अथातः कासचिकित्सितं व्याख्यास्यामः॥ १ ॥
अध्याय १८
कासचिकित्सितम्
कास (खाँसी) की चिकित्सा
इस अध्याय में (अध्याय का अपना सार, श्लोक १९१)
तत्र श्लोकः-संख्या निमित्तं रूपाणि साध्यासाध्यत्वमेव च।कासानां भेडजं प्रोक्तं गरीयस्त्वं च कासिनः॥
श्लोक १९१ →मूल पाठ के किसी शब्द पर टैप करें - उसका अर्थ दिखेगा।
इति ह स्माह भगवानात्रेयः॥ २ ॥
तपसा यशसा धृत्या धिया च परयाऽन्वितः।आत्रेयः कासशान्त्यर्थं प्राह सिद्धं चिकित्सितम्॥ ३ ॥
वातादिजास्त्रयो ये च क्षतजः क्षयजस्तथा।पञ्चैते स्युर्नृणां कासा वर्धमानाः क्षयप्रदाः॥ ४ ॥
पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता।कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते॥ ५ ॥
अधःप्रतिहतो वायुरूर्ध्वस्रोतःसमाश्रितः।उदानभावमापन्नः कण्ठे सक्तस्तथोरसि॥ ६ ॥
आविश्य शिरसः खानि सर्वाणि प्रतिपूरयन्।आभञ्जन्नाक्षिपन् देहं हनुमन्ये तथाऽक्षिणी॥ ७ ॥
नेत्रे पृष्ठमुरःपार्श्वे निर्भुज्य स्तम्भयंस्ततः।शुष्को वा सकफो वाऽपि कसनात्कास उच्यते॥ ८ ॥
प्रतिघातविशेषेण तस्य वायोः सरंहसः।वेदनाशब्दवैशिष्ट्यं कासानामुपजायते॥ ९ ॥
रूक्षशीतकषायाल्पप्रमितानशनं स्त्रियः।वेगधारणमायासो वातकासप्रवर्तकाः॥ १० ॥
हृत्पार्श्वोरःशूलस्वरोभेदकरो भृशम्।शुष्कोरश्कण्ठवक्त्रस्य हृष्टलोम्नः प्रताम्यतः॥ ११ ॥
निर्घोषदैन्यस्तननदौर्बल्यक्षोभमोहकृत्।शुष्ककासः कफं शुष्कं कृच्छ्रान्मुक्त्वाऽल्पतां व्रजेत्॥ १२ ॥
स्निग्धाम्ललवणोष्णैश्च भुक्तपीतैः प्रशाम्यति।ऊर्ध्ववातस्य जीर्णेऽन्ने वेगवान्मारुतो भवेत्॥ १३ ॥
कटुकोष्णविदाह्यम्लक्षाराणामतिसेवनम्।पित्तकासकरं क्रोधः संतापश्चाग्निसूर्यजः॥ १४ ॥
पीतनिष्ठीवनाक्षित्वं तिक्तास्यत्वं स्वरामयः।उरोधूमायनं तृष्णा दाहो मोहोऽरुचिर्भ्रमः॥ १५ ॥
प्रततं कासमानश्च ज्योतींषीव च पश्यति।श्लेष्माणं पित्तसंसृष्टं निष्ठीवति च पैत्तिके॥ १६ ॥
गुर्वभिष्यन्दिमधुरस्निग्धस्वप्नाविचेष्टनैः।वृद्धः श्लेष्माऽनिलं रुद्ध्वा कफकासं करोति हि॥ १७ ॥
मन्दाग्नित्वारुचिच्छर्दिपीनसोत्क्लेशगौरवैः।लोमहर्षास्यमाधुर्यक्लेदसंसदनैर्युतम्॥ १८ ॥
बहुलं मधुरं स्निग्धं निष्ठीवति घनं कफम्।कासमानो ह्यरुग् वक्षः संपूर्णमिव मन्यते॥ १९ ॥
अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः।रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमावहेत्॥ २० ॥
स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम्।कण्ठेन रुजताऽत्यर्थं विरुग्णेनेव चोरसा॥ २१ ॥
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना।दुःखस्पर्शोन शूलेन भेदपीडाभितापिना॥ २२ ॥
पर्वभेदज्वरश्वासतृष्णावैस्वर्यपीडितः।पारावत इवाकूजन् कासवेगात्क्षतोद्भवात्॥ २३ ॥
