भारत संहिता

अध्याय ७

श्यामात्रिवृत्कल्पोऽध्यायः

श्यामा और त्रिवृत् (निशोथ) के योग

इस अध्याय में (अध्याय का अपना सार, श्लोक ७७-८०)

तत्र श्लोकाः-एकोऽम्लादिभिरष्टौ च दश द्वौ सैन्धवादिभिः।मूत्रेऽष्टादश यष्ट्यां द्वौ जीवकादौ चतुर्दश॥

श्लोक ७७ →

क्षीरादौ सप्त लेहेऽष्टौ चत्वारः सितयाऽपि च।पानकादिषु पञ्चैव षडृतौ पञ्च मोदकाः॥

श्लोक ७८ →

चत्वारश्च घृते क्षीरे द्वौ चूर्णे तर्पणे तथा।द्वौ मद्ये काञ्जिके द्वौ च दशान्ये षाडवादिषु॥

श्लोक ७९ →

श्यामायास्त्रिवृतायाश्च कल्पेऽस्मिन् समुदाहृतम्।शतं दशोत्तरं सिद्धं योगानां परमर्षिणा॥

श्लोक ८० →

मूल पाठ के किसी शब्द पर टैप करें - उसका अर्थ दिखेगा।

च. क. ७/१

अथातः श्यामात्रिवृत्कल्पं व्याख्यास्यामः॥ १ ॥

च. क. ७/२

इति ह स्माह भगवानात्रेयः॥ २ ॥

च. क. ७/३

विरेचने त्रिवृन्मूलं श्रेष्ठमाहुर्मनीषिणः॥तस्याः संज्ञा गुणाः कर्म भेदः कल्पश्च वक्ष्यते॥ ३ ॥

च. क. ७/४

त्रिभण्डी त्रिवृता चैव श्यामा कूटरणा तथा।सर्वानुभूतिः सुवहा शब्दैः पर्यायवाचकैः॥ ४ ॥

च. क. ७/५

कषाया मधुरा रूक्षा विपाके कटुका च सा।कफपित्तप्रशमनी रौक्ष्याच्चानिलकोपनी॥ ५ ॥

च. क. ७/६

सेदानीमौषधैर्युक्ता वातपित्तकफापहैः।कल्पवैशेष्यमासाद्य सर्वरोगहरा भवेत्॥ ६ ॥

च. क. ७/७

मूलं तु द्विविधं तस्याः श्यामं चारुणमेव च।तयोर्मुख्यतरं विद्धि मूलं यदरुणप्रभम्॥ ७ ॥

च. क. ७/८

सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तच्छुभम्।मोहयेदाशुकारित्वाच्छ्यामा क्षिण्वीत मूर्च्छयेत्॥ ८ ॥

च. क. ७/९

तैक्ष्ण्यात् कर्षति हृत्कण्ठमाशु दोषं हरत्यपि।शस्यते बहुदोषाणां क्रूरकोष्ठाश्च ये नराः॥ ९ ॥

च. क. ७/१०

गुणवत्यां तयोर्भूमौ जातं मूलं समुद्धरेत्।उपोष्य प्रयतः शुक्ले शुक्लवासाः समाहितः॥ १० ॥

च. क. ७/११

गम्भीरानुगतं श्लक्ष्णमतिर्यग्विसृतं च यत्।तद्विपाट्योद्धरेद्गर्भं त्वचं शुष्कां निधापयेत्॥ ११ ॥

च. क. ७/१२

स्निग्धस्विन्नो विरेच्यस्तु पेयामात्रोषितः सुखम्।अक्षमात्रं तयोः पिण्डं विनीयाम्लेन ना पिबेत्॥ १२ ॥

च. क. ७/१३

गोऽव्यजामहिषीमूत्रसौवीरकतुषोदकैः।प्रसन्नया त्रिफलया शृतया च पृथक् पिबेत्॥ १३ ॥

च. क. ७/१४

एकैकं सैन्धवादीनां द्वादशानां सनागरम्।त्रिवृद्द्विगुणसंयुक्तं चूर्णमुष्णाम्बुना पिबेत्॥ १४ ॥

च. क. ७/१५

पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली।सरलः किलिमं हिङ्गु भार्गी तेजोवती तथा॥ १५ ॥

च. क. ७/१६

मुस्तं हैमवती पथ्या चित्रको रजनी वचा।स्वर्णक्षीर्यजमोदा च शृङ्गवेरं च तैः पृथक्॥ १६ ॥

च. क. ७/१७

एकैकार्धांशसंयुक्तं पिबेद्गोमूत्रसंयुतम्।मधुकार्धांशसंयुक्तं शर्कराम्बुयुतं पिबेत्॥ १७ ॥

