भारत संहिता

अध्याय ७

बस्तिव्यापत्सिद्धिः

बस्ति की व्यापत्तियाँ

इस अध्याय में (अध्याय का अपना सार, श्लोक ६६)

तत्र श्लोकः-इत्येता व्यापदः प्रोक्ता बस्तेः साकृतिभेषजाः।बुद्ध्वा कार्त्स्न्येन तान् बस्तीन्नियुञ्जन्नापराध्यति॥

श्लोक ६६ →

मूल पाठ के किसी शब्द पर टैप करें - उसका अर्थ दिखेगा।

च. सि. ७/१

अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः॥ १ ॥

च. सि. ७/२

इति ह स्माह भगवानात्रेयः॥ २ ॥

च. सि. ७/३

धीधैर्यौदार्यगाम्भीर्यक्षमादमतपोनिधिम्।पुनर्वसुं शिष्यगणः पप्रच्छ विनयान्वितः॥ ३ ॥

च. सि. ७/४

काः कति व्यापदो बस्तेः किंसमुत्थानलक्षणाः।का चिकित्सा इति प्रश्नाञ्छ्रुत्वा तानब्रवीद्गुरुः॥ ४ ॥

च. सि. ७/५

नातियोगौ क्लमाध्माने हिक्का हृत्प्राप्तिरूर्ध्वता।प्रवाहिका शिरोङ्गार्तिः परिकर्तः परिस्रवः॥ ५ ॥

च. सि. ७/६

द्वादश व्यापदो बस्तेरसम्यग्योगसंभवाः।आसामेकैकशो रूपं चिकित्सां च निबोधत॥ ६ ॥

च. सि. ७/७

गुरुकोष्ठेऽनिलप्राये रूक्षे वातोल्बणेऽपि वा।शीतोऽल्पलवणस्नेहद्रवमात्रो घनोऽपि वा॥ ७ ॥

च. सि. ७/८

बस्तिः संक्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन्।करोति गुरुकोष्ठत्वं वातमूत्रशकृद्ग्रहम्॥ ८ ॥

च. सि. ७/९

नाभिबस्तिरुजं दाहं हृल्लेपं श्वयथुं गुदे।कण्डूगण्डानि वैवर्ण्यमरुचिं वह्निमार्दवम्॥ ९ ॥

च. सि. ७/१०

तत्रोष्णायाः प्रमथ्यायाः पानं स्वेदाः पृथग्विधाः।फलवर्त्योऽथवा कालं ज्ञात्वा शस्तं विरेचनम्॥ १० ॥

च. सि. ७/११

बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्।सुरादिमूत्रवान् बस्तिः सप्राक्पेष्यस्तमानयेत्॥ ११ ॥

च. सि. ७/१२

स्निग्धस्विन्नेऽतितीक्ष्णोष्णो मृदुकोष्ठेऽतियुज्यते।तस्य लिङ्गं चिकित्सा च शोधनाभ्यां समा भवेत्॥ १२ ॥

च. सि. ७/१३

पृश्निपर्णीं स्थिरां पद्मं काश्मर्यं मधुकं बलाम्।पिष्ट्वा द्राक्षां मधूकं च क्षीरे तण्डुलधावने॥ १३ ॥

च. सि. ७/१४

द्राक्षायाः पक्वलोष्टस्य प्रसादे मधुकस्य च।विनीय सघृतं बस्तिं दद्याद्दाहेऽतियोगजे॥ १४ ॥

च. सि. ७/१५

आमशेषे निरूहेण मृदुना दोष ईरितः।मार्गं रुणद्धि वातस्य हन्त्यग्निं मूर्च्छयत्यपि॥ १५ ॥

च. सि. ७/१६

क्लमं विदाहं हृच्छूलं मोहवेष्टनगौरवम्।कुर्यात् स्वेदैर्विरूक्षैस्तं पाचनैश्चाप्युपाचरेत्॥ १६ ॥