विषमासात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात्।घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः॥ २४ ॥
कुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम्।कुर्गन्धं हरितं रक्तं ष्ठीवेत् पूयोपमं कफम्॥ २५ ॥
स्थानादुत्कासमानश्च हृदयं मन्यते च्युतम्।अकस्मादुष्णशीतार्तो बह्वाशी दुर्बलः कृशः॥ २६ ॥
स्निग्धाच्छमुखवर्णत्व श्रीमद्दर्शनलोचनः।पाणिपादतलैः श्लक्ष्णैः सततासूयको घृणी॥ २७ ॥
ज्वरो मिश्राकृतिस्तस्य पार्श्वरुक् पीनसोऽरुचिः।भिन्नसंहतवर्चस्त्वं स्वरभेदोऽनिमित्ततः॥ २८ ॥
इत्येष क्षयजः कासः क्षीणानां देहनाशनः।साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः॥ २९ ॥
नवौ कदाचित् सिध्येतामेतौ पादगुणान्वितौ।स्थविराणां जराकासः सर्वो याप्यः प्रकीर्तितः॥ ३० ॥
त्रीन्साध्यान्साधयेत्पूर्वान् पथ्यैर्याप्यांश्च यापयेत्।चिकित्सामत ऊर्ध्वं तु शृणु कासनिबर्हिणीम्॥ ३१ ॥
रूक्षस्यानिलजं कासमादौ स्नेहैरुपाचरेत्।सर्पिर्भिर्बस्तिभिः पेयायूषक्षीररसादिभिः॥ ३२ ॥
वातघ्नसिद्धैः स्नेहाद्यैर्धूमैर्लेहैश्च युक्तितः।अभ्यङ्गैः परिषेकैश्च स्निग्धैः स्वेदैश्च बुद्धिमान्॥ ३३ ॥
बस्तिभिर्बद्धविड्वातं शुष्कोर्धृवं चोर्ध्वभक्तिकैः।घृतैः सपित्तं सकफं जयेत् स्नेहविरेचनैः॥ ३४ ॥
कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पलाद्रसे।प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः॥इति कण्टकारीघृतम्।
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः।धान्यपाठावचारास्नायष्ट्याह्वक्षारहिङ्गुभिः॥ ३६ ॥
कोलमात्रैर्घृतप्रस्थाद्दशमूलीरसाढके।सिद्धाच्चतुर्थिकां पीत्वा पेयामण्डं पिबेदनु॥ ३७ ॥
तच्छ्वासकासहृत्पार्श्वग्रहणीदोषगुल्मनुत्।पिप्पल्याद्यं घृतं चैतदात्रेयेण प्रकीर्तितम्॥इति पिप्पल्यादिघृतम्।
त्र्यूषणं त्रिफलां द्राक्षां काश्मर्याणि परूषकम्।द्वे पाठे देवदार्वृद्धिं स्वगुप्तां चित्रकं शटीम्॥ ३९ ॥
ब्राह्मीं तामलकीं मेदां काकनासां शतावरीम्।त्रिकण्टकं विदारीं च पिष्ट्वा कर्षसमं घृतात्॥ ४० ॥
प्रस्थं चतुर्गुणे क्षीरे सिद्धं कासहरं पिबेत्।ज्वरगुल्मारुचिप्लीहशिरोहृत्पार्श्वशूलनुत्॥ ४१ ॥
कामलार्शोऽनिलाष्ठीलाक्षतशोषक्षयापहम्।त्र्यूषणं नाम विख्यातमेतद्घृतमनुत्तमम्॥इति त्र्यूषणाद्यं घृतम्।
द्रोणेऽपां साधयेद्रास्नां दशमूलीं शतावरीम्।पलिकां माणिकांशांस्तु कुलत्थान्बदरान्यवान्॥ ४३ ॥
तुलार्धं चाजमांसस्य पादशेषेण तेन च।घृताढकं समक्षीरं जीवनीयैः पलोन्मितैः॥ ४४ ॥
सिद्धं तद्दशभिः कल्कैर्नस्यपानानुवासनैः।समीक्ष्य वातरोगेषु यथावस्थं प्रयोजयेत्॥ ४५ ॥
पञ्चकासान् शिरःकम्पं शूलं वङ्क्षणयोनिजम्।सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलाञ्जयेत्॥इति रास्नाघृतम्।
विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम्।भार्गी क्षारश्च तच्चूर्णं पिबेद्वा घृतमात्रया॥ ४७ ॥
सकफेऽनिलजे कासे श्वासहिक्काहताग्निषु।द्वौ क्षारौ पञ्चकोलानि पञ्चव लवणानि च॥ ४८ ॥
शटीनागरकोदीच्यकल्कं वा वस्त्रगालितम्।पाययेत घृतोन्मिश्रं वातकासनिबर्हणम्॥ ४९ ॥
दुरालभां शटीं द्राक्षां शृङ्गवेरं सितोपलाम्।लिह्यात् कर्कटशृङ्गीं च कासे तैलेन वातजे॥ ५० ॥
दुःस्पर्शां पिप्पलीं मुस्तं भार्गीं कर्कटकीं शटीम्।पुराणगुडतैलाभ्यां चूर्णितं वाऽपि लेहयेत्॥ ५१ ॥
विडङ्गं सैन्धवं कुष्ठं व्योषं हिङ्गु मनःशिलाम्।मधुसर्पिर्युतं कासहिक्काश्वासं जयेल्लिहन्॥ ५२ ॥
चित्रकं पिप्पलीमूलं व्योषं हिङ्गु दुरालभाम्।शटीं पुष्करमूलं च श्रेयसीं सुरसां वचाम्॥ ५३ ॥
भार्गीं छिन्नरुहां रास्नां शृङ्गीं द्राक्षां च कार्षिकान्।कल्कानर्धतुलाक्वाथे निदिग्ध्याः पलविंशतिम्॥ ५४ ॥
दत्त्वा मत्स्यण्डिकायाश्च घृताच्च कुडवं पचेत्।सिद्धं शीतं पृथक् क्षौद्रपिप्पलीकुडवान्वितम्॥ ५५ ॥
चतुष्पलं तुगाक्षीर्याश्चूर्णितं तत्र दापयेत्।लेहयेत् कासहृद्रोगश्वासगुल्मनिवारणम्॥इति चित्रकादिलेहः।
दशमूलीं स्वयङ्गुप्तां शङ्खपुष्पीं शटीं बलाम्।हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान्॥ ५७ ॥
भार्गीं पुष्करमूलं च द्विपलांशं यवाढकम्।हरीतकीशतं चैकं जले पञ्चाढके पचेत्॥ ५८ ॥
यवैः स्विन्नैः कषायं तं पूतं तच्चाभयाशतम्।पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात्॥ ५९ ॥
तैलात् सपिप्पलीचूर्णात् सिद्धशीते च माक्षिकात्।लिह्याद्द्वे चाभये नित्यमतः खादेद्रसायनात्॥ ६० ॥
तद्वलीपलितं हन्ति वर्णायुर्बलवर्धनम्।पञ्चकासान् क्षयं श्वासं हिक्कां च विषमज्वरम्॥ ६१ ॥
हन्यात्तथाऽर्शोग्रहणीहृद्रोगारुचिपीनसान्।अगस्त्यविहितं श्रेष्ठं रसायनमिदं शुभम्॥इत्यगस्त्यहरीतकी।
सैन्धवं पिप्पलीं भार्गीं शृङ्गवेरं दुरालभाम्।दाडिमाम्लेन कोष्णेन भार्गीनागरमम्बुना॥ ६३ ॥
पिबेत् खदिरसारं वा मदिरादधिमस्तुभिः।अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम्॥ ६४ ॥
शिरसः पीडने स्रावे नासाया हृदि ताम्यति।कासप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत्॥ ६५ ॥
दशाङ्गुलोन्मितां नाडीमथवाऽष्टाङ्गुलोन्मिताम्।शरावसंपुटच्छिद्रे कृत्वा जिह्मां विचक्षणः॥ ६६ ॥
वैरेचनं मुखेनैव कासवान् धूममापिबेत्।तमुरः केवलं प्राप्तं मुखेनैवोद्वमेत् पुनः॥ ६७ ॥
स ह्यस्य तैक्ष्ण्याद्विच्छिद्य श्लेष्माणमुरसि स्थितम्।निष्कृष्य शमयेत् कासं वातश्लेष्मसमुद्भवम्॥ ६८ ॥
मनःशिलालमधुकमांसीमुस्तेङ्गुदैः पिबेत्।धूमं तस्यानु च क्षीरं सुखोष्णं सगुडं पिबेत्॥ ६९ ॥
एष कासान् पृथग्दोषसन्निपातसमुद्भवान्।धूमो हन्यादसंसिद्धानन्यैर्योगशतैरपि॥ ७० ॥
