भारत संहिता

अध्याय २८

वातव्याधिचिकित्सितम्

वात-रोगों की चिकित्सा

इस अध्याय में (अध्याय का अपना सार, श्लोक २४८-२४९)

तत्र श्लोकौ-पञ्चात्मनः स्थानवशाच्छरीरे स्थानानि कर्माणि च देहधातोः।प्रकोपहेतुः कुपितश्च रोगान् स्थानेषु चान्येषु वृतोऽवृतश्च॥

श्लोक २४८ →

प्राणेश्वरः प्राणभृतां करोति क्रिया च तेषामखिला निरुक्ता।तां देशसात्म्यर्तुबलान्यवेक्ष्य प्रयोजयेच्छास्त्रमतानुसारी॥

श्लोक २४९ →

मूल पाठ के किसी शब्द पर टैप करें - उसका अर्थ दिखेगा।

च. चि. २८/१

अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः॥ १ ॥

च. चि. २८/२

इति ह स्माह भगवानात्रेयः॥ २ ॥

च. चि. २८/३

वायुरायुर्बलं वायुर्वायुर्धाता शरीरिणाम्।वायुर्विश्वमिदं सर्वं प्रभुर्वायुश्च कीर्तितः॥ ३ ॥

च. चि. २८/४

अव्याहतगतिर्यस्य स्थानस्थः प्रकृतौ स्थितः।वायुः स्यात्सोऽधिकं जीवेद्वीतरोगः समाः शतम्॥ ४ ॥

च. चि. २८/५

प्राणोदानसमानाख्यव्यानापानैः स पञ्चधा।देहं तन्त्रयते सम्यक् स्थानेष्वव्याहतश्चरन्॥ ५ ॥

च. चि. २८/६

स्थानं प्राणस्य मूर्धोरःकण्ठजिह्वास्यनासिकाः।ष्ठीवनक्षवथूद्गारश्वासाहारादि कर्म च॥ ६ ॥

च. चि. २८/७

उदानस्य पुनः स्थानं नाभ्युरः कण्ठ एव च।वाक्प्रवृत्तिः प्रयत्नौर्जोबलवर्णादि कर्म च॥ ७ ॥

च. चि. २८/८

स्वेददोषाम्बुवाहीनि स्रोतांसि समधिष्ठितः।अन्तरग्नेश्च पार्श्वथः समानोऽग्निबलप्रदः॥ ८ ॥

च. चि. २८/९

देहं व्याप्नोति सर्वं तु व्यानः शीघ्रगतिर्नृणाम्।गतिप्रसारणाक्षेपनिमेषादिक्रियः सदा॥ ९ ॥

च. चि. २८/१०

वृषणौ बस्तिमेढ्रं च नाभ्यूरू वंक्षणौ गुदम्।अपानस्थानमन्त्रस्थः शुक्रमूत्रशकृन्ति च॥ १० ॥

च. चि. २८/११

सृजत्यार्तवगर्भौ च युक्ताः स्थानस्थिताश्च ते।स्वकर्म कुर्वते देहो धार्यते तैरनामयः॥ ११ ॥

च. चि. २८/१२

विमार्गस्था ह्ययुक्ता वा रोगैः स्वस्थानकर्मजैः।शरीरं पीडयन्त्येते प्राणानाशु हरन्ति च॥ १२ ॥

च. चि. २८/१३

सङ्ख्यामप्यतिवृत्तानां तज्जानां हि प्रधानतः।अशीतिर्नखभेदाद्या रोगाः सूत्रे निदर्शिताः॥ १३ ॥

च. चि. २८/१४

तानुव्यमानान् पर्यायैः सहेतूपक्रमाञ्छृणु।केवलं वायुमुद्दिश्य स्थानभेदात्तथाऽऽवृतम्॥ १४ ॥

च. चि. २८/१५

रूक्षशीताल्पलघ्वन्नव्यवायातिप्रजागरैः।विषमादुपचाराच्च दोषासृक्स्रवणादति॥ १५ ॥

च. चि. २८/१६

लङ्घनप्लवनात्यध्वव्यायामातिविचेष्टितैः।धातूनां संक्षयाच्चिन्ताशोकरोगातिकर्षणात्॥ १६ ॥

च. चि. २८/१७

दुःखशय्यासनात् क्रोधाद्दिवास्वप्नाद्भयादपि।वेगसंधारणादामादभिघातादभोजनात्॥ १७ ॥

च. चि. २८/१८

मर्माघाताद्गजोष्ट्राश्वशीघ्रयानापतंसनात्।देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली॥ १८ ॥

च. चि. २८/१९

करोति विविधान् व्याधीन् सर्वाङ्गैकाङ्गसंश्रितान्।अव्यक्तं लक्षणं तेषां पूर्वरूपमिति स्मृतम्॥ १९ ॥

च. चि. २८/२०

आत्मरूपं तु तद्व्यक्तमपायो लघुता पुनः।सङ्कोचः पर्वणां स्तम्भो भेदोऽस्थ्नां पर्वणामपि॥ २० ॥

च. चि. २८/२१

लोमहर्षः प्रलापश्च पाणिपृष्ठशिरोग्रहः।खाञ्ज्यपाङ्गुल्यकुब्जत्वं शोषोऽङ्गानामनिद्रता॥ २१ ॥

च. चि. २८/२२

गर्भशुक्ररजोनाशः स्पन्दनं गात्रसुप्तता।शिरोनासाक्षिजत्रूणां ग्रीवायाश्चापि हुण्डनम्॥ २२ ॥

च. चि. २८/२३

भेदस्तोदार्तिराक्षेपो मोहश्चायास एव च।एवंविधानि रूपाणि करोति कुपितोऽनिलः॥ २३ ॥

च. चि. २८/२४

हेतुस्थानविशेषाच्च भवेद्रोगविशेषकृत्।तत्र कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसो॥ २४ ॥

च. चि. २८/२५

ब्रध्नहृद्रोगगुल्मार्शःपार्श्वशूलं च मारुते।सर्वाङ्गकुपिते वाते गात्रस्फुरणभञ्जने॥ २५ ॥

च. चि. २८/२६

वेदनाभिः परीतश्च स्फुटन्तीवास्य सन्धयः।ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः॥ २६ ॥

च. चि. २८/२७

जङ्गोरुत्रिकपात्पृष्ठरोगशोषौ गुदस्थिते।हृन्नाभिपार्श्वोदररुक्तृष्णोद्गारविसूचिकाः॥ २७ ॥

च. चि. २८/२८

कासः कण्ठास्यशोषश्च श्वासश्चामाशयस्थिते।पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च॥ २८ ॥

च. चि. २८/२९

कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम्।श्रोत्रादिष्विन्द्रियवधं कुर्याद्दुष्टसमीरणः॥ २९ ॥

च. चि. २८/३०

त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते।आतन्यते सरागा च पर्वरुक् त्वक्स्थितेऽनिले॥ ३० ॥

