अथातः कल्पनासिद्धिं व्याख्यास्यामः॥ १ ॥
अध्याय १
कल्पनासिद्धिः
पञ्चकर्म की योजना
मूल पाठ के किसी शब्द पर टैप करें - उसका अर्थ दिखेगा।
इति ह स्माह भगवानात्रेयः॥ २ ॥
का कल्पना पञ्चसु कर्मसूक्ता, क्रमश्च कः, किं च कृताकृतेषु।लिङ्गं तथैवातिकृतेषु, संक्या का, किंगुणः, केषु च कश्च बस्तिः॥ ३ ॥
किं वर्जनीयं प्रतिकर्मकाले, कृते कियान् वा परिहारकालः।प्रणीयमानश्च न याति केन, केनैति शीघ्रं, सुचिराच्च बस्तिः॥ ४ ॥
साध्या गदाः स्वैः शमनैश्च केचित् कस्मात् प्रयुक्तैर्न शमं व्रजन्ति।प्रचोदितः शिष्यवरेण सम्यगित्यग्निवेशेन भिषग्वरिष्ठः॥ ५ ॥
पुनर्वसुस्तन्त्रविदाह तस्मै सर्वप्रजानां हितकाम्ययेदम्।त्र्यहावरं सप्तदिनं परं तु स्निग्धो नरः स्वेदयितव्य उक्तः॥ ६ ॥
नातः परं स्नेहनमादिशन्ति सात्म्यीभवेत् सप्तदिनात् परं तु।स्नेहोऽनिलं हन्ति मृदूकरोति देहं मलानां विनिहन्ति सङ्गम्॥ ७ ॥
स्निग्धस्य सूक्ष्मेष्वयनेषु लीनं स्वेदस्तु दोषं नयति द्रवत्वम्।ग्राम्यौदकानूपरसैः समांसैरुत्क्लेशनीयः पयसा च वम्यः॥ ८ ॥
रसैस्तथा जाङ्गलजैः सयूषैः स्निग्धैः कफावृद्धिकरैर्विरेच्यः।श्लेष्मोत्तरश्छर्दयति ह्यदुःखं विरिच्यते मन्दकफस्तु सम्यक्॥ ९ ॥
अधः कफेऽल्पे वमनं विरेचयेद्विरेचनं वृद्धकफे तथोर्ध्वम्।स्निग्धाय देयं वमनं यथोक्तं वान्तस्य पेयादिरनुक्रमश्च॥ १० ॥
स्निग्धस्य सुस्विन्नतनोर्यथावद्विरेचनं योग्यतमं प्रयोज्यम्।पेयां विलेपीमकृतं कृतं च यूषं रसं त्रिर्द्विरथैकशश्च॥ ११ ॥
क्रमेण सेवेत विशुद्धकायः प्रधानमध्यावरशुद्धिशुद्धः।यथाऽणुरग्निस्तृणगोमयाद्यैः संधुक्ष्यमाणो भवति क्रमेण॥ १२ ॥
महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तरग्निः।जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ॥ १३ ॥
दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा द्वित्रिचतुर्गुणश्च।पित्तान्तमिष्टं वमनं विरेकादर्धं कफान्तं च विरेकमाहुः॥ १४ ॥
द्वित्रान् सविट्कानपनीय वेगान्मेयं विरेके वमने तु पीतम्।क्रमात् कफः पित्तमथानिलश्च यस्यैति सम्यग्वमितः स इष्टः॥ १५ ॥
हृत्पार्श्वमूर्धेन्द्रियमार्गशुद्धौ तथा लघुत्वेऽपि च लक्ष्यमाणे।दुश्छर्दिते स्फोटककोठकण्डूहृत्खाविशुद्धिर्गुरुगात्रता च॥ १६ ॥