प्रपौण्डरीकं मधुकं शार्ङ्गेष्टां समनःशिलाम्।मरिचं पिप्पलीं द्राक्षामेलां सुरसमञ्जरीम्॥ ७१ ॥
कृत्वा वर्तीं पिबेद्धूमं क्षौमचेलानुवर्तिताम्।घृताक्तामनु च क्षीरं गुडोदकमथापि वा॥ ७२ ॥
मनःशिलैलामरिचक्षाराञ्जनकुटन्नटैः।वंशलेखनसेव्यालक्षौमलक्तकरोहिषैः॥ ७३ ॥
पूर्वकल्पेन धूमोऽयं सानुपानो विधीयते।मनःशिलाले तद्वच्च पिप्पलीनागरैः सह॥ ७४ ॥
त्वगैङ्गुदी बृहत्यौ द्वे तालमूली मनःशिला।कार्पासास्थ्यश्वगन्धा च धूमः कासविनाशनः॥ ७५ ॥
ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्।रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान्॥ ७६ ॥
यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः।रास्नाजाजीपृथक्पर्णीपलाशशटिपौष्करैः॥ ७७ ॥
स्निग्धाम्ललवणां सिद्धां पेयामनिलजे पिबेत्।कटीहृत्पार्श्वकोष्ठार्तिश्वासहिक्काप्रणाशिनीम्॥ ७८ ॥
दशमूलरसे तद्वत्पञ्चकोलगुडान्विताम्।सिद्धां समतिलां दद्यात्क्षीरे वाऽपि ससैन्धवाम्॥ ७९ ॥
मात्स्यकौक्कुटवाराहैरामिषैर्वा घृतान्विताम्।सिद्धां ससैन्धवां पेयां वातकासी पिबेन्नरः॥ ८० ॥
वास्तुको वायसीशाकं मूलकं सुनिषण्णकम्।स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः॥ ८१ ॥
दध्यारनालाम्लफलप्रसन्नापानमेव च।शस्यते वातकासे तु स्वाद्वम्ललवणानि च॥इति वातकासचिकित्सा।
पैत्तिके सकफे कासे वमनं सर्पिषा हितम्।तथा मदनकाश्मर्यमधुकक्कथितैर्जलैः॥ ८३ ॥
यष्ट्याह्वफलकल्कैर्वा विदारीक्षुरसायुतैः।हृतदोषस्ततः शीतं मधुरं च क्रमं भजेत्॥ ८४ ॥
पैत्ते तनुकफे कासे त्रिवृतां मधुरैर्युताम्।दद्याद्घनकफे तिक्तैर्विरेकार्थे युतां भिषक्॥ ८५ ॥
स्निग्धशीतस्तनुकफे रूक्षशीतः कफे घने।क्रमः कार्यः परं भोज्यैः स्नेहैर्लेहैश्च शस्यते॥ ८६ ॥
शृङ्गाटकं पद्मबीजं नीलीसाराणि पिप्पली।पिप्पलीमुस्तयष्ट्याह्वद्राक्षामूर्वामहौषधम्॥ ८७ ॥
लाजाऽमृतफला द्राक्षा त्वक्क्षीरी पिप्पली सिता।पिप्पलीपद्मकद्राक्षा बृहत्याश्च फलाद्रसः॥ ८८ ॥
खर्जूरं पिप्पली वांशी श्वदंष्ट्रा चेति पञ्च ते।घृतक्षौद्रयुता लेहाः श्लोकार्धैः पित्तकासिनाम्॥ ८९ ॥
शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलैः।पैत्ते, समुस्तमरिचः सकफे, सघृतोऽनिले॥ ९० ॥
मृद्वीकार्धशतं त्रिंशत्पिप्पलीः शर्करापलम्।लेहयेन्मधुना गोर्वा क्षीरपं च शकृद्रसम्॥ ९१ ॥
त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः।लाजामुस्तशटीरास्नाधात्रीफलबिभीतकैः॥ ९२ ॥
शर्कराक्षौद्रसर्पिर्भिर्लेहः कासविनाशनः।श्वासं हिक्कां क्षयं चैव हृद्रोगं च प्रणाशयेत्॥ ९३ ॥
पिप्पल्यामलकं द्राक्षां लाक्षां लाजां सितोपलाम्।क्षीरे पक्त्वा घनं शीतं लिह्यात् क्षौद्राष्टभागिकम्॥ ९४ ॥
विदारीक्षुमृणालानां रसान् क्षीरं सितोपलाम्।पिबेद्वा मधुसंयुक्तं पित्तकासहरं परम्॥ ९५ ॥