च. क. ७/१८

जीवकर्षभकौ मेदां श्रावणीं कर्कटाह्वयाम्।मुद्गमाषाख्यपर्ण्यौ च महतीं श्रावणीं तथा॥ १८ ॥

च. क. ७/१९

काकोलीं क्षीरकाकोलीमिन्द्रां छिन्नरुहां तथा।क्षीरशुक्लां पयस्यां च यष्ट्याह्वं विधिना पिबेत्॥ १९ ॥

च. क. ७/२०

वातपित्तहितान्येतान्यन्यानि तु कफानिले।क्षीरमांसेक्षुकाश्मर्यद्राक्षापीलुरसैः पृथक्॥ २० ॥

च. क. ७/२१

सर्पिषा वा तयोश्चूर्णमभयार्धांशिकं पिबेत्।लिह्याद्वा मधुसर्पिर्भ्यां संयुक्तं ससितोपलम्॥ २१ ॥

च. क. ७/२२

अजगन्धा तुगाक्षीरी विदारी शर्करा त्रिवृत्।चूर्णितं क्षौद्रसर्पिर्भ्यां लीढ्वा साधु विरिच्यते॥ २२ ॥

च. क. ७/२३

सन्निपातज्वरस्तम्भदाहतृष्णार्दितो नरः।श्यामात्रिवृत्कषायेण कल्केन च सशर्करम्॥ २३ ॥

च. क. ७/२४

साधयेद्विधिवल्लेहं लिह्यात् पाणितलं ततः।सक्षौद्रां शर्करां पक्त्वा कुर्यान्मृद्भाजने नवे॥ २४ ॥

च. क. ७/२५

क्षिपेच्छीते त्रिवृच्चूर्णं त्वक्पत्रमरिचैः सह।मात्रया लेहयेदेतदीश्वराणां विरेचनम्॥ २५ ॥

च. क. ७/२६

कुडवांशान् रसानिक्षुद्राक्षापीलुपरूषकात्।सितोपलापलं क्षौद्रात् कुडवार्धं च साधयेत्॥ २६ ॥

च. क. ७/२७

तं लेहं योजयेच्छीतं त्रिवृच्चूर्णेन शास्त्रवित्।एतदुत्सन्नपित्तानामीश्वराणां विरेचनम्॥ २७ ॥

च. क. ७/२८

शर्करामोदकान् वर्तीर्गुलिकामांसपूपकान्।अनेन विधिना कुर्यात् पैत्तिकानां विरेचनम्॥ २८ ॥

च. क. ७/२९

पिप्पलीं नागरं क्षारं श्यामां त्रिवृतया सह।लेहयेन्मधुना सार्धं श्लेष्मलानां विरेचनम्॥ २९ ॥

च. क. ७/३०

मातुलुङ्गाभयाधात्रीश्रीपर्णीकोलदाडिमात्।सुभृष्टान् स्वरसांस्तैले साधयेत्तत्र चावपेत्॥ ३० ॥

च. क. ७/३१

सहकारात् कपित्थाच्च मध्यमम्लं च यत् फलम्।पूर्ववद्बहलीभूते त्रिवृच्चूर्णं समावपेत्॥ ३१ ॥

च. क. ७/३२

त्वक्पत्रकेशरैलानां चूर्णं मधु च मात्रया।लेहोऽयं कफपूर्णानामीश्वराणां विरेचनम्॥ ३२ ॥

च. क. ७/३३

पानकानि रसान् यूषान्मोदकान् रागषाडवान्।अनेन विधिना कुर्याद्विरेकार्थं कफाधिके॥ ३३ ॥

च. क. ७/३४

भृङ्गैलाभ्यां समा नीली तैस्त्रिवृत्तैश्च शर्करा।चूर्णं फलरसक्षौद्रशक्तुभिस्तर्पणं पिबेत्॥ ३४ ॥

च. क. ७/३५

वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च।नरेषु सुकुमारेषु निरपायं विरेचनम्॥ ३५ ॥

च. क. ७/३६

शर्करात्रिफलाश्यामात्रिवृत्पिप्पलीमाक्षिकैः।मोदकः सन्निपातोर्ध्वरक्तपित्तज्वरापहः॥ ३६ ॥

च. क. ७/३७

त्रिवृच्छाणा मतास्तिस्रस्तिस्रश्च त्रिफलात्वचः।विडङ्गपिप्पलीक्षारशाणास्तिस्रश्च चूर्णिताः॥ ३७ ॥

च. क. ७/३८

लिह्यात् सर्पिर्मधुभ्यां च मोदकं वा गुडेन तु।भक्षयेन्निष्परीहारमेतच्छोधनमुत्तमम्॥ ३८ ॥

च. क. ७/३९

गुल्मं प्लीहोदरं श्वासं हलीमकमरोचकम्।कफवातकृतांश्चान्यान् व्याधीनेतद्व्यपोहति॥ ३९ ॥