तृण्मोहमूर्छानिलकोपनिद्राबलादिहानिर्वमनेऽति च स्यात्।स्रोतोविशुद्धीन्द्रियसंप्रसादौ लघुत्वमूर्जोऽग्निरनामयत्वम्॥ १७ ॥
प्राप्तिश्च विट्पित्तकफानिलानां सम्यग्विरिक्तस्य भवेत् क्रमेण।स्याच्छ्लेष्मपित्तानिलसंप्रकोपः सादस्तथाऽग्नेर्गुरुता प्रतिश्या॥ १८ ॥
तन्द्रा तथा च्छर्दिररोचकश्च वातानुलोम्यं न च दुर्विरिक्ते।कफास्रपित्तक्षयजानिलोत्थाः सुप्त्यङ्गमर्दक्लमवेपनाद्याः॥ १९ ॥
निद्राबलाभावतमःप्रवेशाः सोन्मादहिक्काश्च विरेचितेऽति।संसृष्टभक्तं नवमेऽह्नि सर्पिस्तं पाययेताप्यनुवासयेद्वा॥ २० ॥
तैलाक्तगात्राय ततो निरूहं दद्यात्त्र्यहान्नातिबुभुक्षिताय।प्रत्यागते धन्वरसेन भोज्यः समीक्ष्य वा दोषबलं यथार्हम्॥ २१ ॥
नरस्ततो विश्यनुवासनार्हो नात्याशितः स्यादनुवासनीयः।शीते वसन्ते च दिवाऽनुवास्यो रात्रौ शरद्ग्रीष्मघनागमेषु॥ २२ ॥
तानेव दोषान् परिरक्षता ये स्नेहस्य पाने परिकीर्तिताः प्राक्।प्रत्यागते चाप्यनुवासनीये दिवा प्रदेयं व्युषिताय भोज्यम्॥ २३ ॥
सायं च भोज्यं परतो द्व्यहे वा त्र्यहेऽनुवास्योऽहनि पञ्चमे वा।त्र्यहे त्र्यहे वाऽप्यथ पञ्चमे वा दद्यान्निरूहादनुवासनं च॥ २४ ॥
एकं तथा त्रीन् कफजे विकारे पित्तात्मके पञ्च तु सप्त वाऽपि।वाते नवैकादश वा पुनर्वा बस्तीनयुग्मान् कुशलो विदध्यात्॥ २५ ॥
नरो विरिक्तस्तु निरूहदानं विवर्जयेत् सप्तदिनान्यवश्यम्।शुद्धो निरूहेण विरेचनं च तद्ध्यस्य शून्यं विकसेच्छरीरम्॥ २६ ॥
बस्तिर्वयःस्थापयिता सुखायुर्बलाग्निमेधास्वरवर्णकृच्च।सर्वार्थकारी शिशुवृद्धयूनां निरत्ययः सर्वगदापहश्च॥ २७ ॥
विट्श्लेष्मपित्तानिलमूत्रकर्षी दार्ढ्यावहः शुक्रबलप्रदश्च।विश्वक्स्थितं दोषचयं निरस्य सर्वान् विकारान् शमयेन्निरूहः॥ २८ ॥
देहे निरूहेण विशुद्धमार्गे संस्नेहनं वर्णबलप्रदं च।न तैलदानात् परमस्ति किञ्चिद्द्रव्यं विशेषेण समीरणार्ते॥ २९ ॥
स्नेहेन रौक्ष्यं लघुतां गुरुत्वादौष्ण्याच्च शैत्यं पवनस्य हत्वा।तैलं ददात्याशु मनःप्रसादं वीर्यं बलं वर्णमथाग्निपुष्टिम्॥ ३० ॥
मूले निषिक्तो हि यथा द्रुमः स्यान्नीलच्छदः कोमलपल्लवाग्र्यः।काले महान् पुष्पफलप्रदश्च तथा नरः स्यादनुवासनेन॥ ३१ ॥