मधुरैर्जाङ्गलरसैः श्यामाकयवकोद्रवाः।मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः॥ ९६ ॥
घनश्लेष्मणि लेहास्तु तिक्तका मधुसंयुताः।शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः॥ ९७ ॥
शर्कराम्भोऽनुपानार्थं द्राक्षेक्षूणां रसाः पयः।सर्वं च मधुरं शीतमविदाहि प्रशस्यते॥ ९८ ॥
काकोलीबृहतीमेदायुग्मैः सवृषनागरैः।पित्तकासे रसान् क्षीरं यूषांश्चाप्युपकल्पयेत्॥ ९९ ॥
शरादिपञ्चमूलस्य पिप्पलीद्राक्षयोस्तथा।कषायेण शृतं क्षीरं पिबेत् समधुशर्करम्॥ १०० ॥
स्थिरासितापृश्निपर्णीश्रावणीबृहतीयुगैः।जीवकर्षभकाकोलीतामलक्यृद्धिजीवकैः॥ १०१ ॥
शृतं पयः पिबेत् कासी ज्वरी दाही क्षतक्षयी।तज्जं वा साधयेत् सर्पिः सक्षीरेक्षुरसं भिषक्॥ १०२ ॥
जीवकाद्यैर्मधुरकैः फलैश्चाभिषुकादिभिः।कल्कैस्त्रिकार्षिकैः सिद्धे पूतशीते प्रदापयेत्॥ १०३ ॥
शर्करापिप्पलीचूर्णं त्वक्क्षीर्या मरिचस्य च।शृङ्गाटकस्य चावाप्य क्षौद्रगर्भान्पलोन्मितान्॥ १०४ ॥
गुडान् गोधूमचूर्णेन कृत्वा खादेद्धिताशनः।शुक्रासृग्दोषशोषेषु कासे क्षीणक्षतेषु च॥ १०५ ॥
शर्करानागरोदीच्यं कण्टकारीं शटीं समम्।पिष्ट्वा रसं पिबेत्पूतं वस्त्रेण घृतमूर्च्छितम्॥ १०६ ॥
महिष्यजाविगोक्षीरधात्रीफलरसैः समैः।सर्पिः सिद्धं पिबेद्युक्त्या पित्तकासनिबर्हणम्॥इति पित्तकासचिकित्सा।
बलिनं वमनैरादौ शोधितं कफकासिनम्।यवान्नैः कटुरूक्षोष्णैः कफघ्नैश्चाप्युपाचरेत्॥ १०८ ॥
पिप्पलीक्षारिकैर्यूषैः कौलत्थैर्मूलकस्य च।लघून्यन्नानि भुञ्जीत रसैर्वा कटुकान्वितैः॥ १०९ ॥
धान्वबैलरसैः स्नेहैस्तिलसर्षपबिल्वजैः।मध्वम्लोष्णाम्बुतक्रं वा मद्यं वा निगदं पिबेत्॥ ११० ॥
पौष्करारग्वधं मूलं पटोलं तैर्निशास्थितम्।जलं मधुयुतं पेयं कालेष्वन्नस्य वा त्रिषु॥ १११ ॥
कट्फलं कत्तृणं भार्गीं मुस्तं धान्यं वचाभये।शुण्ठीं पर्पटकं शृङ्गीं सुराह्वं च शृतं जले॥ ११२ ॥
मधुहिङ्गुयुतं पेयं कासे वातकफात्मके।कण्ठरोगे मुखे शूने श्वासहिक्काज्वरेषु च॥ ११३ ॥
पाठां शुण्ठीं मूर्वां गवाक्षीं मुस्तपिप्पलीम्।पिष्ट्वा घर्माम्बुना हिङ्गुसैन्धवाभ्यां युतां पिबेत्॥ ११४ ॥
नागरातिविषे मुस्तं शृङ्गीं कर्कटकस्य च।हरीतकीं शटीं चैव तेनैव विधिना पिबेत्॥ ११५ ॥
तैलभृष्टं च पिप्पल्याः कल्काक्षं ससितोपलम्।पिबेद्वा श्लेष्मकासघ्नं कुलत्थरससंयुतम्॥ ११६ ॥
कासमर्दाश्वविट्भृङ्गराजवार्ताकजो रसः।सक्षौद्रः कफकासघ्नः सुरसस्यासितस्य च॥ ११७ ॥
देवदारु शटी रास्ना कर्कटाख्या दुरालभा।पिप्पली नागरं मुस्तं पथ्याधात्रीसितोपलाः॥ ११८ ॥
मधुतैलयुतावेतौ लेहौ वातानुगे कफे।पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली॥ ११९ ॥
पथ्या तामलकी धात्री भद्रमुस्ता च पिप्पली।देवदार्वभया मुस्तं पिप्पली विश्वभेषजम्॥ १२० ॥