च. क. ७/४०

विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान्।मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः॥ ४० ॥

च. क. ७/४१

लवणान्यजमोदां च चूर्णितं कार्षिकं पृथक्।तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ॥ ४१ ॥

च. क. ७/४२

धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलां तथा।पक्त्वा मृद्वग्निना खादेद्बदरोदुम्बरोपमान्॥ ४२ ॥

च. क. ७/४३

गुडान् कृत्वा न चात्र स्याद्विहाराहारयन्त्रणा।मन्दाग्नित्वं ज्वरं मूर्च्छां मूत्रकृच्छ्रमरोचकम्॥ ४३ ॥

च. क. ७/४४

अस्वप्नं गात्रशूलं च कासं श्वासं भ्रमं क्षयम्।कुष्ठार्शःकामलामेहगुल्मोदरभगन्दरान्॥ ४४ ॥

च. क. ७/४५

ग्रहणीपाण्डुरोगांश्च हन्युः पुंसवनाश्च ते।कल्याणका इति ख्याताः सर्वेष्वृतुषु यौगिकाः॥इति कल्याणकगुडः।

च. क. ७/४६

व्योषत्वक्पत्रमुस्तैलाविडङ्गामलकाभयाः।समभागा भिषग्दद्याद्द्विगुणं च मुकूलकम्॥ ४६ ॥

च. क. ७/४७

त्रिवृतोऽष्टगुणं भागं शर्करायाश्च षड्गुणम्।चूर्णितं गुडिकाः कृत्वा क्षौद्रेण पलसंमिताः॥ ४७ ॥

च. क. ७/४८

भक्षयेत् कल्यमुत्थाय शीतं चानु पिबेज्जलम्।मूत्रकृच्छ्रे ज्वरे वम्यां कासे श्वासे भ्रमे क्षये॥ ४८ ॥

च. क. ७/४९

तापे पाण्ड्वामयेऽल्पेऽग्नौ शस्ता निर्यन्त्रणाशिनः।योगः सर्वविषाणां च मतः श्रेष्ठो विरेचने॥ ४९ ॥

च. क. ७/५०

मूत्रजानां च रोगाणां विधिज्ञेनावचारितः।पथ्याधात्र्युरुबूकाणां प्रसृतौ द्वौ त्रिवृत्पलम्॥ ५० ॥

च. क. ७/५१

दश तान्मोदकान् कुर्यादीश्वराणां विरेचनम्।त्रिवृद्धैमवती श्यामा नीलिनी हस्तिपिप्पली॥ ५१ ॥

च. क. ७/५२

समूला पिप्पली मुस्तमजमोदा दुरालभा।कार्षिकं नागरपलं गुडस्य पलविंशतिम्॥ ५२ ॥

च. क. ७/५३

चूर्णितं मोदकान् कुर्यादुदुम्बरफलोपमान्।हिङ्गुसौवर्चलव्योषयवानीबिडजीरकैः॥ ५३ ॥

च. क. ७/५४

वचाजगन्धात्रिफलाचव्यचित्रकधान्यकैः।मोदकान् वेष्टयेच्चूर्णैस्तान् सतुम्बुरुदाडिमैः॥ ५४ ॥

च. क. ७/५५

त्रिकवङ्क्षणहृद्बस्तिकोष्ठार्शःप्लीहशूलिनाम्।हिक्काकासारुचिश्वासकफोदावर्तिनां शुभाः॥ ५५ ॥

च. क. ७/५६

त्रिवृतां कौटजं बीजं पिप्पलीं विश्वभेषजम्।क्षौद्रद्राक्षारसोपेतं वर्षास्वेतद्विरेचनम्॥ ५६ ॥

च. क. ७/५७

त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम्।द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये॥ ५७ ॥

च. क. ७/५८

त्रिवृतां चित्रकं पाठामजाजीं सरलं वचाम्।स्वर्णक्षीरीं च हेमन्ते पिष्ट्वा तूष्णाम्बुना पिबेत्॥ ५८ ॥

च. क. ७/५९

शर्करा त्रिवृता तुल्या ग्रीष्मकाले विरेचनम्।त्रिवृत्त्रायन्तिहपुषाः सातलां कटुरोहिणीम्॥ ५९ ॥

च. क. ७/६०

स्वर्णक्षीरीं च संचूर्ण्य गोमूत्रे भावयेत्त्र्यहम्।एष सर्वर्तुको योगः स्निग्धानां मलदोषहृत्॥ ६० ॥

च. क. ७/६१

त्रिवृच्छ्यामा दुरालम्भा वत्सकं हस्तिपिप्पली।नीलिनी त्रिफला मुस्तं कटुका च सुचूर्णितम्॥ ६१ ॥