च. चि. २८/३१

रुजस्तीव्राः ससंतापा वैवर्ण्यं कृशताऽरुचिः।गात्रे चारूंषि भुक्तस्य स्तम्भश्चासृग्गतेऽनिले॥ ३१ ॥

च. चि. २८/३२

गुर्वङ्गं तुद्यतेऽत्यर्थं दण्डमुष्टिहतं तथा।सरुक् श्रमितमत्यर्थं मांसमेदोगतेऽनिले॥ ३२ ॥

च. चि. २८/३३

भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः।अस्वप्नः संतता रुक् च मज्जास्थिकुपितेऽनिले॥ ३३ ॥

च. चि. २८/३४

क्षिप्रं मुञ्चति बध्नाति शुक्रं गर्भमथापि वा।विकृतिं जनयेच्चापि शुक्रस्थः कुपितेऽनिलः॥ ३४ ॥

च. चि. २८/३५

बाह्याभ्यन्तरमायामं खल्लिं कुब्जत्वमेव च।सर्वाङ्गैकाङ्गरोगांश्च कुर्यात् स्नायुगतोऽनिलः॥ ३५ ॥

च. चि. २८/३६

शरीरं मन्दरुक्शोफं शुष्यति स्पन्दते तथा।सुप्तास्तन्व्यो महत्यो वा सिरा वाते सिरागते॥ ३६ ॥

च. चि. २८/३७

वातपूर्णदृतिस्पर्शः शोथः सन्धिगतेऽनिले।प्रसारणाकुञ्चनयोः प्रवृत्तिश्च सवेदना॥ ३७ ॥

च. चि. २८/३८

(इत्युक्तं स्थानभेदेन वायोर्लक्षणमेव च।) अतिवृद्धः शरीरार्धमेकं वायुः प्रपद्यते।यदा तदोपशोष्यासृग्बाहुं पादं च जानु च॥ ३८ ॥

च. चि. २८/३९

तस्मिन् सङ्कोचयत्यर्धे मुखं जिह्मं करोति च।वक्रीकरोति नासाभ्रूललाटाक्षिहनूस्तथा॥ ३९ ॥

च. चि. २८/४०

ततो वक्रं व्रजत्यास्ये भोजनं वक्रनासिकम्।स्तब्धं नेत्रं कथयतः क्षवथुश्च निगृह्यते॥ ४० ॥

च. चि. २८/४१

दिना जिह्मा समुत्क्षिप्ता कला सज्जति चास्य वाक्।दन्ताश्चलन्ति बाध्येते श्रवणौ भिद्यते स्वरः॥ ४१ ॥

च. चि. २८/४२

पादहस्ताक्षिजङ्घोरुशङ्खश्रवणगण्डरुक्।अर्धे तस्मिन्मुखार्धे वा केवले स्यात्तदर्दितम्॥ ४२ ॥

च. चि. २८/४३

मन्ये संश्रित्य वातोऽन्तर्यदा नाडीः प्रपद्यते।मन्यास्तम्भं तदा कुर्यादन्तरायामसंज्ञितम्॥ ४३ ॥

च. चि. २८/४४

अन्तरायम्यते ग्रीवा मन्या च स्तभ्यते भृशम्।दन्तानां दंशनं लाला पृष्ठायामः शिरोग्रहः॥ ४४ ॥

च. चि. २८/४५

जृम्भा वदनसङ्गश्चाप्यन्तरायामलक्षणम्।(इत्युक्तस्त्वन्तरायामो बहिरायाम उच्यते॥)

च. चि. २८/४६

पृष्ठमन्याश्रिता बाह्याः शोषयित्वा सिरा बली।वायुः कुर्याद्धनुस्तम्भं बहिरायामसंज्ञकम्॥ ४६ ॥

च. चि. २८/४७

चापवन्नाम्यमानस्य पृष्ठतो नीयते शिरः।उर उत्क्षिप्यते मन्या स्तब्धा ग्रीवाऽवमृद्यते॥ ४७ ॥

च. चि. २८/४८

दन्तानां दशनं जृम्भा लालास्रावश्च वाग्ग्रहः।जातवेगो निहन्त्येष वैकल्यं वा प्रयच्छति॥ ४८ ॥

च. चि. २८/४९

हनुमूले स्थितो बन्धात् संस्रयत्यनिलो हनू।विवृतास्यत्वमथवा कुर्यात् स्तब्धमवेदनम्॥ ४९ ॥

च. चि. २८/५०

हनुग्रहं च संस्तभ्य हनुं(नू)संवृतवक्रताम्।मुहुराक्षिपति क्रुद्धो गात्राण्याक्षेपकोऽनिलः॥ ५० ॥

च. चि. २८/५१

पाणिपादं च संशोष्य सिराः सस्नायुकण्डराः।पाणिपादशिरःपृष्ठश्रोणीः स्तभ्नाति मारुतः॥ ५१ ॥

च. चि. २८/५२

दण्डवत्स्तब्धगात्रस्य दण्डकः सोऽनुपक्रमः।स्वस्थः स्यादर्दितादीनां मुहुर्वेगे गतेऽगते॥ ५२ ॥

च. चि. २८/५३

पीड्यते पीडनैस्तैस्तैर्भिषगेतान् विवर्जयेत्।हत्वैकं मारुतः पक्षं दक्षिणं वाममेव वा॥ ५३ ॥

च. चि. २८/५४

कुर्याच्चेष्टानिवृत्तिं हि रुजं वाक्स्तम्भमेव च।गृहीत्वाऽर्धं शरीरस्य सिराः स्नायूर्विशोष्य च॥ ५४ ॥

च. चि. २८/५५

पादं संकोचयत्येकं हस्तं वा तोदशूलकृत्।एकाङ्गरोगं तं विद्यात् सर्वाङ्गं सर्वदेहजम्॥ ५५ ॥

च. चि. २८/५६

स्फिक्पूर्वा कटिपृष्ठोरुजानुजङ्घापदं क्रमात्।गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः॥ ५६ ॥

च. चि. २८/५७

वाताद्वातकफात्तन्द्रागौरवारोचकान्विता।खल्ली तु पादजङ्गोरुकरमूलावमोटनी॥ ५७ ॥

च. चि. २८/५८

स्थानानामनुरूपैश्च लिङ्गैः शेषान् विनिर्दिशेत्।सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत्॥ ५८ ॥

च. चि. २८/५९

वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन च (वा)।वातपित्तकफा देहे सर्वस्रोतोऽनुसारिणः॥ ५९ ॥

च. चि. २८/६०

वायुरेव हि सूक्ष्मत्वाद्द्बयोस्तत्राप्युदीरणः।कुपितस्तौ समुद्धूय तत्र तत्र क्षिपन् गदान्॥ ६० ॥

च. चि. २८/६१

करोत्यावृतमार्गत्वाद्रसादींश्चोपशोषयेत्।लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः॥ ६१ ॥

च. चि. २८/६२

कट्वम्ललवणोष्णैश्च विदाहः शीतकामिता।शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम्॥ ६२ ॥