विशाला पिप्पली मुस्तं त्रिवृता चेति लेहयेत्।चतुरो मधुना लेहान् कफकासहरान् भिषक्॥ १२१ ॥
सौवर्चलाभयाधात्रीपिप्पलीक्षारनागरम्।चूर्णितं सर्पिषा वातकफकासहरं पिबेत्॥ १२२ ॥
दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत्।पुष्कराह्वशटीबिल्वसुरसव्योषहिङ्गुभिः॥ १२३ ॥
पेयानुपानं तत् पेयं कासे वातकफात्मके।श्वासरोगेषु सर्वेषु कफवातात्मकेषु च॥इति दशमूलादिघृतम्।
समूलफलपत्रायाः कण्टकार्या रसाढके।घृतप्रस्थं बलाव्योषविडङ्गशटिचित्रकैः॥ १२५ ॥
सौवर्चलयवक्षारपिप्पलीमूलपौष्करैः।वृश्चीरबृहतीपथ्यायवानीदाडिमर्धिभिः॥ १२६ ॥
द्राक्षापुनर्नवाचव्यदुरालम्भाम्लवेतसैः।शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत्॥ १२७ ॥
कल्कैस्तत् सर्वकासेषु हिक्काश्वासेषु शस्यते।कण्टकारीघृतं ह्येतत् कफव्याधिनिसूदनम्॥इति कण्टकारीघृतम्।
कुलत्थरसयुक्तं वा पञ्चकोलशृतं घृतम्।पाययेत् कफजे कासे हिक्काश्वासे च शस्यते॥इति कुलत्थादिघृतम्।
धूमांस्तानेव दद्याच्च ये प्रोक्ता वातकासिनाम्।कोशातकीफलान्मध्यं पिबेद्वा समनःशिलम्॥ १३० ॥
तमकः कफकासे तु स्याच्चेत् पित्तानुबन्धजः।पित्तकासक्रियां तत्र यथावस्थं प्रयोजयेत्॥ १३१ ॥
वाते कफानुबन्धे तु कुर्यात् कफहरीं क्रियाम्।पित्तानुबन्धयोर्वातकफयोः पित्तनाशिनीम्॥ १३२ ॥
आर्द्रे विरूक्षणं, शुष्के स्निग्धं, वातकफात्मके।कासेऽन्नपानं कफजे सपित्ते तिक्तसंयुतम्॥इति कफजकासचिकित्सा।
कासमात्ययिकं मत्वा क्षतजं त्वरया जयेत्।मधुरैर्जीवनीयैश्च बलमांसविवर्धनैः॥ १३४ ॥
पिप्पली मधुकं पिष्टं कार्षिकं ससितोपलम्।प्रास्थिकं गव्यमाजं च क्षीरमिक्षुरसस्तथा॥ १३५ ॥
यवगोधूममृद्वीकाचूर्णमामलकाद्रसः।तैलं च प्रसृतांशानि तत् सर्वं मृदुनाऽग्निना॥ १३६ ॥
पचेल्लेहं घृतक्षौद्रयुक्तः स क्षतकासहा।श्वासहृद्रोगकार्श्येषु हितो वृद्धेऽल्परेतसि॥ १३७ ॥
क्षतकासाभिभूतानां वृत्तिः स्यात् पित्तकासिकी।क्षीरसर्पिर्मधुप्राया संसर्गे तु विशेषणम्॥ १३८ ॥
वातपित्तार्दितेऽभ्यङ्गो गात्रभेदे घृतैर्हितः।तैलैर्मारुतरोगघ्नैः पीड्यमाने च वायुना॥ १३९ ॥
हृत्पार्श्वार्तिषु पानं स्याज्जीवनीयस्य सर्पिषः।सदाहं कासिनो रक्तं ष्ठीवतः सबलेऽनले॥ १४० ॥
मांसोचितेभ्यः क्षामेभ्यो लावादीनां रसा हिताः।तृष्णार्तानां पयश्छागं शरमूलादिभिः शृतम्॥ १४१ ॥
रक्ते स्रोतोभ्य आस्याद्वाऽप्यागते क्षीरजं घृतम्।नस्यं पानं यवागूर्वा श्रान्ते क्षामे हतानले॥ १४२ ॥
स्तम्भायामेषु महतीं मात्रां वा सर्पिषः पिबेत्।कुर्याद्वा वातरोगघ्नं पित्तरक्ताविरोधि यत्॥ १४३ ॥
निवृत्ते क्षतदोषे तु कफे वृद्ध उरः क्षते।दाल्यते कासिनो यस्य स धूमान्ना पिबेदिमान्॥ १४४ ॥
द्वे मेदे मधुक्रं द्वे च बले तैः क्षौमलक्तकैः।वर्तितैर्धूममापीय जीवनीयघृतं पिबेत्॥ १४५ ॥