च. क. ७/६२

सर्पिर्मांसरसोष्णाम्बुयुक्तं पाणितलं ततः।पिबेत् सुखतमं ह्येतद्रूक्षाणामपि शस्यते॥ ६२ ॥

च. क. ७/६३

त्र्यूषणं त्रिफला हिङ्गु कार्षिकं त्रिवृतापलम्।सौवर्चलार्धकर्षां च पालार्धं चाम्लवेतसात्॥ ६३ ॥

च. क. ७/६४

तच्चूर्णं शर्करातुल्यं मद्येनाम्लेन वा पिबेत्।गुल्मपार्ण्वार्तिनुत्सिद्धं जीर्णे चाद्याद्रसौदनम्॥ ६४ ॥

च. क. ७/६५

त्रिवृतां त्रिफलां दन्तीं सप्तलां व्योषसैन्धवम्।कृत्वा चूर्णं तु सप्ताहं भाव्यमामलकीरसे॥ ६५ ॥

च. क. ७/६६

तद्योज्यं तर्पणे यूषे पिशिते रागयुक्तिषु।तुल्याम्लं त्रिघृताकल्कसिद्धं गुल्महरं घृतम्॥ ६६ ॥

च. क. ७/६७

श्यामात्रिवृतयोर्मूलं पचेदामलकैः सह।जले तेन कषायेण पक्त्वा सर्पिः पिबेन्नरः॥ ६७ ॥

च. क. ७/६८

श्यामात्रिवृत्कषायेण सिद्धं सर्पिः पिबेत्तथा।साधितं वा पयस्ताभ्यां सुखं तेन विरिच्यते॥ ६८ ॥

च. क. ७/६९

त्रिवृन्मुष्टींस्तु सनखानष्टौ द्रोणेऽम्भसः पचेत्।पादशेषं कषायं तं पूतं गुडतुलायुतम्॥ ६९ ॥

च. क. ७/७०

स्निग्धे स्थाप्यं घटे क्षौद्रपिप्पलीफलचित्रकैः।प्रलिप्ते मधुना मासं जातं तन्मात्रया पिबेत्॥ ७० ॥

च. क. ७/७१

ग्रहणीपाण्डुरोगघ्नं गुल्मश्वयथुनाशनम्।सुरां वा त्रिवृतायोगकिण्वां तत्क्वाथसंयुताम्॥ ७१ ॥

च. क. ७/७२

यवैः श्यामात्रिवृत्क्वाथस्विन्नैः कुल्माषमम्भसा।आसुतं षडहं पल्ले जातं सौवीरकं पिबेत्॥ ७२ ॥

च. क. ७/७३

भृष्टान् वा सतुषाञ्छुद्धान् यवांस्तच्चूर्णसंयुतान्।आसुतानम्भसा तद्वत् पिबेज्जातं तुषोदकम्॥ ७३ ॥

च. क. ७/७४

तथा मदनकल्पोक्तान् षाडवादीन् पृथग्दश।त्रिवृच्चूर्णेन संयुज्य विरेकार्थं प्रयोजयेत्॥ ७४ ॥

च. क. ७/७५

भवतश्चात्र-त्वक्केशराम्रातकदाडिमैलासितोपलामाक्षिकमातुलुङ्गैः।मद्यैस्तथाऽम्लैश्च मनोनुकूलैर्युक्तानि देयानि विरेचनानि॥ ७५ ॥

च. क. ७/७६

शीताम्बुना पीतवतश्च तस्य सिञ्चेन्मुखं छर्दिविघातहेतोः।हृद्यांश्च मृत्पुष्पफलप्रवालानम्लं च दद्यादुपजिघ्रणार्थम्॥ ७६ ॥

च. क. ७/७७

तत्र श्लोकाः-एकोऽम्लादिभिरष्टौ च दश द्वौ सैन्धवादिभिः।मूत्रेऽष्टादश यष्ट्यां द्वौ जीवकादौ चतुर्दश॥ ७७ ॥

च. क. ७/७८

क्षीरादौ सप्त लेहेऽष्टौ चत्वारः सितयाऽपि च।पानकादिषु पञ्चैव षडृतौ पञ्च मोदकाः॥ ७८ ॥

च. क. ७/७९

चत्वारश्च घृते क्षीरे द्वौ चूर्णे तर्पणे तथा।द्वौ मद्ये काञ्जिके द्वौ च दशान्ये षाडवादिषु॥ ७९ ॥

च. क. ७/८०

श्यामायास्त्रिवृतायाश्च कल्पेऽस्मिन् समुदाहृतम्।शतं दशोत्तरं सिद्धं योगानां परमर्षिणा॥ ८० ॥

च. क. ७

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने श्यामात्रिवृत्कल्पो नाम सप्तमोऽध्यायः॥७॥