च. सि. ७/१७

पिप्पलीकत्तृणोशीरदारुमूर्वाशृतं जलम्।पिबेत् सौवर्चलोन्मिश्रं दीपनं हृद्विशोधनम्॥ १७ ॥

च. सि. ७/१८

वचानागरशट्येला दधिमण्डेन मूर्च्छिताः।पेयाः प्रसन्नया वा स्युररिष्टेनासवेन वा॥ १८ ॥

च. सि. ७/१९

दारु त्रिकटुकं पथ्यां पलाशं चित्रकं शटीम्।पिष्ट्वा कुष्ठं च मूत्रेण पिबेत् क्षारांश्च दीपनान्॥ १९ ॥

च. सि. ७/२०

बस्तिमस्य विदध्याच्च समूत्रं दाशमूलिकम्।समूत्रमथवा व्यक्तलवणं माधुतैलिकम्॥ २० ॥

च. सि. ७/२१

अल्पवीर्यो महादोषे रूक्षे क्रूराशये कृतः।बस्तिर्दोषावृतो रुद्धमार्गो रुन्ध्यात् समीरणम्॥ २१ ॥

च. सि. ७/२२

स विमार्गोऽनिलः कुर्यादाध्मानं मर्मपीडनम्।विदाहं गुरुकोष्ठस्य मुष्कवङ्क्षणवेदनाम्॥ २२ ॥

च. सि. ७/२३

रुणद्धि हृदयं शूलैरितश्चेतश्च धावति।श्यामाफलादिभिः कुष्ठकृष्णालवणसर्षपैः॥ २३ ॥

च. सि. ७/२४

धूममाषवचाकिण्वक्षारचूर्णगुडैः कृताम्।कराङ्गुष्ठनिभां वर्तिं यवमध्यां निधापयेत्॥ २४ ॥

च. सि. ७/२५

अभ्यक्तस्विन्नगात्रस्य तैलाक्तां स्नेहिते गुदे।अथवा लवणागारधूमसिद्धार्थकैः कृताम्॥ २५ ॥

च. सि. ७/२६

बिल्वादिना निरूहः स्यात् पीलुसर्षपमूत्रवान्।सरलामरदारुभ्यां सिद्धं चैवानुवासनम्॥ २६ ॥

च. सि. ७/२७

मृदुकोष्ठेऽबले बस्तिरतितीक्ष्णोऽतिनिर्हरन्।कुर्याद्धिक्कां, हितं तस्मै हिक्काघ्नं बृंहणं च यत्॥ २७ ॥

च. सि. ७/२८

बलास्थिरादिकाश्मर्यत्रिफलागुडसैन्धवैः।सप्रसन्नारनालाम्लैस्तैलं पक्तवाऽनुवासयेत्॥ २८ ॥

च. सि. ७/२९

कृष्णालवणयोरक्षं पिबेदुष्णाम्बुना युतम्।धूमलेहरसक्षीरस्वेदाश्चान्नं च वातनुत्॥ २९ ॥

च. सि. ७/३०

अतितीक्ष्णः सवातो वा न वा सम्यक् प्रपीडितः।घट्टयेद्धृदयं बस्तिस्तत्र काशकुशेत्कटैः॥ ३० ॥

च. सि. ७/३१

स्यात् साम्ललवणस्कन्धकरीरबदरीफलैः।शृतैर्बस्तिर्हितः सिद्धं वातघ्नैश्चानुवासनम्॥ ३१ ॥

च. सि. ७/३२

वातमूत्रपुरीषाणां दत्ते वेगान्निगृह्णतः।अति वा पीडितो बस्तिर्मुखेनायाति वेगवान्॥ ३२ ॥

च. सि. ७/३३

मूर्च्छाविकारं तस्यादौ दृष्ट्वा शीताम्बुना मुखम्।सिञ्चेत् पार्श्वोदरं चाधः प्रमृज्याद्वीजयेच्च तम्॥ ३३ ॥

