अथातः स्नेहव्यापत्सिद्धिं व्याख्यास्यामः॥ १ ॥
अध्याय ४
स्नेहव्यापत्सिद्धिः
स्नेह-बस्ति की व्यापत्तियाँ
इस अध्याय में (अध्याय का अपना सार, श्लोक ५५-५६)
तत्र श्लोकौ-वातादीनां शमायोक्ताः प्रवराः स्नेहबस्तयः।तेषां चाज्ञप्रयुक्तानां व्यापदः सचिकित्सिताः॥
श्लोक ५५ →प्राग्भोज्यं स्नेहबस्तेर्यद् ध्रुवं येऽर्हास्त्र्याहाच्च ये।स्नेहबस्तिविधिश्चोक्तो मात्राबस्तिविधिस्तथा॥
श्लोक ५६ →मूल पाठ के किसी शब्द पर टैप करें - उसका अर्थ दिखेगा।
इति ह स्माह भगवानात्रेयः॥ २ ॥
स्नेहबस्तीन्निबोधेमान् वातपित्तकफापहान्।मिथ्याप्रणिहितानां च व्यापदः सचिकित्सिताः॥ ३ ॥
दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम्।गुडूच्येरण्डभूतीकभार्गीवृषकरोहिषम्॥ ४ ॥
शतावरीं सहचरं काकनासां पलांशिकम्।यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान्॥ ५ ॥
चतुर्द्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन च।तैलाढकं समक्षीरं जीवनीयैः पलोन्मितैः॥ ६ ॥
अनुवासनमेतद्धि सर्ववातविकारनुत्।आनूपानां वसा तद्वज्जीवनीयोपसाधिता॥ ७ ॥
शताह्वायवबिल्वाम्लैः सिद्धं तैलं समीरणे।सैन्धवेनाग्नितप्तेन तप्तं चानिलनुद्घृतम्॥ ८ ॥
जीबन्तीं मदनं मेदां श्रावणीं मधुकं बलाम्।शताह्वर्षभकौ कृष्णां काकनासां शतावरीम्॥ ९ ॥
स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शटीं वचाम्।पिष्ट्वा तैलं घृतं क्षीरे साधयेत्तच्चतुर्गुणे॥ १० ॥
बृहणं वातपित्तघ्नं बलशुक्राग्निवर्धनम्।मूत्ररेतोरजोदोषान् हरेत्तदनुवासनम्॥ ११ ॥
लाभतश्चन्दनाद्यैश्च पिष्टैः क्षीरचतुर्गुणम्।तैलपादं घृतं सिद्धं पित्तघ्नमनुवासनम्॥ १२ ॥
सैन्धवं मदनं कुष्ठं शताह्वां निचुलं वचाम्।ह्रीवेरं मधुकं भार्गीं देवदारु सकट्फलम्॥ १३ ॥
नागरं पुष्करं मेदां चविकां चित्रकं शटीम्।विडङ्गातिविषे श्यामां हरेणुं नीलिनीं स्थिराम्॥ १४ ॥
बिल्वाजमोदे कृष्णां च दन्तीं रास्नां च पेषयेत्।साध्यमेरण्डजं तैलं तैलं वा कफरोगनुत्॥ १५ ॥
ब्रध्नोदावर्तगुल्मार्शःप्लीहमेहाढ्यमारुतान्।आनाहमश्मरीं चैव हन्यात्तदनुवासनात्॥ १६ ॥
मदनैर्वाऽम्लसंयुक्तैर्बिल्वाद्येन गणेन वा।तैलं कफहरैर्वाऽपि कफघ्नं कल्पयेद्भिषक्॥ १७ ॥
विडङ्गैरण्डरजनीपटोलत्रिफलामृताः।जातीप्रवालनिर्गुण्डीदशमूलाखुपर्णिकाः॥ १८ ॥
निम्बपाठासहचरशम्पाककरवीरकाः।एषां क्वाथेन विपचेत्तैलमेभिश्च कल्कितैः॥ १९ ॥
फलबिल्वत्रिवृत्कृष्णारास्नाभूनिम्बदारुभिः।सप्तपर्णवचोशीरदार्वीकुष्ठकलिङ्गकैः॥ २० ॥
लतागौरीशताह्वाग्निशटीचोरकपौष्करैः।तत् कुष्ठानि क्रिमीन् मेहानर्शांसि ग्रहणीगदम्॥ २१ ॥
क्लीबतां विषमाग्नित्वं मलं दोषत्रयं तथा।प्रयुक्तं प्रणुदत्याशु पानाभ्यङ्गानुवासनैः॥ २२ ॥
व्याधिव्यायामकर्माध्वक्षीणाबलनिरोजसाम्।क्षीणशुक्रस्य चातीव स्नेहबस्तिर्बलप्रदः॥ २३ ॥
पादजङ्घोरुपृष्ठांसकटीनां स्थिरतां पराम्।जनयेदप्रजानां च प्रजां स्त्रीणां तथा नृणाम्॥ २४ ॥
वातपित्तकफात्यन्नपुरीषैरावृतस्य च।अभुक्ते च प्रणीतस्य स्नेहबस्तेः षडापदः॥ २५ ॥
शीतोऽल्पो वाऽधिके वते पित्तेऽत्युष्णः कफे मृदुः।अतिभुक्ते गुरुर्वर्चःसंचयेऽल्पबलस्तथा॥ २६ ॥
दत्तस्तैरावृतः स्नेहो न यात्यभिभवादपि।अभुक्तेऽनावृतत्वाच्च यात्यूर्ध्वं तस्य लक्षणम्॥ २७ ॥
अङ्गमर्दज्वराध्मानशीतस्तम्भोरुपीडनैः।पार्श्वरुग्वेष्टनैर्विद्यात् स्नेहं वातावृतं भिषक्॥ २८ ॥
स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः।सौवीरकसुराकोलकुलत्थयवसाधितैः॥ २९ ॥