स्तब्धाश्च ये सङ्कुचिताश्च येऽपि ये पङ्गवो येऽपि च भग्नरुग्णाः।येषां च शाखासु चरन्ति वाताः शस्तो विशेषेण हि तेषु बस्तिः॥ ३२ ॥
आध्मापने विग्रथिते पुरीषे शूले च भक्तानभिनन्दने च।एवंप्रकाराश्च भवन्ति कुक्षौ ये चामयास्तेषु च ब्स्तिरिष्टः॥ ३३ ॥
याश्च स्त्रियो वातकृतोपसर्गा गर्भं न नृह्णन्ति नृभिः समेताः।क्षीणेन्द्रिया ये च नराः कृशाश्च बस्तिः प्रशस्तः परं च तेषु॥ ३४ ॥
उष्णाभिभूतेषु वदन्ति शीताञ्छीताभिभूतेषु तथा सुखोष्णान्।तत्प्रत्यनीकौषधसंप्रयुक्तान् सर्वत्र बस्तीन् प्रविभज्य युञ्ज्यात्॥ ३५ ॥
न बृंहणीयान् विदधीत बस्तीन् विशोधनीयेषु गदेषु वैद्यः।कुष्ठप्रमेहादिषु मेदुरेषु नरेषु ये चापि विशोधनीयाः॥ ३६ ॥
क्षीणक्षतानां न विशोधनीयान्न शोषिणां नो भृशदुर्बलानाम्।न मूर्च्छितानां न विशोधितानां येषां च दोषेषु निबद्धमायुः॥ ३७ ॥
शाखागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च।ये सन्ति तेषां न हि कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति॥ ३८ ॥
विण्मूत्रपित्तादिमलाशयानां विक्षेपस्ंघातकरः स यस्मात्।तस्यातिवृद्धस्य शमाय नान्यद्बस्तिं विना भेषजमस्ति किञ्चित्॥ ३९ ॥
तस्माच्चिकित्सार्धमिति ब्रुवन्ति सर्वां चिकित्सामपि बस्तिमेके।नाभिप्रदेशं कटिपार्श्वकुक्षिं गत्वा शकृद्दोषचयं विलोड्य॥ ४० ॥
संस्नेह्य कायं सपुरीषदोषः सम्यक् सुखेनैति च यः स बस्तिः।प्रसृष्टविण्मूत्रसमीरणत्वं रुच्यग्निवृद्ध्याशयलाघवानि॥ ४१ ॥
रोगोपशान्तिः प्रकृतिस्थता च बलं च तत् स्यात् सुनिरूढलिङ्गम्।स्याद्रुक्छिरोहृद्गुदबस्तिलिङ्गे शोफः प्रतिश्यायविकर्तिके च॥ ४२ ॥
हृल्लासिका मारुतमूत्रसङ्गः श्वासो न सम्यक् च निरूहिते स्युः।लिङ्गं यदेवातिविरेचितस्य भवेत्तदेवातिनिरूहितस्य॥ ४३ ॥
प्रत्येत्यसक्तं सशकृच्च तैलं रक्तादिबुद्धीन्द्रियसंप्रसादः।स्वप्नानुवृत्तिर्लघुता बलं च सृष्टाश्च वेगाः स्वनुवासिते स्युः॥ ४४ ॥
अधःशरीरोदरबाहुपृष्ठपार्श्वेषु रुग्रूक्षखरं च गात्रम्।ग्रहश्च विण्मूत्रसमीरणानामसम्यगेतान्यनुवासितस्य॥ ४५ ॥
हृल्लासमोहक्लमसादमूर्च्छा विकर्तिका चात्यनुवासितस्य।यस्येह यामाननुवर्तते त्रीन् स्नेहो नरः स्यात् स विशुद्धदेहः॥ ४६ ॥