च. सि. ७/३४

केशेष्वालम्ब्य चाकाशे धुनुयात्त्रासयेच्च तम्।गोखराश्वगजैः सिंहै राजप्रेष्यैस्तथोरगैः॥ ३४ ॥

च. सि. ७/३५

उल्काभिरेवमन्यैश्च भीतस्याधः प्रवर्तते।वस्त्रपाणिग्रहैः कण्ठं रुन्ध्यान्न म्रियते यथा॥ ३५ ॥

च. सि. ७/३६

प्राणोदाननिरोधाद्धि प्रसिद्धतरमार्गवान्।अपानः पवनो बस्तिं तमाश्वेवापकर्षति॥ ३६ ॥

च. सि. ७/३७

ततः क्रमुककल्काक्षं पाययेताम्लसंयुतम्।औष्ण्यात्तैक्ष्यात् सरत्वाच्च बस्तिं सोऽस्यानुलोमयेत्॥ ३७ ॥

च. सि. ७/३८

पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः।यवकोलकुलत्थैश्च विधेयो मूत्रसाधितः॥ ३८ ॥

च. सि. ७/३९

बिल्वादिपञ्चमूलेन सिद्धो बस्तिरुरःस्थिते।शिरःस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः॥ ३९ ॥

च. सि. ७/४०

स्निग्धस्विन्ने महादोषे बस्तिर्मृद्वल्पभेषजः।उत्क्लिश्याल्पं हरेद्दोषं जनयेच्च प्रवाहिकाम्॥ ४० ॥

च. सि. ७/४१

स बस्तिपायुशोफेन जङ्घोरुसदनेन वा।निरुद्धमारुतो जन्तुरभीक्ष्णं संप्रवाहते॥ ४१ ॥

च. सि. ७/४२

स्वेदाभ्याङ्गान्निरूहांश्च शोधनीयानुलोमिकान्।विदध्याल्लङ्घयित्वा तु वृत्तिं कुर्याद्विरिक्तवत्॥ ४२ ॥

च. सि. ७/४३

दुर्बले क्रूरकोष्ठे च तीव्रदोषे तनुर्मृदुः।शीतोऽल्पश्चावृतो दोषैर्बस्तिस्तद्विहतोऽनिलः॥ ४३ ॥

च. सि. ७/४४

मार्गैर्गात्राणि सन्धावन्नूर्ध्वं मूर्ध्नि विहन्यते।ग्रीवां मन्ये च गृह्णानि शिरः कण्ठं भिनत्ति च॥ ४४ ॥

च. सि. ७/४५

बाधिर्यं कर्णनादं च पीनसं नेत्रविभ्रमम्।कुर्यादभ्यञ्जनं तैललवणेन यथाविधि॥ ४५ ॥

च. सि. ७/४६

युञ्ज्यात् प्रधमनैर्नस्यैर्धूमैरस्य विरेचयेत्।तीक्ष्णानुलोमिकेनाथ स्निग्धं भुक्तेऽनुवासयेत्॥ ४६ ॥

च. सि. ७/४७

स्नेहस्वेदैरनापाद्य गुरुस्तीक्ष्णोऽतिमात्रया।यस्य बस्तिः प्रयुज्येत सोऽतिमात्रं प्रवर्तयेत्॥ ४७ ॥

च. सि. ७/४८

स्रुतेषु तस्य दोषेषु निरूढस्यातिमात्रशः।स्तब्धोदावृतकोष्ठस्य वायुः संप्रतिहन्यते॥ ४८ ॥

च. सि. ७/४९

विलोमनसमुद्भूतो रुजत्यङ्गानि देहिनः।गात्रवेष्टननिस्तोदभेदस्फुरणजृम्भणैः॥ ४९ ॥

च. सि. ७/५०

तं तैललवणाभ्यक्तं सेचयेदुष्णवारिणा।एरण्डपत्रविष्क्वाथैः प्रस्तरैश्चोपपादयेत्॥ ५० ॥

