भारत संहिता

अध्याय ६

कृतवेधनकल्पोऽध्यायः

कृतवेधन के योग

इस अध्याय में (अध्याय का अपना सार, श्लोक १३-१४)

तत्र श्लोकौ-क्षीरे द्वौ द्वौ सुरा चैका क्वाथा द्वाविंशतिस्तथा।दश पिच्छा घृतं चैकं षट् च वर्तिक्रियाः शुभाः॥

श्लोक १३ →

लेहेऽष्टौ सप्त मांसे च योग इक्षुरसेऽपरः।कृतवेधनकल्पेऽस्मिन् षष्टिर्योगाः प्रकीर्तिताः॥

श्लोक १४ →

मूल पाठ के किसी शब्द पर टैप करें - उसका अर्थ दिखेगा।

च. क. ६/१

अथातः कृतवेधनकल्पं व्याख्यास्यामः॥ १ ॥

च. क. ६/२

इति ह स्माह भगवानात्रेयः॥ २ ॥

च. क. ६/३

कृतवेधननामानि कल्पं चास्य निबोधत।क्ष्वेडः कोशातकी चोक्तं मृदङ्गफलमेव च॥ ३ ॥

च. क. ६/४

अत्यर्थकटुकीक्ष्णोष्णं गाढेष्विष्टं गदेषु च॥कुष्ठपाण्ड्वामयप्लीहशोफगुल्मगरादिषु॥ ४ ॥

च. क. ६/५

क्षीरादि कुसुमादीनां सुरा चैतेषु पूर्ववत्।सुशुष्काणां तु जीर्णानामेकं द्वे वा यथाबलम्॥ ५ ॥

च. क. ६/६

कषायैर्मधुकादीनां नवभिः फलवत् पिबेत्।क्वाथयित्वा फलं तस्य पूत्वा लेहं निधापयेत्॥ ६ ॥

च. क. ६/७

कृतवेधनकल्कांशं फलाद्यर्धांशसंयुतम्।पृथक् चारग्वधादीनां त्रयोदशभिरासुतम्॥ ७ ॥

च. क. ६/८

शाल्मलीमूलचूर्णानां पिच्छाभिर्दशन्भिस्तथा।वर्तिक्रियाः षट् फलवत्, फलादीनां घृतं तथा॥ ८ ॥

च. क. ६/९

कोशातकानि पञ्चाशत् कोविदाररसे पचेत्।तं कषायं फलादीनां कल्कैर्लेहं पुनः पचेत्॥ ९ ॥

च. क. ६/१०

क्ष्वेडस्य तत्र भागः स्याच्छेषाण्यर्धांशिकानि तु।कषायैः कोविदाराद्यैरेवं तत् कल्पयेत् पृथक्॥ १० ॥

च. क. ६/११

कषायेषु फलादीनामानूपं पिशितं पृथक्।कोशातक्या समं पक्त्वा रसं सलवणं पिबेत्॥ ११ ॥

च. क. ६/१२

फलादिपिप्पलीतुल्यं तद्वत् क्ष्वेडरसं पिबेत्।क्ष्वेडं कासी पिबेत् सिद्धं मिश्रमिक्षुरसेन च॥ १२ ॥

च. क. ६/१३

तत्र श्लोकौ-क्षीरे द्वौ द्वौ सुरा चैका क्वाथा द्वाविंशतिस्तथा।दश पिच्छा घृतं चैकं षट् च वर्तिक्रियाः शुभाः॥ १३ ॥

च. क. ६/१४

लेहेऽष्टौ सप्त मांसे च योग इक्षुरसेऽपरः।कृतवेधनकल्पेऽस्मिन् षष्टिर्योगाः प्रकीर्तिताः॥ १४ ॥

च. क. ६

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने कृतवेधनकल्पो नाम षष्ठोऽध्यायः॥६॥