भारत संहिता

अध्याय ५

वत्सककल्पोऽध्यायः

वत्सक (कुटज) के योग

इस अध्याय में (अध्याय का अपना सार, श्लोक १२)

तत्र श्लोकः-कषायैर्नव चूर्णैश्च पञ्चोक्ताः सलिलैस्त्रयः।एकश्च कृशरायां स्याद्योगास्तेऽष्टादश स्मृताः॥

श्लोक १२ →

मूल पाठ के किसी शब्द पर टैप करें - उसका अर्थ दिखेगा।

च. क. ५/१

अथातो वत्सककल्पं व्याख्यास्यामः॥ १ ॥

च. क. ५/२

इति ह स्माह भगवानात्रेयः॥ २ ॥

च. क. ५/३

अथ वत्सकनामानि भेदं स्त्रीपुंसयोस्तथा।कल्पं चास्य प्रवक्ष्यामि विस्तरेण यथातथम्॥ ३ ॥

च. क. ५/४

वत्सकः कुटजः शक्रो वृक्षको गिरिमल्लिका।बीजानीन्द्रयवास्तस्य तथोच्यन्ते कलिङ्गकाः॥ ४ ॥

च. क. ५/५

बृहत्फलः श्वेतपुष्पः स्निग्धपत्रः पुमान् भवेत्।श्यामा चारुणपुष्पा स्त्री फलवृन्तैस्तथाऽणुभिः॥ ५ ॥

च. क. ५/६

रक्तपित्तकफघ्नस्तु सुकुमारेष्वनत्ययः।हृद्रोगज्वरवातासृग्वीसर्पादिषु शस्यते॥ ६ ॥

च. क. ५/७

काले फलानि संगृह्य तयोः शुष्काणि निक्षिपेत्।तेषामन्तर्नखं मुष्टिं जर्जरीकृत्य भावयेत्॥ ७ ॥

च. क. ५/८

मधुकस्य कषायेण कोविदारादिभिस्तथा।निशि स्थितं विमृद्यैतल्लवणक्षौद्रसंयुतम्॥ ८ ॥

च. क. ५/९

पिबेत्तद्वमनं श्रेष्ठं पित्तश्लेष्मनिबर्हणम्।अष्टाहं पयसाऽऽर्केण तेषां चूर्णानि भावयेत्॥ ९ ॥

च. क. ५/१०

जीवकस्य कषायेण ततः पाणितलं पिबेत्।फलजीमूतकेक्ष्वाकुजीवन्तीनां पृथक् तथा॥ १० ॥

च. क. ५/११

सर्षपाणां मधूकानां लवणस्याथवाऽम्बुना।कृशरेणाथवा युक्तं विदध्याद्वमनं भिषक्॥ ११ ॥

च. क. ५/१२

तत्र श्लोकः-कषायैर्नव चूर्णैश्च पञ्चोक्ताः सलिलैस्त्रयः।एकश्च कृशरायां स्याद्योगास्तेऽष्टादश स्मृताः॥ १२ ॥

च. क. ५

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने वत्सककल्पो नाम पञ्चमोऽध्यायः॥५॥