मनःशिलापलाशाजगन्धात्वक्क्षीरिनागरैः।भावयित्वा पिबेत् क्षौममनु चेक्षुगुडोदकम्॥ १४६ ॥
पिष्ट्वा मनःशिलां तुल्यामार्द्रया वटशुङ्गया।ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनम्॥ १४७ ॥
भावितं जीवनीयैर्वा कुलिङ्गाण्डरसायुतैः।क्षौमं धूमं पिबेत् क्षीरं शृतं चायोगुडैरनु॥इति क्षतजकासचिकित्सा।
संपूर्णरूपं क्षयजं दुर्बलस्य विवर्जयेत्।नवोत्थितं बलवतः प्रत्याख्यायाचरेत् क्रियाम्॥ १४९ ॥
तस्मै बृंहणमेवादौ कुर्यादग्नेश्च दीपनम्।बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम्॥ १५० ॥
शम्पाकेन त्रिवृतया मृद्वीकारसयुक्तया।तिल्वकस्य कषायेण विदारीस्वरसेन च॥ १५१ ॥
सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम्।(हितं तद्देहबलयोरस्य संरक्षणं मतम्॥)
पित्ते कफे च संक्षीणे परिक्षीणेषु धातुषु।घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत्॥ १५३ ॥
विदारीभिः कदम्बैर्वा तालसस्यैस्तथा शृतम्।घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे॥ १५४ ॥
शूने सवेदने मेढ्रे पायौ सश्रोणिवंक्षणे।घृतमण्डेन मधुनाऽनुवास्यो मिश्रकेण वा॥ १५५ ॥
जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः।क्रमशः प्रसहाश्चैव प्रयोज्याः पिशिताशिनः॥ १५६ ॥
औष्ण्यात् प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते।कफं, शुद्धैश्च तैः पुष्टिं कुर्यात्सम्यग्वहन्रसः॥ १५७ ॥
द्विपञ्चमूलीत्रिफलाचविकाभार्गिचित्रकैः।कुलत्थपिप्पलीमूलपाठकोलयवैर्जले॥ १५८ ॥
शृतैर्नागरदुःस्पर्शापिप्पलीशटिपौष्करैः।कलैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत्॥ १५९ ॥
सिद्धेऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च।दत्त्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडितः॥इति द्विपञ्चमूलादिघृतम्।
गुडूचीं पिप्पलीं मूर्वां हरिद्रां श्रेयसीं वचाम्।निदिग्धिकां कासमर्दं पाठां चित्रकनागरम्॥ १६१ ॥
जले चतुर्गुणे पक्त्वा पादशेषेण तत्समम्।सिद्धं सर्पिः पिबेद्गुल्मश्वासार्तिक्षयकासनुत्॥इति गुडूच्यादिघृतम्।
कासमर्दाभयामुस्तपाठाकट्फलनागरैः।पिप्पलीकटुकाद्राक्षाकाश्मर्यसुरसैस्तथा॥ १६३ ॥
अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके।पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम्॥ १६४ ॥
धात्रीफलैः क्षीरसिद्धैः सर्पिर्वाऽप्यवचूर्णितम्।द्विगुणे दाडिमरसे विपक्वं व्योषसंयुतम्॥ १६५ ॥
पिबेदुपरि भक्तस्य यवक्षारघृतं नरः।पिप्पलीगुडसिद्धं वा च्छागक्षीरयुतं घृतम्॥ १६६ ॥
एतान्यग्निविवृद्ध्यर्थं सर्पींषि क्षयकासिनाम्।स्युर्दोषबद्धकोष्ठोरःस्रोतसां च विशुद्धये॥ १६७ ॥
हरीतकीर्यवक्वाथद्व्याढके विंशतिं पचेत्।स्विन्ना मृदित्वा तास्तस्मिन् पुराणं गुडषट्पलम्॥ १६८ ॥