च. चि. २८/६३

लङ्घनायासरूक्षोष्णकामिता च कफावृते।रक्तावृते सदाहार्तिस्त्वड्मांसान्तरजो भृशम्॥ ६३ ॥

च. चि. २८/६४

भवेत् सरागः श्वयथुर्जायन्ते मण्डलानि च।कठिनाश्च विवर्णाश्च पिडकाः श्वयथुस्तथा॥ ६४ ॥

च. चि. २८/६५

हर्षः पिपीलिकानां च संचार इव मांसगे।चलः स्निग्धो मृदुः शीतः शोफोऽङ्गेष्वरुचिस्तथा॥ ६५ ॥

च. चि. २८/६६

आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृतः।स्पर्शमस्थ्नाऽऽवृते तूष्णं पीडनं चाभिनन्दति॥ ६६ ॥

च. चि. २८/६७

संभज्यते सीदति च सूचीभिरिव तुद्यते।मज्जावृते विनामः स्याज्जृम्भणं परिवेष्टनम्॥ ६७ ॥

च. चि. २८/६८

शूलं तु पीड्यमाने च पाणिभ्यां लभते सुखम्।शुक्रावेगोऽतिवेगो वा निष्फलत्वं च शुक्रगे॥ ६८ ॥

च. चि. २८/६९

भुक्ते कुक्षौ च रुग्जीर्णे शाम्यत्यन्नावृतेऽनिले।मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृतेऽनिले॥ ६९ ॥

च. चि. २८/७०

वर्चसोऽतिविबन्धोऽधः स्वे स्थाने परिकृन्तति।व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः॥ ७० ॥

च. चि. २८/७१

चिरात् पीडितमन्नेन दुःखं शुष्कं शकृत् सृजेत्।श्रोणीवंक्षणपृष्ठेषु रुग्विलोमश्च मारुतः॥ ७१ ॥

च. चि. २८/७२

अस्वस्थं हृदयं चैव वर्चसा त्वावृतेऽनिले।सन्धिच्युतिर्हनुस्तम्भः कुञ्चनं कुब्जताऽर्दितः॥ ७२ ॥

च. चि. २८/७३

एक्षाघातोऽङ्गसंशोषः पङ्गुत्वं खुडवातता।स्तम्भनं चाढ्यवातश्च रोगा मज्जास्थिगाश्च ये॥ ७३ ॥

च. चि. २८/७४

एते स्थानस्य गाम्भीर्याद्यत्नात् सिध्यन्ति वा च वा।नवान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान्॥ ७४ ॥

च. चि. २८/७५

क्रियामतः परं सिद्धां वातरोगापहां शृणु।केवलं निरुपस्तम्भमादौ स्नेहैरुपाचरेत्॥ ७५ ॥

च. चि. २८/७६

वायुं सर्पिर्वसातैलमज्जपानैर्नरं ततः।स्नेहक्लान्तं समाश्वास्य पयोभिः स्नेहयेत् पुनः॥ ७६ ॥

च. चि. २८/७७

यूषैर्ग्राम्याम्बुजानूपरसैर्वा स्नेहसंयुतैः।पायसैः कृशरैः साम्ललवणैरनुवासनैः॥ ७७ ॥

च. चि. २८/७८

नावनैस्तर्पणैश्चान्नैः सुस्निग्धं स्वेदयेत्ततः।स्वभ्यक्तं स्नेहसंयुक्तैर्नाडीप्रस्तरसङ्करैः॥ ७८ ॥

च. चि. २८/७९

तथाऽन्यैर्विविधैः स्वेदैर्यथायोगमुपाचरेत्।स्नेहाक्तं स्विन्नमङ्गं तु वक्रं स्तब्धमथापि वा॥ ७९ ॥

च. चि. २८/८०

शनैर्नामयितुं शक्यं यथेष्टं शुष्कदारुवत्।हर्षतोदरुगायामशोथस्तम्भग्रहादयः॥ ८० ॥

च. चि. २८/८१

स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते।स्नेहश्च धातून्संशुष्कान् पुष्णात्याशु प्रयोजितः॥ ८१ ॥

च. चि. २८/८२

बलमग्निबलं पुष्टिं प्राणांश्चाप्यभिवर्धयेत्।असकृत्तं पुनः स्नेहैः स्वेदैश्चाप्युपपादयेत्॥ ८२ ॥

च. चि. २८/८३

तथा स्नेहमृदौ कोष्ठे न तिष्ठन्त्यनिलामयाः।यद्यनेन सदोषत्वात् कर्मणा न प्रशाम्यति॥ ८३ ॥

च. चि. २८/८४

मृदुभिः स्नेहसंयुक्तैरौषधैस्तं विशोधयेत्।घृतं तिल्वकसिद्धं वा सातलासिद्धमेव वा॥ ८४ ॥

च. चि. २८/८५

पयसैरण्डतैलं वा पिबेद्दोषहरं शिवम्।स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः॥ ८५ ॥

च. चि. २८/८६

स्रोतो बद्ध्वाऽनिलं रुन्ध्यात्तस्मात्तमनुलोमयेत्।दुर्बलो योऽविरेच्यः स्यात्तं निरूहैरुपाचरेत्॥ ८६ ॥

च. चि. २८/८७

पाचनैर्दीपनीयैर्वा भोजनैस्तद्युतैर्नरम्।संशुद्धस्योत्थिते चाग्नौ स्नेहस्वेदौ पुनर्हितौ॥ ८७ ॥

च. चि. २८/८८

स्वाद्वम्ललवणस्निग्धैराहारैः सततं पुनः।नावनैर्धूमपानैश्च सर्वानेवोपपादयेत्॥ ८८ ॥

च. चि. २८/८९

इति सामान्यतः प्रोक्तं वातरोगचिकित्सितम्।विशेषतस्तु कोष्ठस्थे वाते क्षारं पिबेन्नरः॥ ८९ ॥

च. चि. २८/९०

पाचनैर्दीपनैर्युक्तैरम्लैर्वा पाचयेन्मलान्।गुदपक्वाशयस्थे तु कर्मोदावर्तनुद्धितम्॥ ९० ॥

च. चि. २८/९१

आमाशयस्थे शुद्धस्य यथादोषहरीः क्रियाः।सर्वाङ्गकुपितेऽभ्यङ्गो बस्तयः सानुवासनाः॥ ९१ ॥

च. चि. २८/९२

स्वेदाभ्यङ्गावगाहाश्च दृद्यं चान्नं त्वगाश्रिते।शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम्॥ ९२ ॥

च. चि. २८/९३

विरेको मांसमेदःस्थे निरूहाः शमनानि च।बाह्याभ्यन्तरतः स्नेहैरस्थिमज्जगतं जयेत्॥ ९३ ॥

च. चि. २८/९४

हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम्।विबद्धमार्गं दृष्ट्वा वा शुक्रं दद्याद्विरेचनम्॥ ९४ ॥

