तीक्ष्णोष्णं कट्वादि कफनुद्धितम्॥ ७७ ॥
सुस्निग्धं क्रूरकोष्ठं च लङ्घयेदविरेचितम्।तेनास्य स्नेहजः श्लेष्मा सङ्गश्चैवोपशाम्यति॥ ७८ ॥
रूक्षबह्वनिलक्रूरकोष्ठव्यायामशालिनाम्।दीप्ताग्नीनां च भैषज्यमविरिच्यैव जीर्यति॥ ७९ ॥
तेभ्यो बस्तिं पुरा दत्त्वा पञ्चाद्दद्याद्विरेचनम्।बस्तिप्रवर्तितं दोषं हरेच्छीघ्रं विरेचनम्॥ ८० ॥
रूक्षाशनाः कर्मनित्या ये नरा दीप्तपावकाः।तेषां दोषाः क्षयं यान्ति कर्मवातातपाग्निभिः॥ ८१ ॥
विरुद्धाध्यशनाजीर्णदोषानपि सहन्ति ते।स्नेह्यास्ते मारुताद्रक्ष्या नाव्याधौ तान् विशोधयेत्॥ ८२ ॥
नातिस्निग्धशरीराय दद्यात् स्नेहविरेचनम्।स्नेहोत्क्लिष्टशरीराय रूक्षं दद्याद्विरेचनम्॥ ८३ ॥
एवं ज्ञात्वा विधिं धीरो देशकालप्रमाणवित्।विरेचनं विरेच्येभ्यः प्रयच्छन्नापराध्यति॥ ८४ ॥
विभ्रंशो विषवद्यस्य प्रयच्छान्नापराध्यति।कालेष्ववश्यं पेयं च तस्माद्यत्नात् प्रयोजयेत्॥ ८५ ॥
द्रव्यप्रमाणं तु यदुक्तमस्मिन्मध्येषु तत् कोष्ठवयोबलेषु।तन्मूलमालम्ब्य भवेद्विकल्प्यं तेषां विकल्प्योऽभ्यधिकोनभावः॥ ८६ ॥
षड् ध्वंश्यस्तु मरीचिः स्यात् षण्मरीच्यस्तु सर्षपः।अष्टौ ते सर्षपा रक्तास्तण्डुलश्चापि तद्द्वयम्॥ ८७ ॥
धीन्यमाषो भवेदेको धान्यमाषद्वयं यवः।अण्डिका ते तु चत्वारस्ताश्चतस्रस्तु माषकः॥ ८८ ॥
हेमश्च धान्यकश्चोक्तो भवेच्छाणस्तु ते त्रयः।शाणौ द्वौ द्रङ्क्षणं विद्यात् कोलं बदरमेव च॥ ८९ ॥
विद्याद्द्वौ द्रक्षणौ कर्षं सुवर्णं चाक्षमेव च।बिडालपदकं चैव पिचुं पाणितलं तथा॥ ९० ॥
तिन्दुकं च विजानीयात् कवलग्रहमेव च।द्वे सुवर्णे पलार्धं स्याच्छुक्तिरष्टमिका तथा॥ ९१ ॥
द्वे पलार्धे पलं मुष्टिः प्रकुञ्चोऽथ चतुर्थिका।बिल्वं षोडशिका चाम्रं द्वे पले प्रसृतं विधुः॥ ९२ ॥
अष्टमानं तु विज्ञेयं कुडवौ द्वौ तु मानिका।पलं चतुर्गुणं विद्यादञ्जलिं कुडवं तथा॥ ९३ ॥
चत्वारः कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम्।पात्रं तदेव विज्ञेयं कंसः प्रस्थाष्टकं तथा॥ ९४ ॥
कंसश्चतुर्गुणो द्रोणश्चार्मणं नल्वणं च तत्।स एव कलशः ख्यातो घटमुन्मानमेव च॥ ९५ ॥
द्रोणस्तु द्विगुणः शूर्पो विज्ञेयः कुम्भ एव च।गोणीं शूर्पद्वयं विद्यात् खारीं भारं तथैव च॥ ९६ ॥
द्वात्रिंशतं विजानीयाद्वाहं शूर्पाणि बुद्धिमान्।तुलां शतपलं विद्यात् परिमाणविशारदः॥ ९७ ॥
शुष्कद्रव्येष्विदं मानमेवमादि प्रकीर्तितम्।द्विगुणं तद्द्रवेष्विष्टं तथा सद्योद्धृतेषु च॥ ९८ ॥
यद्धि मानं तुला प्रोक्ता पलं वा तत् प्रयोजयेत्।अनुक्ते परिमाणे तु तुल्यं मानं प्रकीर्तितम्॥ ९९ ॥
द्रवकार्येऽपि चानुक्ते सर्वत्र सलिलं स्मृतम्।यतश्च पादनिर्देशश्चातुर्भागस्ततश्च सः॥ १०० ॥
जलस्नेहौषधानां तु प्रमाणं यत्र नेरितम्।तत्र स्यादौषधात् स्नेहः स्नेहात्तोयं चतुर्गुणम्॥ १०१ ॥
स्नेहपाकस्त्रिधा ज्ञेयो मृदुर्मध्यः खरस्तथा।तुल्ये कल्केन निर्यासे भेषजानां मृदुः स्मृतः॥ १०२ ॥
संयाव इव निर्यासे मध्यो दर्वीं विमुञ्चति।शीर्यमाणे तु निर्यासे वर्तमाने खरस्तथा॥ १०३ ॥
खरोऽभ्यङ्गे स्मृतः काको, मृदुर्नस्तःक्रियासु च।मध्यपाकं तु पानार्थे बस्तौ च विनियोजयेत्॥ १०४ ॥
मानं च द्विविधं प्राहुः कालिङ्गं मागधं तथा।कालिङ्गान्मागधं श्रेष्ठमेवं मानविदो विदुः॥ १०५ ॥
तत्र श्लोकौ-कल्पार्थः शोधनं संज्ञा पृथग्घेतुः प्रवर्तने।देशादीनां फलादीनां गुणा योगशतानि षट्॥ १०६ ॥
विकल्पहेतुर्नामानि तीक्ष्णमध्याल्पलक्षणम्।विधिश्चावस्थिको मानं स्नेहपाकश्च दर्शितः॥ १०७ ॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने दन्तीद्रवन्तीकल्पो नाम द्वादशोऽध्यायः॥१२॥