दद्यान्मनःशिलाकर्षं कर्षांर्धं च रसाञ्जनात्।कुडवार्धं च पिप्प्ल्याः स लेहः श्वासकासनुत्॥इति हरीतकीलेहः।
श्वाविधः सूचयो दग्धाः सघृतक्षौद्रशर्कराः।श्वासकासहरा बर्हिपादौ वा क्षौद्रसर्पिषा॥ १७० ॥
एरण्डपत्रक्षारं वा व्योषतैलगुडान्वितम्।लिह्यादेतेन विधिना सुरसैरण्डपत्रजम्॥ १७१ ॥
द्राक्षापद्मकवार्ताकपिप्पलीः क्षौद्रसर्पिषा।लिह्यात्त्र्यूषणचूर्णं वा पुराणगुडसर्पिषा॥ १७२ ॥
चित्रकं त्रिफलाजाजी कर्कटाख्या कटुत्रिकम्।द्राक्षां च क्षौद्रसर्पिर्भ्यां लिह्यादद्याद्गुडेन वा॥ १७३ ॥
पद्मकं त्रिफलां व्योषं विडङ्गं सुरदारु च।बलां रास्नां च तुल्यानि सूक्ष्मचूर्णानि कारयेत्॥ १७४ ॥
सर्वैरेभिः समं चूर्णैः पृथक् क्षौद्रं घृतं सिताम्।विमथ्य लेहयेल्लेहं सर्वकासहरं शिवम्॥ १७५ ॥
जीवन्तीं मधुकं पाठां त्वक्क्षीरीं त्रिफलां शटीम्।मुस्तैले पद्मकं द्राक्षां द्वे बृहत्यौ वितुन्नकम्॥ १७६ ॥
सारिवां पौष्करं मूलं कर्कटाख्यां रसाञ्जनम्।पुनर्नवां लोहरजस्त्रायमाणां यवानिकाम्॥ १७७ ॥
भार्गीं तामलकीमृद्धिं विडङ्गं धन्वयासकम्।क्षारचित्रकचव्याम्लवेतसव्योषदारु च॥ १७८ ॥
चूर्णीकृत्य समांशानि लेहयेत् क्षौद्रसर्पिषा।चूर्णात्पाणितलं पञ्च कासानेतद् व्यपोहति॥इति पद्मकादिलेहः।
लिह्यान्मरिचचूर्णं वा सघृतक्षौद्रशर्करम्।बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम्॥ १८० ॥
स्वरभेदे च कासे च लेहमेतं प्रयोजयेत्।पत्रकल्कं घृतैर्भृष्टं तिल्वकस्य सशर्करम्॥ १८१ ॥
पेया चोत्कारिका च्छर्दितृट्कासामातिसारनुत्।गौरसर्षपगण्डीरविडङ्गव्योषचित्रकान्।साभयान् साधयेत्तोये यवागूं तेन चाम्भसा॥ १८२ ॥
ससर्पिर्लवणां कासे हिक्काश्वासे सपीनसे।पाण्ड्वामये क्षये शोथे कर्णशूले च दापयेत्॥ १८३ ॥
कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः।सगौरामलकः साम्लः सर्वकासभिषग्जितम्॥ १८४ ॥
वातघ्नौषधनिष्क्वाथं क्षीरं यूषान् रसानपि।वैष्किरप्रतुदान् बैलान् दापयेत् क्षयकासिने॥ १८५ ॥
क्षतकासे च ये धूमाः सानुपाना निदर्शिताः।क्षयकासेऽपि तानेव यथावस्थं प्रयोजयेत्॥ १८६ ॥
दीपनं बृंहणं चैव स्रोतसां च विशोधनम्।व्यत्यासात्क्षयकासिभ्यो बल्यं सर्वं हितं भवेत्॥ १८७ ॥
सन्निपातभवोऽप्येष क्षयकासः सुदारुणः।सन्निपातहितं तस्मात् सदा कार्यं भिषग्जितम्॥ १८८ ॥
दोषानुबलयोगाच्च हरेद्रोगबलाबलम्।कासेष्वेषु गरीयांसं जानीयादुत्तरोत्तरम्॥ १८९ ॥
भोज्यं पानानि सर्पींषि लेहाश्च सह पानकैः।क्षीरं सर्पिर्गुडा धूमाः कासभैषज्यसंग्रहः॥ १९० ॥
तत्र श्लोकः-संख्या निमित्तं रूपाणि साध्यासाध्यत्वमेव च।कासानां भेडजं प्रोक्तं गरीयस्त्वं च कासिनः॥ १९१ ॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने कासचिकित्सितं नामाष्टादशोऽध्यायः॥१८॥