आश्वागतेऽन्यस्तु पुनर्विधेयः स्नेहो न संस्नेहयति ह्यतिष्ठन्।त्रिंशन्मताः कर्म नु बस्तयो हि कालस्ततोऽर्धेन ततश्च योगः॥ ४७ ॥
सान्वासना द्वादश वै निरूहाः प्राक् स्नेह एकः परतश्च पञ्च।काले त्रयोऽन्ते पुरतस्तथैकः स्नेहा निरूहान्तरिताश्च षट् स्युः॥ ४८ ॥
योगे निरूहास्त्रय एव देयाः स्नेहाश्च पञ्चैव परादिमध्याः।त्रीन् पञ्च वाऽऽहुश्चतुरोऽथ षट्वा वातादिकानामनुवासनीयान्॥ ४९ ॥
स्नेहान् प्रदायाशु भिषग्विदध्यात् स्रोतोविशुद्ध्यर्थमतो निरूहान्।निशुद्धदेहस्य ततः क्रमेण स्निग्धं तलस्वेदितमुत्तमाङ्गम्॥ ५० ॥
विरेचयेत्त्रिर्द्विरथैकशो वा बलं समीक्ष्य त्रिविधं मलानाम्।उरःशिरोलाघवमिन्द्रियाच्छ्यं स्रोतोविशुद्धिश्च भवेद्विशुद्धे॥ ५१ ॥
गलोपलेपः शिरसो गुरुत्वं निष्ठीवनं चाप्यथ दुर्विरिक्ते।शिरोक्षिशङ्खश्रवणार्तितोदावत्यर्थशुद्धे तिमिरं च पश्येत्॥ ५२ ॥
स्यात्तर्पणं तत्र मृदु द्रवं च स्निग्धस्य तीक्ष्णं तु पुनर्न योगे।इत्यातुरस्वस्थसुखः प्रयोगो बलायुषोर्वृद्धिकृदामयघ्नः॥ ५३ ॥
कालस्तु बस्त्यादिषु याति यावांस्तावान् भवेद्द्विः परिहारकालः।अत्यासनस्थानवचांसि यानं स्वप्नं दिवा मैथुनवेगरोधान्॥ ५४ ॥
शीतोपचारातपशोकरोषांस्त्यजेदकालाहितभोजनं च।बद्धे प्रणीते विषमं च नेत्रे मार्गे तथाऽर्शःकफविड्विबद्धे॥ ५५ ॥
न याति बस्तिर्न सुखं निरेति दोषावृतोऽल्पो यदि वाऽल्पवीर्यः।प्राप्ते तु वर्चोनिलमूत्रवेगे वातेऽतिवृद्धेऽल्पबले गुदे वा॥ ५६ ॥
अत्युष्णतीक्ष्णश्च मृदौ च कोष्ठे प्रणीतमात्रः पुनरेति बस्तिः।मेदःकफाभ्यामनिलो निरुद्धः शूलाङ्गसुप्तिश्वयथून् करोति॥ ५७ ॥
स्नेहं तु युञ्जन्नबुधस्तु तस्मै संवर्धयत्येव हि तान् विकारान्।रोगास्तथाऽन्येऽप्यवितर्क्यमाणाः परस्परेणावगृहीतमार्गाः॥ ५८ ॥
संदूषिता धातुभिरेव चान्यैः स्वैर्भेषजैर्नोपशमं व्रजन्ति।सर्वं च रोगप्रशमाय कर्म हीनातिमात्रं विपरीतकालम्॥ ५९ ॥
मिथ्योपचाराच्च न तं विकारं शान्तिं नयेत् पथ्यमपि प्रयुक्तम्।तत्र श्लोकः-प्रश्नानिमान् द्वादश पञ्चकर्माण्युद्दिश्य सिद्धाविह कल्पनायाम्॥ ६० ॥
प्रजाहितार्ह्तं भगवान् महार्थान् सम्यग्जगादर्षिवरोऽत्रिपुत्रः।
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने कल्पनासिद्धिर्नाम प्रथमोऽध्यायः॥१॥