च. सि. ७/५१

यवान् कुलत्थान् कोलानि पञ्चमूले तथोभये।जलाढकद्वये पक्त्वा पादशेषेण तेन च॥ ५१ ॥

च. सि. ७/५२

कुर्यात् सबिल्वतैलोष्णलवणेन निरूहणम्।तं निरूढं समाश्वस्तं द्रोण्यां समवगाहयेत्॥ ५२ ॥

च. सि. ७/५३

ततो भुक्तवतस्तस्य कारयेदनुवासनम्।यष्टीमधुकतैलेन बिल्वतैलेन वा भिषक्॥ ५३ ॥

च. सि. ७/५४

मृदुकोष्ठाल्पदोषस्य रूक्षस्तीक्ष्णोऽतिमात्रवान्।बस्तिर्दोषान्निरस्याशु जनयेत् परिकर्तिकाम्॥ ५४ ॥

च. सि. ७/५५

त्रिकवङ्क्षणबस्तीनां तोदं नाभेरधो रुजम्।विबन्धोऽल्पाल्पमुत्थानं बस्तिनिर्लेखनाद्भवेत्॥ ५५ ॥

च. सि. ७/५६

स्वादुशीतौषधैस्तत्र पय इक्ष्वादिभिः शृतम्।यष्ट्याह्वतिलकल्काभ्यां बस्तिः स्यात् क्षीरभोजिनः॥ ५६ ॥

च. सि. ७/५७

ससर्जरसयष्ट्याह्वजिङ्गिनीकर्दमाञ्जनम्।विनीय दुग्धे बस्तिः स्यात् व्यक्ताम्लमृदुभोजिनः॥ ५७ ॥

च. सि. ७/५८

पित्तरोगेऽम्ल उष्णो वा तीक्ष्णो वा लवणोऽथवा।बस्तिर्लिखति पायुं तु क्षिणोति विदहत्यपि॥ ५८ ॥

च. सि. ७/५९

स विदग्धः स्रवत्यस्रं पित्तं चानेकवर्णवत्।सार्यते बहुवेगेन मोहं गच्छति चासकृत्॥ ५९ ॥

च. सि. ७/६०

आर्द्रशाल्मलिवृन्तैस्तु क्षुण्णैराजं पयः शृतम्।सर्पिषा योजितं शीतं बस्तिमस्यै प्रदापयेत्॥ ६० ॥

च. सि. ७/६१

वटादिपल्लवेष्वेष कल्पो यवतिलेषु च।सुवर्चलोपोदिकयोः कर्बुदारे च शस्यते॥ ६१ ॥

च. सि. ७/६२

गुदे सेकाः प्रदेहाश्च शीताः स्युर्मधुराश्च ये।रक्तपित्तातिसारघ्नी क्रिया चात्र प्रशस्यते॥ ६२ ॥

च. सि. ७/६३

तीक्ष्णत्वं मूत्रपील्वग्निलवणक्षारसर्षपैः।प्राप्तकालं विधातव्यं क्षीराद्यैर्मार्दवं तथा॥ ६३ ॥

च. सि. ७/६४

आपादतलमूर्धस्थान् दोषान् पक्वाशये स्थितः।वीर्येण बस्तिरादत्ते खस्थोऽर्को भूरसानिव॥ ६४ ॥

च. सि. ७/६५

यद्वत् कुसुम्भसंमिश्रात्तोयाद्रागं हरेत् पटः।तद्वद्द्रवीकृताद्देहान्निरूको निर्हरेन्मलान्॥ ६५ ॥

च. सि. ७/६६

तत्र श्लोकः-इत्येता व्यापदः प्रोक्ता बस्तेः साकृतिभेषजाः।बुद्ध्वा कार्त्स्न्येन तान् बस्तीन्नियुञ्जन्नापराध्यति॥ ६६ ॥

च. सि. ७

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने बस्तिव्यापत्सिद्धिर्नाम सप्तमोऽध्यायः॥७॥