च. चि. २८/९५

विरिक्तप्रतिभुक्तस्य पूर्वोक्तां कारयेत् क्रियाम्।गर्भे शुष्के तु वातेन बालानां चापि शुष्यताम्॥ ९५ ॥

च. चि. २८/९६

सिताकाश्मर्यमधुकैर्हितमुत्थापने पयः।हृदि प्रकुपिते सिद्धमंशुमत्या पयो हितम्॥ ९६ ॥

च. चि. २८/९७

मत्स्यान्नाभिप्रदेशस्थे सिद्धान् बिल्वशलाटुभिः।वायुना वेष्ट्यमाने तु गात्रे स्यादुपनाहनम्॥ ९७ ॥

च. चि. २८/९८

तैलं संकुचितेऽभ्यङ्गो माषसैन्धवसाधितम्।बाहुशीर्षगते नस्यं पानं चैत्तरभक्तिकम्॥ ९८ ॥

च. चि. २८/९९

बस्तिकर्म त्वधो नाभेः शस्यते चावपीडकः।अर्दिते नावनं मूर्ध्नि तैलं तर्पणमेव च॥ ९९ ॥

च. चि. २८/१००

नाडीस्वेदोपनाहाश्चाप्यानूपपिशितैर्हिताः।स्वेदनं स्नेहसंयुक्तं पक्षाघाते विरेचनम्॥ १०० ॥

च. चि. २८/१०१

अन्तराकण्डरागुल्फं सिरा बस्त्यग्निकर्म च।गृध्रसीषु प्रयुञ्जीत खल्ल्यां तूष्णोपनाहनम्॥ १०१ ॥

च. चि. २८/१०२

पायसैः कृशरैर्मांसैः शस्तं तैलघृतान्वितैः।व्यात्तानने हनुं स्विन्नामङ्गुष्ठाभ्यां प्रपीड्य च॥ १०२ ॥

च. चि. २८/१०३

प्रदेशिनीभ्यां चोन्नाम्य चिबुकोन्नामनं हितम्।स्रस्तं स्वं गमयेत्स्थानं स्तब्धं स्विन्नं विनामयेत्॥ १०३ ॥

च. चि. २८/१०४

प्रत्येकं स्थानदूष्यादिक्रियावैशेष्यमाचरेत्।सर्पिस्तैलवसामज्जसेकाभ्यञ्जनबस्तयः॥ १०४ ॥

च. चि. २८/१०५

स्निग्धाः स्वेदा निवातं च स्थानं प्रावरणानि च।रसाः पयांसि भोज्यानि स्वाद्वम्ललवणानि च॥ १०५ ॥

च. चि. २८/१०६

बृंहणं यच्च तत् सर्वं प्रशस्तं वातरोगिणाम्।बलायाः पञ्चमूलस्य दशमूलस्य वा रसे॥ १०६ ॥

च. चि. २८/१०७

अजशीर्षम्बुजानूपमांसादपिशितैः पृथक्।साधयित्वा रसान् स्निग्धान्दध्यम्लव्योषसंस्कृतान्॥ १०७ ॥

च. चि. २८/१०८

भोजयेद्वातरोगार्तं तैर्व्यक्तलवणैर्नरम्।एतैरेवोपनाहांश्च पिशितैः संप्रकल्पयेत्॥ १०८ ॥

च. चि. २८/१०९

घृततैलयुतैः साम्लैः क्षुण्णस्विन्नैरनस्थिभिः।पत्रोत्क्वाथपयस्तैलद्रोण्यः स्युरवगाहने॥ १०९ ॥

च. चि. २८/११०

स्वभ्यक्तानां प्रशस्यन्ते सेकाश्चानिलरोगिणाम्।आनूपौदकमांसानि दशमूलं शतावरीम्॥ ११० ॥

च. चि. २८/१११

कुलत्थान् बदरान्माषांस्तिलाव्रास्नां यवान् बलाम्।वसादध्यारनालाम्लैः सह कुम्भ्यां विपाचयेत्॥ १११ ॥

च. चि. २८/११२

नाडीस्वेदं प्रयुञ्जीत पिष्टैश्चाप्युपनाहनम्।तैश्च सिद्धं घृतं तैलमभ्यङ्गं पानामेव च॥ ११२ ॥

च. चि. २८/११३

मुस्तं किण्वं तिलाः कुष्ठं सुराह्वं लवणं नतम्।दधिक्षीरचतुःस्नेहैः सिद्धं स्यादुपनाहनम्॥ ११३ ॥

च. चि. २८/११४

उत्कारिकावेसवारक्षीरमाषतिलौदनैः।एरण्डबीजगोधूमयवकोलस्थिरादिभिः॥ ११४ ॥

च. चि. २८/११५

सस्नेहैः सरुजं गात्रमालिप्य बहलं भिषक्।एरण्डपत्रैर्बध्नीयाद्रात्रौ कल्यं विमोक्षयेत्॥ ११५ ॥

च. चि. २८/११६

क्षीरास्बुना ततः सिक्तं पुनश्चैवोपनाहितम्।मुञ्चेद्रात्रौ दिवाबद्धं चर्मभिश्च सलोमभिः॥ ११६ ॥

च. चि. २८/११७

फलानां तैलयोनीनामम्लपिष्टान् सुशीतलान्।प्रदेहानुपनाहांश्च गन्धैर्वातहरैरपि॥ ११७ ॥

च. चि. २८/११८

पायसैः कृशरैश्चैव कारयेत् स्नेहसंयुतैः।रूक्षशुद्धानिलार्तानामतः स्नेहान् प्रचक्ष्महे॥ ११८ ॥

च. चि. २८/११९

विविधान् विविधव्याधिप्रशमायामृतोपमान्।द्रोणेऽम्भसः पचेद्भागान् दशमूलाच्चतुष्पलान्॥ ११९ ॥

च. चि. २८/१२०

यवव्कोलकुलत्थानां भागैः प्रस्थोन्मितैः सह।पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः॥ १२० ॥

च. चि. २८/१२१

तथा स्वर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः।सक्षीरैः सर्पिषः प्रस्थः सिद्धः केवलवातनुत्॥ १२१ ॥

च. चि. २८/१२२

निरत्ययः प्रयोक्तव्यः पानाभ्यञ्जनबस्तिषु।चित्रकं नागरं रास्नां पौष्करं पिप्पलीं शटीम्॥ १२२ ॥

च. चि. २८/१२३

पिष्ट्वा विपाचयेत् सर्पिर्वातरोगहरं परम्।बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत्॥ १२३ ॥

च. चि. २८/१२४

तस्य शुक्तिः प्रकुञ्चो वा नस्यं मूर्धगतेऽनिले।ग्राम्यानूपौदकानां तु भित्त्वाऽस्थीनि पचेज्जले॥ १२४ ॥