निरूहैर्निर्हरेत् सम्यक् समूत्रैः पाञ्चमूलिकैः।ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत्॥ ३० ॥
दाहरागतृषामोहतमकज्वरदूषणैः।विद्यात् पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत्॥ ३१ ॥
तन्द्राशीतज्वरालस्यप्रसेकरुचिगौरवैः।संमूर्च्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम्॥ ३२ ॥
कषायकटुतीक्ष्णोष्णैः सुरामूत्रोपसाधितैः।फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्॥ ३३ ॥
छर्दिमूर्च्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः।आमलिङ्गैः सदाहैस्तं विद्यादत्यशनावृतम्॥ ३४ ॥
कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम्।विरेको मृदुरत्रामविहिता च क्रिया हिता॥ ३५ ॥
विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहैः।स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सवर्तिभिः॥ ३६ ॥
श्यामाबिल्वादिसिद्धैश्च निरूहैः सानुवासनैः।निर्हरेद्विधिना सम्यगुदावर्तहरेण च॥ ३७ ॥
अभुक्ते शून्यपायौ वा वेगात् स्नेहोऽतिपीडितः।धावत्यूर्ध्वं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि॥ ३८ ॥
मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान्।तत्सिद्धतैल इष्टोऽत्र निरूहः सानुवासनः॥ ३९ ॥
कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः।छर्दिघ्नीभिः क्रियाभिश्च तस्य कार्यं निवर्तनम्॥ ४० ॥
यस्य नोपद्रवं कुर्यात् स्नेहबस्तिरनिःसृतः।सर्वोऽल्पो वाऽऽवृतो रौक्ष्यादुपेक्ष्यः स विजानता॥ ४१ ॥
युक्तस्नेहं द्रवोष्णं च लघुपथ्योपसेवनम्।भुक्तवान् मात्रया भोज्यमनुवास्यस्त्र्यहात्र्यहात्॥ ४२ ॥
धान्यनागरसिद्धं हि तोयं दद्याद्विचक्षणः।व्युषिताय निशां कल्यमुष्णं वा केवलं जलम्॥ ४३ ॥
स्नेहाजीर्णं जरयति श्लेष्माणं तद्भिनत्ति च।मारुतस्यानुलोम्यं च कुर्यादुष्णोदकं नृणाम्॥ ४४ ॥
वमने च विरेके च निरूहे सानुवासने।तस्मादुष्णोदकं देयं वातश्लेष्मोपशान्तये॥ ४५ ॥
रूक्षनिस्यस्तु दीप्ताग्निर्व्यायामी मारुतामयी।वङ्क्षणश्रोण्युदावृत्तवाताश्चार्हा दिने दिने॥ ४६ ॥
एषां चाशु जरां स्नेहो यात्यम्बु सिकतास्विव।अतोऽन्येषां त्र्यहात् प्रायः स्नेहं पचति पावकः॥ ४७ ॥
न त्वामं प्रणयेत् स्नेहं स ह्यभिष्यन्दयेद्गुदम्।सावशेषं च कुर्वीत वायुः शेषे हि तिष्ठति॥ ४८ ॥
न चैव गुदकण्ठाभ्यां दद्यात् स्नेहमनन्तरम्।उभयस्मात् समं गच्छन् वातमग्निं च दूषयेत्॥ ४९ ॥
स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्।उत्क्लेशाग्निवधौ स्नेहाग्निरूहात् पवनाद्भयम्॥ ५० ॥
तस्मान्निरूढः संस्नेह्यो निरूह्यश्चानुवासितः।स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषनुत्॥ ५१ ॥
कर्मव्यायामभाराध्वया(पा)नस्त्रीकर्षितेषु च।दुर्बले वातभह्ने च मात्राबस्तिः सदा मतः॥ ५२ ॥
यथेष्टाहारचेष्टस्य सर्वकालं निरत्ययः।ह्रस्वायाः स्नेहमात्राया मात्राबस्तिः समो भवेत्॥ ५३ ॥
बल्यं सुखोपचर्यं च सुखं सृष्टपुरीषकृत्।स्नेहमात्राविधानं हि बृंहणं वातरोगनुत्॥ ५४ ॥
तत्र श्लोकौ-वातादीनां शमायोक्ताः प्रवराः स्नेहबस्तयः।तेषां चाज्ञप्रयुक्तानां व्यापदः सचिकित्सिताः॥ ५५ ॥
प्राग्भोज्यं स्नेहबस्तेर्यद् ध्रुवं येऽर्हास्त्र्याहाच्च ये।स्नेहबस्तिविधिश्चोक्तो मात्राबस्तिविधिस्तथा॥ ५६ ॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने स्नेहव्यापत्सिद्धिर्नाम चतुर्थोऽध्यायः॥४॥