च. चि. २८/१२५

तं स्नेहं दशमूलस्य कषायेण पुनः पचेत्।जीवकर्षभकास्फोताविदारीकपिकच्छुभिः॥ १२५ ॥

च. चि. २८/१२६

वातघ्नैर्जीवनीयैश्च कल्कैर्द्विक्षीरभागिकम्।तत्सिद्धं नावनाभ्यङ्गात्तथा पानानुवासनात्॥ १२६ ॥

च. चि. २८/१२७

सिरापर्वास्थिकोष्ठस्थं प्रणुदत्याशु मारुतम्।य स्युः प्रक्षीणमज्जानः क्षीणशुक्रौजसश्च ये॥ १२७ ॥

च. चि. २८/१२८

बलपुष्टिकरं तेषामेतत् स्यादमृतोपमम्।तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मचुलूकजा॥ १२८ ॥

च. चि. २८/१२९

प्रत्यग्रा विधिनाऽनेन नस्यपानेषु शस्यते।प्रस्थः स्यात्त्रिफलायास्तु कुलत्थकुडवद्वयम्॥ १२९ ॥

च. चि. २८/१३०

कृष्णगन्धात्वगाढक्योः पृथक् पञ्चपलं भवेत्।रास्नाचित्रकयोर्द्वे द्वे दशमूलं पलोन्मितम्॥ १३० ॥

च. चि. २८/१३१

जलद्रोणे पचेत् पादशेषे प्रस्थोन्मितं पृथक्।सुरारनालदध्यम्लसौबीरकतुषोदकम्॥ १३१ ॥

च. चि. २८/१३२

कोलदाडिमवृक्षाम्लरसं तैलं वसां घृतम्।मज्जानं च पयश्चैव जीवनीयपलानि षट्॥ १३२ ॥

च. चि. २८/१३३

कल्कं दत्त्वा महास्नेहं सम्यगेनं विपाचयेत्।सिरामज्जास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु॥ १३३ ॥

च. चि. २८/१३४

वेपनाक्षेपशूलेषु तदभ्यङ्गे प्रयोजयेत्।निर्गुण्ड्या मूलपत्राभ्यां गृहीत्वा स्वरसं ततः॥ १३४ ॥

च. चि. २८/१३५

तेन सिद्धं समं तैलं नाडीकुष्ठानिलार्तिषु।हितं पामापचीनां च पानाभ्यञ्जनपूरणम्॥ १३५ ॥

च. चि. २८/१३६

कार्पासास्थिकुलत्थानां रसे सिद्धं च वातनुत्।मूलकस्वरसे क्षीरसमे स्थाप्यं त्र्यहं दधि॥ १३६ ॥

च. चि. २८/१३७

तस्याम्लस्य त्रिभिः प्रस्थैस्तैलप्रस्थं विपाचयेत्।यष्ट्याह्वशर्करारास्नालवणार्द्रकनागरैः॥ १३७ ॥

च. चि. २८/१३८

सुपिष्टैः पलिकैः पानात्तदभ्यङ्गाच्च वातनुत्।पञ्चमूलकषायेण पिण्याकं बहुवार्षिकम्॥ १३८ ॥

च. चि. २८/१३९

पक्त्वा तस्य रसं पूत्वा तैलप्रस्थं विपाचयेत्।पयसाऽष्टगुनैतत् सर्ववातविकारनुत्॥ १३९ ॥

च. चि. २८/१४०

संसृष्टे श्लेष्मणा चैतद्वाते शस्तं विशेषतः।यवकोलकुलत्थानां श्रेयस्याः शुष्कमूलकात्॥ १४० ॥

च. चि. २८/१४१

बिल्वाच्चाञ्जलिमेकैकं द्रवैरम्लैर्विपाचयेत्।तेन तैलं कषायेण फलाम्लैः कटुभिस्तथा॥ १४१ ॥

च. चि. २८/१४२

पिष्टैः सिद्धं महावातैरार्तः शीते प्रयोजयेत्।सर्ववातविकाराणां तैलन्यन्यान्यतः शृणु॥ १४२ ॥

च. चि. २८/१४३

चतुष्प्रयोगाण्यायुष्यबलवर्णकराणि च।रजःशुक्रप्रदोषघ्नान्यपत्यजननानि च॥ १४३ ॥

च. चि. २८/१४४

निरत्ययानि सिद्धानि सर्वदोषहराणि च।सहाचरतुलायाश्च रसे तैलाढकं पचेत्॥ १४४ ॥

च. चि. २८/१४५

मूलकल्काद्दशपलं पयो दत्त्वा चतुर्गुणम्।सिद्धेऽस्मिञ्छर्कराचूर्णादष्टादशपलं भिषक्॥ १४५ ॥

च. चि. २८/१४६

विनीय दारुणेष्वेतद्वातव्याधिषु योजयेत्।श्वदंष्ट्रास्वरसप्रस्थौ द्वौ समौ पयसा सह॥ १४६ ॥

च. चि. २८/१४७

षट्पलं शृङ्गवेरस्य गुडस्याष्टपलं तथा।तैलप्रस्थं विपक्वं तैर्दद्यात् सर्वानिलार्तिषु॥ १४७ ॥

च. चि. २८/१४८

जीर्णे तैले च दुग्धेन पेयाकल्पः प्रशस्यते।बलाशतं गुडूच्याश्च पादं रास्नाष्टभागिकम्॥ १४८ ॥

च. चि. २८/१४९

जलाढकशते पक्त्वा दशभागस्थिते रसे।दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समैः॥ १४९ ॥

च. चि. २८/१५०

पचेत् साजपयोऽर्धांशैः कल्कैरेभिः पलोन्मितैः।शटीसरलदार्वेलामञ्जिष्ठागुरुचन्दनैः॥ १५० ॥

च. चि. २८/१५१

पद्मकातिविषामुस्तसूर्पपर्णीहरेणुभिः।यष्ट्याह्वसुरसव्याघ्रनखर्षभकजीवकैः॥ १५१ ॥

च. चि. २८/१५२

पलाशरसकस्तूरीनलिकाजातिकोषकैः।स्पृक्काकुङ्कुमशैलेयजातीकटुफलाम्बुभिः॥ १५२ ॥

च. चि. २८/१५३

त्वचाकुन्दुरुकर्पूरतुतुष्कश्रीनिवासकैः।लवङ्गनखकक्कोलकुष्ठमांसीप्रियङ्गुभिः॥ १५३ ॥

च. चि. २८/१५४

स्थौणेयतगरध्यामवचामदनपल्लवैः।सनागकेशरैः सिद्धे क्षिपेच्चात्रावतारिते॥ १५४ ॥

च. चि. २८/१५५

पत्रकल्कं ततः पूतं विधिना तत् प्रयोजयेत्।श्वासं कासं ज्वरं हिक्कां छर्दिं गुल्मान् क्षतं क्षयम्॥ १५५ ॥

च. चि. २८/१५६

प्लीहशोषावपस्मारमलक्ष्मीं च प्रणाशयेत्।बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम्॥ १५६ ॥

च. चि. २८/१५७

(अग्निवेशाय गुरुणा कृष्णात्रेयेण भाषितम्।) इति बलातैलम्।अमृतायास्तुलाः पञ्च द्रोणेष्वष्टस्वपां पचेत्॥ १५७ ॥

च. चि. २८/१५८

पादशेषे समक्षीरं तैलस्य द्व्याढकं पचेत्।एलामांसीनतोशीरसारिवाकुष्ठचन्दनैः॥ १५८ ॥

च. चि. २८/१५९

बलातामलकीमेदाशतपुष्पर्धिजीवकैः।काकोलीक्षीरकाकोलीश्रावण्यतिबलानखैः॥ १५९ ॥

च. चि. २८/१६०

महाश्रावणिजीवन्तीविदारीकपिकच्छुभिः।शतावरीमहामेदाकर्कटाख्याहरेणुभिः॥ १६० ॥

च. चि. २८/१६१

वचागोक्षुरकैरण्डरास्नाकालासहाचरैः।वीराशल्लकिमुस्तत्वक्पत्रर्षभकबालकैः॥ १६१ ॥

च. चि. २८/१६२

सहैलाकुङ्कुमस्पृक्कात्रिदशाह्वैश्च कार्षिकैः।मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन च॥ १६२ ॥

च. चि. २८/१६३

कल्कैस्तत् क्षीणवीर्याग्निबलसंमूढचेतसः।उन्मादारत्यपस्मारैरार्तांश्च प्रकृतिं नयेत्॥ १६३ ॥

च. चि. २८/१६४

वातव्याधिहरं श्रेष्ठं तैलाग्र्यममृताह्वयम्।(कृष्णात्रेयेण गुरुणा भाषितं वैद्यपूजितम्॥) इत्यमृताद्यं तैलम्।

च. चि. २८/१६५

रास्नासहस्रनिर्यूहे तैलद्रोणं विपाचयेत्।गन्धैर्हैमवतैः पिष्टैरेलाद्यैश्चानिलार्तिनुत्॥ १६५ ॥

च. चि. २८/१६६

कल्पोऽयमश्वगन्धायां प्रसारण्यां बलाद्वये।क्वाथकल्कपयोभिर्वा बलादीनां पचेत् पृथक्॥इति रास्नातैलम्।

च. चि. २८/१६७

मूलकस्वरसं क्षीरं तैलं दध्यम्लकाञ्जिकम्।तुल्यं विपाचयेत् कल्कैर्बलाचित्रकसैन्धवैः॥ १६७ ॥

च. चि. २८/१६८

पिप्पल्यतिविषारास्नाचविकागुरुशिग्रुकैः।भल्लातकवचाकुष्ठश्वदंष्ट्राविश्वभेषजैः॥ १६८ ॥

च. चि. २८/१६९

पुष्कराह्वशटीबिल्वशताह्वानतदारुभिः।तत्सिद्धं पीतमत्युग्रान् हन्ति वातात्मकान् गदान्॥इति मूलकाद्यं तैलम्।

च. चि. २८/१७०

वृषमूलगुडूच्योश्च द्विशतस्य शतस्य च।चित्रकात् साश्वगन्धाच्च क्वाथे तैलाढकं पचेत्॥ १७० ॥

च. चि. २८/१७१

सक्षीरं वायुना भग्ने दद्याज्जर्जरिते तथा।प्राक्तैलावापसिद्धं च भवेदेतद्गुणोत्तरम्॥इति वृषमूलादितैलम्।

च. चि. २८/१७२

रास्नाशिरीषयष्ट्याह्वशुण्ठीसहचरामृताः॥ १७२ ॥

च. चि. २८/१७३

स्योनाकदारुशम्पाकहयगन्धात्रिकण्टकाः।एषां दशपलान् भागान् कषायमुपकल्पयेत्॥ १७३ ॥

च. चि. २८/१७४

ततस्तेन कषायेण सर्वगन्धैश्च कार्षिकैः।दध्यारनालमाषाम्बुमूलकेक्षुरसैः शुभैः॥ १७४ ॥

च. चि. २८/१७५

पृथक् प्रस्थोन्मितैः सार्धं तैलप्रस्थं विपाचयेत्।प्लीहमूत्रग्रहश्वासकासमारुतरोगनुत्॥ १७५ ॥

च. चि. २८/१७६

एतन्मूलकतैलाख्यं वर्णायुर्बलवर्धनम्।इति मूलकतैलम्।यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयोः।रसेन मूलकानां च तैलं दधिपयोन्वितम्॥ १७६ ॥

च. चि. २८/१७७

साधयित्वा भिषग्दद्यात् सर्ववातामयापहम्।लशुनस्वरसे सिद्धं तैलमेभिश्च वातनुत्॥ १७७ ॥

च. चि. २८/१७८

तैलान्येतान्यृतुस्नातामङ्गनां पाययेत च।पीत्वाऽन्यतममेषां हि वन्ध्याऽपि जनयेत् सुतम्॥ १७८ ॥

च. चि. २८/१७९

यच्च शीतज्वरे तैलमगुर्वाद्यमुदाहृतम्।अनेकशतशस्तच्च सिद्धं स्याद्वातरोगनुत्॥ १७९ ॥

च. चि. २८/१८०

वक्ष्यन्ते यानि तैलानि वातशोणितकेऽपि च।तानि चानिलशान्त्यर्थं सिद्धिकामः प्रयोजयेत्॥ १८० ॥

च. चि. २८/१८१

नास्ति तैलात् परं किंचिदौषधं मारुतापहम्।व्यवाय्युष्णगुरुस्नेहात् संस्काराद्बलवत्तरम्॥ १८१ ॥

च. चि. २८/१८२

गणैर्वातहरैस्तस्माच्छतशोऽथ सहस्रशः।सिद्धं क्षिप्रतरं हन्ति सूक्ष्ममार्गस्थितान् गदान्॥ १८२ ॥

च. चि. २८/१८३

क्रिया साधारणी सर्वा संसृष्टे चापि शस्यते।वाते पित्तादिभिः स्रोतःस्वावृतेषु विशेषतः॥ १८३ ॥

च. चि. २८/१८४

पित्तावृते विशेषेण शीतामुष्णां तथा क्रियाम्।व्यत्यासात् कारयेत् सर्पिर्जीवनीयं च शस्यते॥ १८४ ॥

च. चि. २८/१८५

धन्वमांसं यवाः शालिर्यापनाः क्षीरबस्तयः।विरेकः क्षीरपानं च पञ्चमूलीबलाशृतम्॥ १८५ ॥

च. चि. २८/१८६

मधुयष्टिबलातैलघृतक्षीरैश्च सेचनम्।पञ्चमूलकषायेण कुर्याद्वा शीतबारिणा॥ १८६ ॥

च. चि. २८/१८७

कफावृते यवान्नानि जाङ्गला मृगपक्षिणः।स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम्॥ १८७ ॥

च. चि. २८/१८८

जीर्णं सर्पिस्तथा तैलं तिलसर्षपजं हितम्।संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत्॥ १८८ ॥

च. चि. २८/१८९

आमाशयगतं मत्वा कफं वमनमाचरेत्॥ १८९ ॥

च. चि. २८/१९०

पक्वाशये विरेकं तु पित्ते सर्वत्रगे तथा।स्वेदैर्विष्यन्दितः श्लेष्मा यदा पक्वाशये स्थितः॥ १९० ॥

च. चि. २८/१९१

पित्तं वा दर्शयेल्लिङ्गं बस्तिभिस्तौ विनिर्हरेत्।श्लेष्मणाऽनुगतं वातमुष्णैर्गोमूत्रसंयुतैः॥ १९१ ॥

च. चि. २८/१९२

निरूहैः पित्तसंसृष्टं निर्हरेत् क्षीरसंयुतैः।मधुरौषधसिद्धैश्च तैलैस्तमनुवासयेत्॥ १९२ ॥

च. चि. २८/१९३

शिरोगते तु सकफे धूमनस्यादि कारयेत्।हृते पित्ते कफे यः स्यादुरःस्रोतोऽनुगोऽनिलः॥ १९३ ॥

च. चि. २८/१९४

सशेषः स्यात् क्रिया तत्र कार्या केवलवातिकी।शोणितेनावृते कुर्याद्वातशोणितकीं क्रियाम्॥ १९४ ॥

च. चि. २८/१९५

प्रमेहवातमेदोघ्नीमामवाते प्रयोजयेत्।स्वेदाभ्यङ्गरसक्षीरस्नेहा मांसावृते हिताः॥ १९५ ॥

च. चि. २८/१९६

महास्नेहोऽस्थिमज्जस्थे पूर्ववद्रेतसाऽऽवृते।अन्नावृते तदुल्लेखः पाचनं दीपनं लघु॥ १९६ ॥

च. चि. २८/१९७

मूत्रलानि तु मूत्रेण स्वेदाः सोत्तरबस्तयः।शकृता तैलमैरण्डं स्निग्धोदावर्तवत्क्रिया॥ १९७ ॥

च. चि. २८/१९८

स्वस्थानस्थो बली दोषः प्राक् तं स्वैरौषधैर्जयेत्।वमनैर्वा विरेकैर्वा बस्तिभिः शमनेन वा॥ १९८ ॥

च. चि. २८/१९९

(इत्युक्तमावृते वाते पित्तादिभिर्यथायथम्।) मारुतानां हि पञ्चानामन्योन्यावरणे शृणु॥ १९९ ॥

च. चि. २८/२००

लिङ्गं व्याससमासाभ्यामुच्यमानं मयाऽनघ!।प्राणे वृणोत्युदानादीन् प्राणं वृण्वन्ति तेऽपि च॥ २०० ॥

च. चि. २८/२०१

उदानाद्यास्तथाऽन्योन्यं सर्व एव यथाक्रमम्।विंशतिर्वरणान्येतान्यूल्बणानां परस्परम्॥ २०१ ॥

च. चि. २८/२०२

मारुतानां हि पञ्चानां तानि सम्यक् प्रतर्कयेत्।सर्वेन्द्रियाणां शून्यत्वं ज्ञात्वा स्मृतिबलक्षयम्॥ २०२ ॥

च. चि. २८/२०३

व्याने प्राणावृते लिङ्गं कर्म तत्रोर्ध्वजत्रुकम्।स्वेदोऽत्यर्थं लोमहर्षस्त्वग्दोषः सुप्तगात्रता॥ २०३ ॥

च. चि. २८/२०४

प्राणे व्यानावृते तत्र स्नेहयुक्तं विरेचनम्।प्राणावृते समाने स्युर्जडगद्गदमूकताः॥ २०४ ॥

च. चि. २८/२०५

चतुष्प्रयोगाः शस्यन्ते स्नेहास्तत्र सयापनाः।समानेनावृतेऽपाने ग्रहणीपार्श्वहृद्गदाः॥ २०५ ॥

च. चि. २८/२०६

शूलं चामाशये तत्र दीपनं सर्पिरिष्यते।शिरोग्रहः प्रतिश्यायो निःश्वासोच्छ्वाससंग्रहः॥ २०६ ॥

च. चि. २८/२०७

हृद्रोगो मुखशोषश्चाप्युदाने प्राणसंवृते।तत्रोर्ध्वभागिकं कर्म कार्यमाश्वासनं तथा॥ २०७ ॥

च. चि. २८/२०८

कर्मौजोबलवर्णानां नाशो मृत्युरथापि वा।उदानेनावृते प्राणे तं शनैः शीतवारिणा॥ २०८ ॥

च. चि. २८/२०९

सिञ्चेदाश्वासयेच्चैनं सुखं चैवोपपादयेत्।ऊर्ध्वगेनावृतेऽपाने छर्दिश्वासादयो गदाः॥ २०९ ॥

च. चि. २८/२१०

स्युर्वाते तत्र बस्त्यादि भोज्यं चैवानुलोमनम्।मोहोऽल्पोऽग्निरतीसार ऊर्ध्वगेऽपानसंवृते॥ २१० ॥

च. चि. २८/२११

वाते स्याद्वमनं तत्र दीपनं ग्राहि चाशनम्।वम्याध्मानमुदावर्तगुल्मार्तिपरिकर्तिकाः॥ २११ ॥

च. चि. २८/२१२

लिङ्गं व्यानावृतेऽपाने तं स्निग्धैरनुलोमयेत्।अपानेनावृते व्याने भवेद्विण्मूत्ररेतसाम्॥ २१२ ॥

च. चि. २८/२१३

अतिप्रवृत्तिस्तत्रापि सर्वं संग्रहणं मतम्।मूर्च्छा तन्द्रा प्रलापोऽङ्गसादोऽग्न्योजोबलक्षयः॥ २१३ ॥

च. चि. २८/२१४

समानेनावृते व्याने व्यायामो लघुभोजनम्।स्तब्धताऽल्पाग्निताऽस्वेदश्चेष्टाहानिर्निमीलनम्॥ २१४ ॥

च. चि. २८/२१५

उदानेनावृते व्याने तत्र पथ्यं मितं लघु।पञ्चान्योन्यावृतानेवं वातान् बुध्येत लक्षणैः॥ २१५ ॥

च. चि. २८/२१६

एषां स्वकर्मणां हानिर्वृद्धिर्वाऽऽवरणे मता।यथास्थूलं समुद्दिष्टमेतदावरणेऽष्टकम्॥ २१६ ॥

च. चि. २८/२१७

सलिङ्गभेषजं सम्यग्बुधानां बुद्धिवृद्धये।स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम्॥ २१७ ॥

च. चि. २८/२१८

द्वादशावरणान्यन्यान्यभिलक्ष्य भिषग्जितम्।कुर्यादभ्यञ्जनस्नेहपानबस्त्यादि सर्वशः॥ २१८ ॥

च. चि. २८/२१९

क्रममुष्णमनुष्णं वा व्यत्यासादवचारयेत्।उदानं योजयेदूर्ध्वमपानं चानुलोमयेत्॥ २१९ ॥

च. चि. २८/२२०

समानं शमयेच्चैव त्रिधा व्यानं तु योजयेत्।प्राणो रक्ष्यश्चतुर्भ्योऽपि स्थाने ह्यस्य स्थितिर्ध्रुवा॥ २२० ॥

च. चि. २८/२२१

स्वं स्थानं गमयेदेवं वृतानेतान् विमार्गगान्।मूर्च्छा दाहो भ्रमः शूलं विदाहः शीतकामिता॥ २२१ ॥

च. चि. २८/२२२

छर्दनं च विदग्धस्य प्राणे पित्तसमावृते।ष्ठीवनं क्षवथूद्गारनिःश्वासोच्छ्वाससंग्रहः॥ २२२ ॥

च. चि. २८/२२३

प्राणे कफावृते रूपाण्यरुचिश्छर्दिरेव च।मूर्च्छाद्यानि च रूपाणि दाहो नाभ्युरसः क्लमः॥ २२३ ॥

च. चि. २८/२२४

औजोभ्रंशश्च सादश्चाप्युदाने पित्तसंवृते।आवृते श्लेष्मणोदाने वैवर्ण्यं वाक्स्वरग्रहः॥ २२४ ॥

च. चि. २८/२२५

दौर्बल्यं गुरुगात्रत्वमरुचिश्चोपजायते।अतिस्वेदस्तृषा दाहो मूर्च्छा चारुचिरेव च॥ २२५ ॥

च. चि. २८/२२६

पित्तावृते समाने स्यादुपघातस्तथोष्मणाः।अस्वेदो वह्निमान्द्यं च लोमहर्षस्तथैव च॥ २२६ ॥

च. चि. २८/२२७

कफावृते समाने स्याद्गात्राणां चातिशीतता।व्याने पित्तावृते तु स्याद्दाहः सर्वाङ्गगः क्लमः॥ २२७ ॥

च. चि. २८/२२८

गात्रविक्षेपसङ्गश्च ससंतापः सवेदनः।गुरुता सर्वगात्राणां सर्वसन्ध्यस्थिजा रुजः॥ २२८ ॥

च. चि. २८/२२९

व्याने कफावृते लिङ्गं गतिसङ्गस्तथाऽधिकः।हारिद्रमूत्रवर्चस्त्वं तापश्च गुदमेढ्रयोः॥ २२९ ॥

च. चि. २८/२३०

लिङ्गं पित्तावृतेऽपाने रजसश्चातिवर्तनम्।भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्॥ २३० ॥

च. चि. २८/२३१

श्लेष्मणा संवृतेऽपाने कफमेहस्य चागमः।लक्षणानां तु मिश्रत्वं पित्तस्य च कफस्य च॥ २३१ ॥

च. चि. २८/२३२

उपलक्ष्य भिषग्विद्वान् मिश्रमावरणं वदेत्।यद्यस्य वायोर्निर्दिष्टं स्थानं तत्रेतरौ स्थितौ॥ २३२ ॥

च. चि. २८/२३३

दोषौ बहुविधान् व्याधीन् दर्शयेतां यथानिजान्।आवृतं श्लेष्मपित्ताभ्यां प्राणं चोदानमेव च॥ २३३ ॥

च. चि. २८/२३४

गरीयस्त्वेन पश्यन्ति भिषजः शास्त्रवक्षुषः।विशेषाज्जीवितं प्राणे उदाने संश्रितं बलम्॥ २३४ ॥

च. चि. २८/२३५

स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च।सर्वेऽप्येतेऽपरिज्ञाताः परिसंवत्सरास्तथा॥ २३५ ॥

च. चि. २८/२३६

उपेक्षणादसाध्याः स्युरथवा दुरुपक्रमाः।हृद्रोगो विद्रधिः प्लीहा गुल्मोऽतीसार एव च॥ २३६ ॥

च. चि. २८/२३७

भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात्।तस्मादावरणं वैद्यः पवनस्योपलक्षयेत्॥ २३७ ॥

च. चि. २८/२३८

पञ्चात्मकस्य वातेन पित्तेन श्लेष्मणाऽपि वा।भिषग्जितमतः सम्यगुपलक्ष्य समाचरेत्॥ २३८ ॥

च. चि. २८/२३९

अनभिष्यन्दिभिः स्निग्धैः स्रोतसां शुद्धिकारकैः।कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम्॥ २३९ ॥

च. चि. २८/२४०

सर्वस्थानावृतेऽप्याशु तत् कार्यं मारुते हितम्।यापना बस्तयः प्रायो मधुराः सानुवासनाः॥ २४० ॥

च. चि. २८/२४१

प्रसमीक्ष्य बलाधिक्यं मृदु वा स्रंसनं हितम्।रसायनानां सर्वेषामुपयोगः प्रशस्यते॥ २४१ ॥

च. चि. २८/२४२

शैलस्य जतुनोऽत्यर्थं पयसा गुग्गुलोस्तथा।लेहं वा भार्गवप्रोक्तमभ्यसेत् क्षीरभुङ्नरः॥ २४२ ॥

च. चि. २८/२४३

अभयामलकीयोक्तमेकादशसिताशतम्।अपानेनावृते सर्वं दीपनं ग्राहि भेषजम्॥ २४३ ॥

च. चि. २८/२४४

वातानुलोमनं यच्च पक्वाशयविशोधनम्।इति संक्षेपतः प्रोक्तमावृतानां चिकित्सितम्॥ २४४ ॥

च. चि. २८/२४५

प्राणादीनां भिषक् कुर्याद्वितर्क्य स्वयमेव तत्।पित्तावृते तु पित्तघ्नैर्मारुतस्याविरोधिभिः।कफावृते कफघ्नैस्तु मारुतस्यानुलोमनैः॥ २४५ ॥

च. चि. २८/२४६

लोके वाय्वर्कसोमानां दुर्विज्ञेया यथा गतिः।तथा शरीरे वातस्य पित्तस्य च कफस्य च॥ २४६ ॥

च. चि. २८/२४७

क्षयं वृद्धिं समत्वं च तथैवावरणं भिषक्।विज्ञाय पवनादीनां न प्रमद्यति कर्मसु॥ २४७ ॥

च. चि. २८/२४८

तत्र श्लोकौ-पञ्चात्मनः स्थानवशाच्छरीरे स्थानानि कर्माणि च देहधातोः।प्रकोपहेतुः कुपितश्च रोगान् स्थानेषु चान्येषु वृतोऽवृतश्च॥ २४८ ॥

च. चि. २८/२४९

प्राणेश्वरः प्राणभृतां करोति क्रिया च तेषामखिला निरुक्ता।तां देशसात्म्यर्तुबलान्यवेक्ष्य प्रयोजयेच्छास्त्रमतानुसारी॥ २४९ ॥

च. चि. २८

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने वातव्याधिचिकित्सितं नामाष्टाविंशोऽध्यायः॥२८॥